अर्जुनः वदति- हे केशव, अहं विपरीतानि निमित्तानि च पश्यामि । आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि ।।१.३१।।
अर्जुन ने ऐसा कहा - हे केशव, मुझे सब अपशकुन दिखायी दे रहे है । युद्धभूमि मे अपनी ही सम्बन्धियों की हत्या करनेमे हमारी उन्नतिको न देखता हू ।।१.३१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೇಶವನೇ, ನನಗೆ ಎಲ್ಲ ಅಪಶಕುನಗಳು ಗೋಚರಿಸುತ್ತಿವೆ, ಯುದ್ಧದಲ್ಲಿ ನಮ್ಮವರನ್ನೇ ಕೊಂದು ಶ್ರೇಯಸ್ಸನ್ನು ಹೊಂದಲಾರೆ.
అర్జునుడిట్లనె - కేశవా, నాకు అన్నియు అపశకునములు గోచరించుచున్నవి. యుద్ధమునందు స్వబాంధవులను సంహరించుటయందు శ్రేయస్సు కాలజాలకున్నాను.
Tamil
Arjuna said - O Keshava, I am seeing bad omens. I do not see any good by killing my own men.
गीताविवृतिः
हरिः ओम् । विपरीतानि निमित्तानि दुर्निमित्तानि च पश्यामि । केशव ब्रह्मरुद्रप्रवर्तक । कश्च ईशश्च केशौ तौ सृष्ट्यादिना वर्तयति इति व्युत्पत्तेः । केशपदोपपदात् वृतु वर्तन इत्यतोन्तर्णीतण्यर्थात् डप्रत्ययात् रूपसिद्धेः । उक्तं हि स्थितप्रज्ञस्य का भाषा इत्येतद्धाष्ये –
हिरण्यगर्भः कः प्रोक्तः ईशः शङ्कर एव च ।
सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ।। इति
युद्धेन श्रेयो लभ्यत इत्यत आह न चेति । श्रेयश्च न पश्यापि । आहवे युद्धे ।।31।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes