वर्णाश्रमविहितकर्मणां अकरणेनैव मोक्षसिद्धिः न भवति न वा निर्वृत्तकर्मकरणमात्रेण पुरुषः सिद्धिं प्राप्नोति।।3.4।।
वर्णाश्रम मे विहित कर्म न करनेसे मोक्षसिद्धि न होवेगि, निवृत्तकर्मकरणमात्र से भी पुरुष सिद्धि को प्राप्त न कर पावेगा ।।३.१।।
ವರ್ಣಾಶ್ರಮವಿಹಿತ ಕರ್ಮವನ್ನು ಮಾಡದೆ ಇದ್ದರೆ ಸಿದ್ಧಿ ಆಗುವುದಿಲ್ಲ, ನಿವೃತ್ತಕರ್ಮಾನುಷ್ಠಾನ ಮಾತ್ರದಿಂದಲೂ ಪುರುಷನು ಸಿದ್ಧಿಯನ್ನು ಪಡೆಯಲಾರ.
వర్ణాశ్రమ విహితములైన కర్మలను త్యజించుట వలన సిద్ధి కాజాలదు. కేవల నిష్కామకర్మ చేయుట వలననూ పురుషుడు మోక్షమును పొందజాలడు.
Tamil
One cannot attain liberation by renouncing the Varnashrama Karma. Nor one qualifies to Liberation by performing Nishkama Karma.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । ‘न कर्मणाम्’ इति मोक्षस्य कर्मसाध्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह – इतश्चेति। ‘स्ववर्णाश्रमोचिते युद्धादौ’ इति शेषः । प्राग् आधिकारिकत्वात् त्वया कर्म कर्तव्यमित्युपयुक्तम् । इदानीं कोSपरो हेतुरुच्यत इत्यतो व्याचष्टे - कर्मणामिति ।। अयमभिप्रायः । कर्माणि न कार्याणीति वदन् प्रष्टव्यः । किं ज्ञानं न मोक्षसाधम्, अपि तु कर्माकरणमेवेति मत्वा कर्माणि त्यज्यन्ते?उत ज्ञानं मोक्षसाधनम् भवत्येव, किन्तु ‘कर्मणा बध्यते जन्तुः’ इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा? आद्येSपि किं मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वमात्रमाश्रित्येदमुच्यते । अथवा क्रिया-कारक-फलरुपस्य संसारस्यकर्मैव बीजम्, अकरणे च बीजाभावात् संसारो व भविष्यतीति युक्तिमाश्रित्य । आद्यस्य दूषणम् – न कर्मणामिति ।। नैष्कर्म शब्दस्यान्यथाSपि व्याख्यानान्नाद्य इत्यर्थः । ततः किमित्यत आह - ज्ञानमेवेति ।। उक्तमाक्षिप्य समाधत्ते – कुत इति ।। नैष्कर्म्यशब्दस्यान्यार्थतामङ्गीकृत्य कर्माकरणस्य मोक्षसाधनत्वनिराकरणे को हेतुरित्यर्थः । कथमस्यहेतुत्वम् ? इत्यतो व्याचष्टे – सर्वदेति ।। प्रळयेSपि सम्भवार्थम् ‘स्थूलेन सूक्ष्मेण वा’ इत्युक्तम् । तथाSपि कथं हेतुत्वम्? इत्यत आह - यदीति ।। ‘स्यात्’ इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । ‘स्थावराणाम्’ इत्यनधिकृतोपलक्षणम् । ततश्नादचानादौ संसारेSनधिकृतदेहस्य सम्भवेन सुक्तिप्रसङ्गाद् दृश्यमानं पुरुषत्वं न स्यादिति भावः ।
द्वितीयनिरासेSप्यस्यैवार्धस्य तात्पर्यमाह – न चेति ।। कर्माभावात् संसारबीजाभावात् । अत्र ‘नैष्कर्स्यम्’ इति मुक्तिनामैव, न तु परप्रमाणानुवादः । कुतो न भवतीत्यतोSत्रापि ‘पुरुषत्वाद्’ इति हेतुमभिप्रेत्याह - प्रतीति । जन्मनिजन्मनि कृतानामित्यर्थः । पुरुषत्वेनानादौ संसारेSधिकृतानन्तजन्मसम्भवात् तत्र कृतानामनन्तकर्मणां भावात् किम् अद्याकरणमात्रेणभवतीत्यर्थः ।ननु पूर्वपूर्वशरीरकृतानि कर्माण्युत्तरोत्तरशरीरे भुक्तानि । तत्कुतोऽनन्तकर्मणां भाव इत्यत आह- न चेति।। कुतो नेत्यत आह- एकस्मिन्निति।। हिशब्दो हेतौ। बहून्यपि भुज्यन्तां, को दोष? इत्यत आह- तानि चेति।। तानि च कानिचिदिति सम्बन्धः। एकैकानीति।। प्रत्येकमित्यर्थः। ननु तथाविधान्यप्यनधिकृतजन्मभिर्मुक्तानीत्यत आह -तत्र चेति।। तेषु कर्मसु। भुञ्जन्भुञ्जानः। शेषेण कर्मशेषेण। मानुष्ये चाकरणमसम्भावितमित्याह- ततश्चेति।। असमाप्तिः ‘भोगेन कर्मणाम्’ इति शेषः।
