अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
’श्रेयान् ’ इत्यस्य सङ्गतिमाह- तथापीति।’ज्यायसी चेत्’ (3.1) इत्यत्र द्वावाक्षेपावर्जुनेन कृतौ तत्राद्यः ’लोकेऽस्मिन् ’ (3.3) इत्यादिना परिहृतः। इदानीं ’युद्ध्यस्व विगतज्वरः’ (3.30), ’तयोर्न वशमागच्छेत्’ (3.34) इत्युक्त्या स्मारितं द्वितीयमाक्षेपमाशङ्क्य परिहरतीत्यर्थः। यद्यपि कर्म कर्तव्यम्। तथापि उग्रमवर्जनीयरागद्वेषम्। ’न कुर्याम्’ इति शेषः।
गीताभाष्यम्
हरिः ओम् ।
तथाप्युग्रं युद्धकर्मेत्यत आह- श्रेयानिति।
गीतातात्पर्यम्
हरिः ओम् ।
'नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ।
यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् ।
तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ।
जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
पुमान्दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत्क्रमात्'' ॥ इति ब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
'क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।
क्वचित् प्रकृष्टकर्तृत्वाद् भगवान्प्रकृतिर्हरिः'' ॥ इति शब्दनिर्णये ।
'स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः ।
उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः ।
अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः ।
शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।
उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः ।
अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृऽता ।
नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया ।
अतोनुवर्तते नित्यं संसारोयमनादिमान् ।
अतोधमानां जीवानां मिथ्याज्ञानादयोखिलाः ।
स्वाभाविका गुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः ।
तत्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।
कार्यते ह्यवशः कर्म सर्वैस्तैः प्राकृतैर्गुणैः ।
स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ।
कर्मसु क्रियमाणेषु कर्ताहमिति मूढधीः ।
मन्यते तत्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु ।
प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।
इति मत्वा न सक्तः स्यात्प्रीतोस्य भवति प्रभुः ।
स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम् ।
स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते ।
तान्गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।
तेष्वयोग्येषु तत्वज्ञस्तत्त्वं नातिप्रकाशयेत् ।
वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।
सभ्यरूपेण वा ब्रूयात्पृष्टेव्यक्तिकृदेव वा ।
बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।
स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति'' ॥ इत्यादि प्रकाशसंहितायाम् ॥ २७-३५ ॥
Notes