अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् ।
एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
बलवद्विषयश्चेत् प्रश्नः तर्हि परिहारो न सङ्गच्छत इत्यतः परिहारं व्याचष्टे- यस्त्विति। प्रवर्तकः ’पापेषु पुरुषस्य त्वया पृष्टः’ इति शेषः। एवं योजनायां क्रोधस्यापि कामसाम्यं स्यात्। तथा चोत्तरत्र कामस्यैवानुवृत्तिर्विरुद्ध्येतेत्यतः ’क्रोध एषः’ इत्येतदन्यथा व्याचष्टे -क्रोधोऽपीति। किं काम एव मुख्यया वृत्त्यैवमुच्यते? नेति ब्रूमः। किन्तूपचारेण इति भावेनाह- तदिति। तदेव कुतः इत्यत आह -कामादिति। नायमस्ति नियमः। यदा गुरुनिन्दादिश्रवणे निन्दकाय क्रुद्ध्यति तदा कामाभावेऽपि क्रोधोदयदर्शनात् इत्यत आह- यत्रापीति। भक्तिनिमित्तश्चासौ अनिन्दाकामश्चेति विग्रहः। ’सङ्गात्सञ्जायते कामः’ (2.62) इत्येतद्दर्शयितुं ’भक्तिनिमित्ता ’ इत्युक्तम्।
’काम एव (एषः) केनचित् प्रतिहतः क्रोधत्वेन परिणमते’ इति परेषां व्याख्यानं दूषयति -ये त्विति। एकान्तःकरणोपादानत्वलक्षणादानन्तर्यलक्षणाच्च सङ्करात्सूक्ष्मं कामक्रोधयोरत्यन्तभेदम्। न हि गुणो गुणस्योपादानम्। किन्तु निमित्तमेव। प्रागन्वये प्रमाणमुक्तम्। इदानीं व्यतिरेकेऽप्याह- उक्तं चेति। ’महाशन ’ इति कामे दुर्घटत्वाद्गौणमित्याह -महाशन इति। भोग्यं विषयः। यस्मात्कामभोग्यं महत्तस्मादसौ ’महाशन’ इत्यर्थः। ’काम एषः’ इति पापकारणत्वेनोक्त्वा कथं ’महापाप्मा ’ इत्युच्यते इत्यतो न कर्मधारयोऽयम्, किन्तु ’महान्पाप्मा यस्मात्’ इति बहुव्रीहिरिति भावेनाह- महाब्रह्मेति। महच्छब्दात्परतः पाप्मशब्दोऽध्याहार्यः। वधादिकर्तृत्वाभावात्कथं वैरी? इत्यत आह सर्वेति। सर्वः सम्पूर्णः। पुरुषार्थो मोक्षः।
गीताभाष्यम्
हरिः ओम् ।
यस्तु बलवान् प्रवर्तकः स एष कामः। क्रोधोऽप्येष एव। तज्जन्यत्वात्। ’कामात्क्रोधोऽभिजायते ’ (2.62) इति ह्युक्तम्। यत्रापि गुरुनिन्दादिनिमित्तः क्रोधः तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव। ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति। उक्तं च ’ऋते कामं न कोपाद्या जायन्ते च कथञ्चन’ इति। महाशनः। महद्धि कामभोग्यम्। महाब्रह्महत्यादिकारणत्वात् महापाप्मा। सर्वपुरुषार्थविरोधित्वात् वैरी।
गीतातात्पर्यम्
हरिः ओम् ।
Notes