अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
उपायाभावानुमानाभासाभ्यामनुपलम्भो विपरीतोपलम्भश्चेत्युक्तम्। अतः किमुत्तरेण वाक्येन? इत्यत आह कथमिति। भगवान्गुणमयविग्रह इत्ययं न मोहः। बाधकप्रत्ययाभावात्। ज्ञानिनां सम्यक्प्रत्ययो बाधक इत्युक्तमिति चेत् न। बहुतरज्ञानविरोधेन कतिपयज्ञानानामेवा यथार्थत्वापत्तेः। ननूत्तरकाले बाधकप्रत्ययो भविष्यति इति चेत् न। अनादौ कालेs जातस्योत्तरत्राप्यसम्भवादिति भावः।
ननु बाधकप्रत्ययाभावाद्यथार्थ एवायं प्रत्यय इति शङ्कायां किमेतदसङ्गतमुच्यते? इत्यत आह- अयमिति।एषा इत्यनुवादेन मोहिका इति व्याख्यातम्। मोहितम् इति धात्वर्थमात्रं परामृश्य योग्यप्रत्ययसम्बन्धेन व्याख्यानात्। गुणमयी तदभिमानिनी दुर्गा या हि तमोगुणेनैवंविधं मोहं जनयति। अनुमानं तु निमित्तमात्रम्।
ततः किम्? इत्यत आह- सा चेति। सा च दुरत्यया। तत्कृतमोहं कोऽपि नात्येतुं शक्नोति। न कस्यापि बाधकप्रत्ययो भवति। कुतो दुरत्यया? इत्यतोऽतिशक्तेरिति हेतुरध्याहृत्योक्तः। कुतोऽतिशक्तित्वम्? इत्यतो दैवी इत्येतद्धेतुगर्भमिति व्याख्यातम्। देवसम्बन्धित्वादिति। सम्बन्धित्वं परमप्रियत्वम्।
सति देवस्यातिशक्तित्वे तत्सम्बन्धिन्यास्तत्स्यात्। तदेव कुतः? इत्यतो देवशब्दार्थो निरुक्तः- सृष्ट्यादीति। सृष्ट्यादिश्च सा क्रीडा च। प्रथमादिपदेन स्थित्यादेः सङ्ग्रहः। द्वितीयेन विजिगीषादेः। क्रीडादिमत्वेनातिशक्तिर्न सिध्यतीति क्रीडा व्याख्याता।
देवशब्दस्य क्रीडादिमत्त्वमर्थः। कुतः? इत्यत आह- तथा हीति। देवशब्दे या प्रकृतिस्तदर्थमित्यर्थः। प्रत्ययंस्तु इगुपधलक्षणस्य कस्य बाधकः पचाद्यच्। दैवी इत्यनेन निराकाङ्क्षत्वान्ममेति व्यर्थमित्यत आह- कथमिति। तस्यैव व्याख्यार्थमेतदिति भावः। त्वदीयत्वेऽपि कथं दैवी? इत्यतः शेषं पूरयति- अहं हीति। आशयवर्णनसमाप्ताविति शब्दः।
अत्र प्रमाणमाह- अब्रवीच्चेति।
उत्तरस्य प्रकृतोपयोगितया सङ्गतिमाह- तर्हीति। यदि न केवलमनुमानं किन्तु भगवतोपोद्बोलिता माया मोहहेतुस्तर्हीत्यर्थः। ततश्च ज्ञानिव्यावृत्त्यर्थं यदिदमित्युक्तं तदसदिति भावः। ननु मायात्ययोपायस्यासम्भावनाशङ्कायां तदुपाय एव वक्तव्यः न तूपायान्तरप्रतिषेधः। अतोऽनुपपन्नमव धारणमित्यतआह- अन्यदिति। स्वप्रतिपत्तावित्थम्भावसूचक एव एव शब्दो नोपायान्तरप्रतिषेधपर इत्यर्थः। एवं तर्हि गुर्वादिवन्दनाभावः प्राप्त इत्यतोऽभिप्रायमाह- गुर्वादीति। ‘भागवता एते‘ इत्यादिबुद्ध्या वन्दनादि कुर्वन्तीति यावत्।
एतन्मध्यमभक्तानां चरित्रमुक्तम्। उत्तमानां त्वाह- स एवेति। भगवानेव। तत्र गुर्वादिषु। द्वयं प्रमाणेनोपपादयति- आह चेति। अहं च सा सम्पत्तिश्च मदुपाधितया मत्प्रतिमात्वेन। चैत्यं चित्स्थम्। स्वगतिं स्वज्ञानम्। व्यनङ्क्षि व्यञ्जयसि।
गीताभाष्यम्
हरिः ओम् ।
कथमनादिकाले मोहानत्ययो बहूनाम्? इत्यत आह- दैवीति। अयमाशयः। माया ह्येषा मोहिका।
सा च सृष्ट्यादिक्रीडादिमद्देवसम्बन्धित्वादतिशक्तेर्दुरत्यया। तथा हि देवताशब्दार्थं पठन्ति-
‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमदमोदस्वप्नकान्तिगतिषु (काशकृष्ण.धा.पा.दि.1) इति।
कथं? दैवी मदीयत्वात्। अहं हि देव इति।
अब्रवीच्च-
‘श्रीर्भूदुर्गेति या भिन्ना महामाया तु वैष्णवी।
तच्छक्त्यनन्तांशहीनाऽथापि तस्याश्रयात्प्रभोः।
अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि।
तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः‘ इति च व्यासयोगे।
तर्हि न कथञ्चिदत्येतुं शक्यते इत्यात आह- मामेवेति। अन्यत्सर्वं परित्यज्य मामेव ये प्रपद्यन्ते गुर्वादिवन्दनं च मय्येव समर्पयन्ति स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति।
आह च नारदीये-
‘मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः।
मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः‘ इति।
‘आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि‘ इति च।
गीतातात्पर्यम्
हरिः ओम् ।
Notes