अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
‘आत्मैव हि‘ (6.5) इत्युक्तमेव उत्तरश्लोके किमिति कथ्यते? इति मन्दाशङ्कानिरासार्थमाह- कस्येति। ‘किंविशेषणश्च‘ इत्यपि ग्राह्यम्। तस्यैव तमेव प्रति बन्धुत्वं रिपुत्वं च विरुद्धम्। तद्विशेषणभेदेन व्यवस्थाप्यम्। तथा च किंविशेषणस्यात्मनः किंविशेषणो वाऽऽत्मा बन्धू रिपुश्च इत्यर्थ। इति ‘पृच्छायाम्‘ इति शेषः।‘आत्मा‘, ‘आत्मनः‘ इति पदद्वयम् आत्मशब्दस्यानेकार्थत्वाद्व्याचष्टे- आत्मेति। नन्वाद्यश्लोके स्वपर्याय एवात्मशब्दः प्रकृतः। तदुपपादकद्वितीये कथमन्योऽर्थः? इत्यत आह- आत्मनेति। अनयैव रीत्याऽऽद्यश्लोकोत्तरार्धगतात्मशब्दव्याख्यानं द्रष्टव्यम्। ‘येनाsत्मैवात्मना जितः‘ इत्यत्रात्मशब्दौ व्याचष्टे- आत्मैवेति। एवशब्दोपादानं व्याख्येयविवेकार्थम्। ‘जीवेनैव‘` इत्यवधारणं प्राधान्यज्ञापनार्थम्। यदाऽऽत्मशब्दो जीवे तदा कर्तरि तृतीया। यदा बुद्धौ तदा करण इति ज्ञापयन्नुपपादयति- स हीति। विजयति विजयते ‘मनः‘ इति शेषः।
‘स्वेनैव‘ इत्यादिव्याख्याननिरासार्थमुक्तेऽर्थे प्रमाणान्याह- उक्तं चेति। ‘अनात्मन‘ इति नञ्समासो बहुव्रीहिर्वा स्यात्। नाद्यः। आत्मनः आत्मान्यत्वानुपपत्तेः। आत्मान्तरादन्यत्वस्य च प्रकृतेऽनुपयोगात्। न द्वितीयः। आत्मशब्दस्य जीववाचित्वे वा मनोवाचित्वे वा संसारिणि तदभावस्यासम्भवादित्यत आह- अनात्मन इति। बहुव्रीहिपरिग्रहसूचनाय ‘पुरुषस्य‘ इत्यन्यपदार्थो दर्शितः। अनात्मशब्दार्थं दर्शयितुमाह- अजितेति। नन्वविद्यमान आत्मा यस्यासावनात्मा। तत्कथमुच्यते ‘अजितात्मनः‘ इति? तत्राह- सदपीति। विद्यमानमपि मनोऽजितमनुपकारीति अविद्यमानसादृश्यादविद्यमानतामुपचर्य अजितात्मा अनात्मोक्त इत्यर्थः। गौणप्रयोगे किं प्रयोजनं? इति चेत् न। रूढोपचारे प्रयोजनानपेक्षणात् इति भावेनाsह- सन्नपीति। भृत्यपदे सेवादौ। पदानां व्यवहितत्वादनात्मन इत्यर्धं व्याचष्टे- तस्येति। तस्य अजितमनस्कस्य ‘बन्धुरेव‘ इत्येवार्थः। शत्रुवत्प्रसिद्धशत्रुरिव। शत्रुत्वेऽपकारित्वे।
गीताभाष्यम्
हरिः ओम् ।
कस्य बन्धुरात्मा ? इत्याह- बन्धुरात्मेति। आत्मा मनः। आत्मनो जीवस्य। आत्मना मनसा। आत्मानं जीवम्। आत्मैव मनः। आत्मना बुद्ध्या, जीवेनैव वा। स हि बुद्ध्या विजयति। उक्तं च-
‘मनः परं कारणमामनन्ति।‘
‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः।‘ (वि.पु. 6.7.28, मैत्रा.4.3.11, ब्र.बिं.2)
‘उद्धरेन्मनसा जीवं न जीवमवसादयेत्।
जीवस्य बन्धुः शत्रुश्च मन एव न संशयः।‘
‘जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य।
ततो जयेद्बुद्धिबलो नरस्तद्देवे च भक्त्या मधुकैटभारौं।‘
इत्यादि ब्रह्मवैवर्ते। अनात्मनः अजितात्मनः पुरुषस्य, अजितमनस्कस्य। सदपि मनोऽनुपकारीत्यनात्मा। सन्नपि भृत्यो न यस्य भृत्यपदे वर्तते स ह्यभृत्यः। तस्यात्मा= मन एव शत्रुवच्छत्रुत्वे वर्तते।
गीतातात्पर्यम्
हरिः ओम् ।
'उद्धरेतैव संसाराज्जीवात्मानं परात्मना ।
विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः ।
तत्प्रसादजया भक्तया जितो यस्य वशेत्विव ।
वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत्'' ॥ इति च ।
'परमात्मा समाहितः'' इति वाक्यशेषाच्च ॥ ५, ६ ॥
Notes