अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
योगो विहितः। तत्किं ‘जितात्मनः‘ इत्यनेन? इत्यत आह- जितात्मन इति। ‘उपकारी हि बन्धुरुच्यते। तत्र जितं मनः कमुपकारं करोति, येन बन्धुः स्यात्। आत्मोद्धारं करोतीति चेत्। स एव च कः? इत्याशङ्क्य‘ इति शेषः। जितात्मनः फले वक्तव्ये ‘प्रशान्तस्य‘ इत्यनुवादः किमर्थम्? इत्यत आह- जितात्मा हीति। वाक्यभेदेनेदमेव फलकथनमिति भावः। ननु जितात्मत्वमेव प्रशान्तत्वम्। तत्कथं तत्फलं स्यात्? इत्यत आह- नेति। तस्य जितात्मनः, ‘स्वत एव‘ इति शेषः। तर्हि निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थम्? इत्यतः परमफलं दर्शयितुं तदिति भावेन न्यूनमध्याहारेण पूरयन्व्याचष्टे- तदा चेति। प्रशान्तत्वे सति परमात्मा सर्वेषां हृदि सन्निहित एव। तत्कुतः प्रशान्तस्य विशेषः? इत्यतः सम्यक्पदसूचितार्थं विवृणोति- अपरोक्षेति। योगारूढ इत्यर्थः। ‘यदा हि‘ (6.5) इति योगारूढस्य लक्षणमुक्तम्। तत्किमर्थं पुनरुच्यते? इत्यत आह- अपरोक्षेति। सार्धश्लोकद्वयग्रहणायादिपदम्। अत्र सप्तम्या अन्वयो न दृश्यते। अत आह- शीतेति।
अत्र भास्करोऽन्वयमपश्यन् ‘परमात्मा समाहितः‘ इति सम्प्रदायागतं पाठं विसृज्य ‘परात्मसु‘ समा मतिः इति पाठान्तरं प्रकल्प्य ‘समा मतिः‘ इति तु आवर्त्य सप्तम्या अन्वयमुक्त्वा, पूर्वपाठेऽन्वयाभाव इत्यवादीत्। तदनेन नापहसितं भवति। कृत्रिमेऽपि पाठे ‘सुहृत्‘ इत्यादिकं ‘आत्मौपम्येन‘ (6.32) इत्यादिकं च पुनरुक्तं स्यात्।
ननु यः शीतोष्णादिषु कूटस्थः तस्य ज्ञानविज्ञानतृप्तमनस्त्वं विजितेन्द्रियत्वं चार्थात्सिद्धमेव। तत्किमर्थं पुनरुच्यते? इत्यत आह- ज्ञानेति। प्रत्येकमन्वयादेकवचनम्। ननु शिल्पादिविषया बुद्धिर्विज्ञानम्। ‘मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः‘ (अमरकोश) इत्यभिधानात्। तत्कथं विज्ञानेन तृप्तात्माऽयं स्यात्? इत्यत आह- विज्ञानमिति। अनेन सामान्यज्ञानं परोक्षज्ञानं वा ज्ञानमिति सूचितम्। कुत एतत्? इत्यत आह- तच्चेति। प्रसिद्धाभिधानार्थोऽप्यङ्गीक्रियत इति च शब्दः। सामान्यैः साधारणैः पुरुषैः। सामान्यविषयं तु ज्ञानमित्यपि द्रष्टव्यम्। तदेव ज्ञानमिति सम्बन्धः। अङ्गादेर्व्याकरणादेः शिल्पस्य च। विशिष्टं दर्शनं वैष्णवशास्त्रम्।
कूटस्थशब्दो नित्यादिपर्यायः। तेन कथमन्वयः सप्तम्याः? इत्यत आह- कूटस्थ इति। तत्कथं इत्यत आह- कूटवदिति। ‘सुपि स्थः‘ (अष्टा.3.2.4) । कूटशब्दोऽनृतवाद्यादिवाची। तत्परिग्रहे निर्विकारत्वं न लभ्यते? इत्यत आह- कूटमिति। एतैः शब्दैः आकाश उच्यते इत्यर्थः। ‘युक्तो‘, ‘योगी‘ इति पुनरुक्तिः? इति मन्दाशङ्कानिरासार्थमाह- योगीति। इनेरस्त्यर्थत्वात् ‘कुर्वन्‘ इत्युक्तम्। निष्ठाया भूतार्थत्वात् ‘सम्पूर्ण‘ इति। वक्ष्यमाणान्वयापेक्षया क्रमोल्लङ्घनम्। तर्हि विरुद्धार्थयोः कथं सामानाधिकरण्यम्? इत्यत आह- एवम्भूत इति। ‘धातुसम्बन्धे प्रत्ययाः‘ इति ह्युक्तम्।
गीताभाष्यम्
हरिः ओम् ।
जितात्मनः फलमाह- जितात्मन इति। जितात्मा हि प्रशान्तो भवति। न तस्य मनः प्रायो विषयेषु गच्छति। तदा च परमात्मा सम्यगाहितः हृदि सन्निहितो भवति अपरोक्षज्ञानी भवतीत्यर्थः। अपरोक्षज्ञानिनो लक्षणं स्पष्टयति- शीतोष्णेत्यादिना। शीतोष्णादिषु कूटस्थः। ‘ज्ञानविज्ञानतृप्तात्मा‘, ‘विजितेन्द्रियः‘ इति कूटस्थत्वे हेतुः। विज्ञानं विशेषज्ञानं। अपरोक्षज्ञानं वा। तच्चोक्तं-
‘सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः।
देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्।‘ इति।
‘श्रवणान्मननाच्चैव यज्ज्ञानमुपजायते।
तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत्।
विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा। ‘
इत्यादि। कूटस्थो निर्विकारः। कूटवत्स्थित इति व्युत्पत्तेः। कूटम् = आकाशः।
कूटं खं विदलं व्योम सन्धिराकाश उच्यते।
इत्यभिधानात्। योगी योगं कुर्वन्। युक्तो योगसम्पूर्णः। एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यत इत्यर्थः।
गीतातात्पर्यम्
हरिः ओम् ।
'सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमितीर्यते ।
तद्विशेषपरिज्ञानं विज्ञानमिति गीयते'' ॥ इति च ॥ ७,८ ॥
Notes