सम्भावनामात्रेणेदमुक्तं, न तु प्रमितमित्यत आह- तच्चेति।। चतुर्दशवर्षात्। अनूनो दशको यस्येति विग्रहः। ह्रस्वदीर्घव्यत्ययेन ‘चतुर्दशोर्ध्वजीविनी’ इति स्त्रिया विशेषणम्। ’संसारश्च’ इति कर्मणामनन्तत्वोपपादनम्। अतः भोगेन क्षयासम्भवात्। अवित्वा अविदित्वा। पुरुषशब्देनानादिदेहसम्बन्ध उक्तः। सोऽसिद्ध इत्यत आह यदीति।। अतत्प्राप्तिः आकस्मिकस्य संसारस्याप्राप्तिः स्यात्। अतः पुरुषत्वं सिद्धमिति। ननु सन्तु प्राग्भवीयान्यनन्तकर्माणि। तथाऽपि बन्धकानि कथं प्रेक्षावता क्रियेरन्? न ह्यनन्तानि पापानि प्राक्तनानि सन्तीत्येतावताऽद्य क्रियन्त इत्यत आह -अबन्धकत्वं त्विति।। कर्मणां बन्धाहेतुत्वं त्वकामनादिनैव भवति। न त्वकरणेन। प्रत्यवायस्यैव प्राप्तेरित्यर्थः। अकामेऽबन्धकत्वं भगवत्सम्मतमिति भावेनाह -तच्चेति।।
सङ्करस्तु- अकरणम् असत् न सन्तं प्रत्यवायं जनयति। ’कथमसतः सज्जायेत’ (छा.6.2.1) इति श्रुतेः इत्यवादीत्। तद् भास्करः प्रत्यषेधीत्। द्रव्यविषया श्रुतिः। गुणस्त्वसतोऽपि जायते इति। उभावपि स्थूलदृश्वानौ। न ह्यकरणमसत्। तथा सति करणप्रसङ्गात्। किन्त्वभावः। स च भाववत्तत्त्वमेवेति कथमकारणम्? गुणं प्रति कारणत्वे च द्रव्यकारणत्वं कुतो न भवेत्। न ह्यत्रोपादानत्वं विवक्षितम्, किन्तु निमित्तत्वमेवेत्यलम्।
’न च सन्न्यसनादेव’ इति पुनरुक्तम्। अत्रापि कर्मसंन्यासस्यामोक्षसाधनत्वोक्तेरित्यत आह- नन्विति।। ’निष्कामं ज्ञानपूर्वं च’ इति मानवे वाक्ये तावन्निष्कामकर्मणा मोक्षः स्मृतः। स चोपपत्त्यन्तरादर्शनात्, निष्कामकर्मणः फलाभावादित्येव तत्रोपपत्तिरङ्गीकार्या। यत एवं फलाभावस्यैव प्राधान्यम्, अतोऽकरणेऽपि फलाभावस्य साम्यान्मोक्षो भवत्येव। यत्प्राग्भवीयकर्मफलमुक्तं निष्कामकरणपक्षेऽपि तत् समानम्। न च विनिगमने कारणाभावः । आयासाभावस्य सत्त्वात्। न च प्रत्यवायप्राप्तिः। अमुमुक्षुविषयत्वसम्भवात्। अतो न कर्माणि करोमीति भावः। अनेन कथमस्य परिहारः इत्यत आह -सन्न्यास इति।। तेन च निष्कामकर्मकरणमुपलक्ष्यत इति भावः।
निष्कामकर्मकरणान्मोक्षं न प्राप्नोति। अतो न तत् प्रतिबन्दीग्रहणं युक्तमित्यनेनोक्तम्। तथा च स्मृतिविरोध इत्यतः स्मृतेरभिप्रायमाह- अकामेति।। ’सकाशाद्’ इति शेषः। ’पुंसाम्’ इति वा। अकामकर्मभिरन्तःकरणशुद्धिद्वारा ज्ञानं जायत इत्येतत्कुतः? इत्यत आह तच्चेति।। नन्वत्र वैराग्यं जायत इत्युच्यते, न तु ज्ञानमिति। तत्राह -विरक्तानामेवेति।। प्रागपि वैराग्यद्वारेत्यभिमतमिति भावः। तथापि कथं विरोधपरिहारः? गीतायामकामकर्मणां मोक्षसाधनत्वाभावावधारणात् इत्यतस्तदभिप्रायमाह -न त्विति।। फलाभावोपपत्तिकं मोक्षसाधनत्वं निषिद्ध्यते। न तु सर्वथाऽपीत्यर्थः। प्रतिबन्दीं मोचयति - कर्माभावादिति।। अतः कर्माभावान्न मोक्ष इत्यर्थः। श्लोकतात्पर्यमुपसंहरति - अत इति।।
