मङ्गलपद्यानि
महाभारतम् (गीता)
नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये ।।
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं गीताभाष्यम्
देवं नारायणं नत्वा सर्वदोषविवर्जितम् ।
परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ।।
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीगीतातात्पर्यम्
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।
श्रीजयतीर्थविरचिता प्रमेयदीपिका
गुणगणनिलयं पतिं रमायाः जगदघदहनं च वासवीसूनम् ।
मुनिकुलतिलकं च पूर्णबोधं गुरुमपि परमं गुरुं च मे वन्दे ।।
आनन्दतीर्थभगवत्पादाचार्यविनिर्मितम् ।
व्याख्यास्ये भगवद्गीताभाष्यं तत्करुणाबलात् ।
प्रारिप्सितविघ्नविधातादिप्रयोजनं मसुचितविशिष्टेष्टदेवताप्रणामं ग्रन्थारम्भप्रतिज्ञां चादौ निबध्नाति भगवान् भाष्यकारः ।। देवमिति ।।
श्रीराघवेन्द्रयतिविरचिता गीताविवृतिः ।
लक्ष्मीनारायणं नत्वा पूर्णबोधादिकान् गुरून् ।
कुर्मः श्रीकृष्णगीताया भाष्याद्युक्तार्थसङ्ग्रहम् ।।