यस्मात् कर्म अकरणापेक्षया कर्मानुष्ठानमेव प्रशस्तं तस्मात् स्वनियतं वर्णाश्रमोचितं कर्म कुरु । किञ्च कर्म अकरणे कर्म अकुर्वतः ते देहनिर्वाहोपि न प्रसिद्ध्येत् ।।3.8।।
कर्म अकरण की अपेक्षामे कर्मानुष्ठान ही उत्तम है । तत्कारण स्वविहित वर्णाश्रमोचित कर्म करो । केवल यह हि नहि कर्म न करते हुवे देहयात्रा भी कैसे चल सके गा ।।3.8।।
ಕರ್ಮ ಮಾಡದೇ ಇರುವುದಕ್ಕಿಂತ ಕರ್ಮಾನುಷ್ಠಾನವೇ ಪ್ರಶಸ್ತವಾದದ್ದು. ಕಾರಣ ಸ್ವವಿಹಿತವಾದ ವರ್ಣಾಶ್ರಮೋಚಿತಕರ್ಮವನ್ನು ಮಾಡು. ಅಲ್ಲದೆ, ಕರ್ಮ ಮಾಡದಿದ್ದರೆ ದೇಹ ಯಾತ್ರೆಯೂ ನಡೆಯಲಾರದು.
కర్మాచరణము చేయకుండుటకన్న కర్మాచరణమే ఉత్తమమైనది. కావున స్వవర్ణాశ్రమవిహితమైన కర్మను చేయుము. కర్మ చేయకున్నచో శరీర యాత్రయూ నడువజాలదు.
Tamil
It is better to perform action than to be idle. Further, one cannot even continue his living without performing any action.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । उत्तरश्लोकपर्यालोचनया चैवमेवेति भावेन सङ्गतिं सूचयन् व्याचष्टे - अत इति। अतश्शब्दपरामर्श्यं ‘कर्म ज्यायः’ इत्यादिनैवोच्यते।
गीताभाष्यम्
हरिः ओम् । अतो नियतं वर्णाश्रमोचितं कर्म कुरु।।
गीतातात्पर्यम्
हरिः ओम् ।
Notes