ननु यत्याश्रमो मोक्षसाधनत्वेन श्रुत्यादिप्रसिद्धः। तत्र चेयमेवोपपत्तिः यत्तद्धर्माणां फलाभावः। अतः तत्साम्याद् अकरणेऽपि मोक्षो भवतीत्येतच्छङ्कानिरासार्थं चोक्तम्- ’न च सन्न्यसनादेव’ इति। एवं तर्हि श्रुत्यादिविरोध इत्यत आह -यत्याश्रमस्त्विति।। प्रायत्यं प्रयतत्वमीश्वरे मनस्समाधानम्। एतद्द्वाराद्वयेन मोक्षसाधनत्वं श्रुत्यादेरभिप्रेतम्। फलाभावोपपत्तिकं तु गीतायां निवारितम्, अतो न विरोध इति भावः। आश्रमान्तरेऽपि प्रायत्यसम्भवात् किं तदर्थं यत्याश्रमेण? इत्यत आह- अप्रयतत्वमेवेति।। इतरकर्मसु यजनादिषु। प्रायत्यं कथं मोक्षसाधनं? इत्यतो व्यतिरेकमुखेनोपपादयति अप्रयतानां चेति।। ’प्रज्ञानेनैनमाप्नुयात्’ (कठो.1.6.10) इति श्रुतिशेषः। अशान्तः अभगवन्निष्ठः। असमाहितः तत्र चित्तसमाधानहीनः। भगवत्तोषणस्याऽश्रमान्तरेण सम्भवात् किं यत्याश्रमेण? इत्यत आह- महांश्चेति।। तुरीयं परमहंसाख्यम्। वाक्यशेषेणान्वयः। यत्याश्रम एव चेत्प्रायत्यं महान्भगवतस्तोषश्च, तर्हि तद्रहितानामाधिकारिकाणां तदुभयाभावप्रसङ्ग इत्यत आह- आधिकारिकास्त्विति।। तत्स्थाः अधिकारस्थाः। स एव अधिकार एव। तुष्यत्यनेनेति तोषः। समासान्तविधेरनित्यत्वा ’आदिराज्ञाम् ’ इत्युक्तम्। यथोक्तं भाष्ये ’शुच्यम्पि तटाकानि’ इति।।4।।
गीताभाष्यम्
हरिः ओम् । इतश्च नियोक्ष्यामित्याह - न कर्मणामिति ।। कर्मणाम् युद्धादीनामनारम्भणेन नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं, नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः । कुतः? पुरुषत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेन मुक्तिःस्यात् स्थावराणां च । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तानां कर्मणां भावात् । न च सर्वाणि कर्माणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकेकानि बहुजन्मफलानि कानिचित् । तत्र चैकेकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः ।तच्चोक्तम् –
‘जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।
स्त्री वाsप्यनूनदशकं देहं मानुषमार्जते ।।
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।
अतोsवित्वा परं देवं मोक्षाशा का महामुने ।।‘
इति ब्राह्मे । यदि सादिः स्यात् संसारः पूर्वकर्माभावाद् अतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते ‘अनिष्टमिष्टम्’ (18.12) इति ।।
ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः –
‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।। ‘
इति मानवे । अतस्तत्साम्याद् अकरणेsपि भवतीत्यत आह – न चेति ।। सन्न्यासः काम्यकर्मपरित्यागः । ‘काम्यानां कर्मणां न्यासम्‘ (18.2) इति वक्ष्यमाणत्वात् । अकामकर्मणाम् अन्तः – करणशुद्ध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम् -
‘कर्मभिश्शुद्धसत्त्वस्य वैराग्यं जायते हृदि ।’
इति भागवते । विरक्तानामेव च ज्ञानमित्युक्तम् ।
‘न तस्य तत्वग्रहणाय साक्षाद्
वरीयसीरपि वाचस्समासन् ।
स्वप्ने निरुक्त्या गृहमेध(धि)सौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ।।’ (भा. 5.11.3)
इति । न तु फलाभावात् ।कर्माभावात् । अतो न कर्मत्याग एव मोक्षसाधनम् ।
यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्तादीनाम्, इतरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथा हि श्रुतिः ‘नाशान्तो नासमाहितः’ (कठ. 1.6.10) इति । महांश्च यत्याश्रमे तोषो भगवतः । तथा ह्याह –
‘यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषिणीम्’
इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवतस्तोषः । तच्चोक्तम् –
‘देवादीनामादिराज्ञां महोद्योगेSपि नो मनः ।
विष्णोश्चलति तद्भोगोSप्यतीव हरितोषणम् ।।’ इति पाद्मे ।।4।।
गीतातात्पर्यम्
हरिः ओम् ।
Notes