कस्यांचिदवस्थायां क्षणमात्रमपि ज्ञानी अज्ञो वा कर्माणि अकुर्वन् न तिष्ठति । सर्वेण जनेन विष्णुवशेन सत्वादिविकारभूतैः कर्म क्रियते ।।3.5।।
किसीभी अवस्थामे एक पल भर भी ज्ञानी व अज्ञ जन कर्म करने के बिना न रहसकते है । सभी जन परमेश्वरके अधीन होकर सत्वादिगुणविकारके निमित्त कर्म करते ही है ।।3.5।।
ಯಾವ ಅವಸ್ಥೆಯಲ್ಲಾದರೂ ಒಂದು ಕ್ಷಣವೂ ಜ್ಞಾನಿ ಅಥವಾ ಅಜ್ಞಾನಿಯೂ ಕರ್ಮ ಮಾಡದೆ ಇರಲಾರರು. ಎಲ್ಲರೂ ವಿಷ್ಣುವಿನ ಅಧೀನರಾಗಿ ಸತ್ವಾತಿಗುಣಗಳಿಂದ ಪ್ರೇರಿತರಾಗಿ ಕರ್ಮ ಮಾಡುವರು.
ఎటువంటి అవస్థయందునూ జ్ఞానులైన అజ్ఞానులైన ఒక్క క్షణమూ కర్మ చేయక ఉండజాలరు. అందరూ విష్ణువుయొక్క అధీనులై సత్వాదిగుణములచే ప్రేరితులై కర్మ చేయుదురు.
Tamil
Both the Jnani as well as the Ajnani cannot stay without performing actions for even a second in any condition. Being dependent on Lord Vishnu, everyone does actions driven by the three gunas Satva, Rajas and Tamas.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । ज्ञानरहितात् कर्मत्यागरूपाद् यत्याश्रमात् सिद्धिं न समधिगच्छति इति किल पूर्वमुक्तम्। तत्र हेत्वाकाङ्क्षायां ’न हि कश्चित्’ इत्युच्यते इति व्याख्यानमसदिति भावेन श्लोकतात्पर्यमाह -न त्विति।। न ह्यत्र ज्ञानस्यावश्यकत्वे किञ्चिदुच्यते। नापि यज्ञादिकर्माकरणस्यासम्भवोऽभिधीयते। येन प्रकृतसङ्गतिः स्यात्। किन्तु शरीरयात्राद्यर्थानां कर्मणामपरिहार्यत्वम्। अतो नेदं व्याख्यानम्। अपि तर्हि ’कर्मणा बध्यते जन्तुः’ (सं.उ.2.21) इति स्मृतिमाश्रित्य यस्तृतीयः पक्षः, तमाशङ्क्य ’यज्ञार्थात् ’ इति स्मृतेरर्थसङ्कोचं वक्ष्यति। तत्र कुतः स्मृतेरर्थसङ्कोचः? इत्याकाङ्क्षा स्यात्। तामपाकर्तुमुपोद्धातन्यायेन कर्मशब्दस्तावदसङ्कुचितार्थः परेणाप्यङ्गीकर्तुमशक्य इति प्रतिपादयितुं ’कर्माणि सर्वात्मना त्यक्तुं नैव शक्यानि’ इत्यनेनाहेति भावः।।5।।
गीताभाष्यम्
हरिः ओम् । न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह -न हीति। ।5।।
गीतातात्पर्यम्
हरिः ओम् ।
'कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता ।
विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता'' ॥ इति पैङ्गिश्रुतेः ।
'कार्यते ह्यवश'' इत्यत्रावशो विष्णुवशः । 'अः इति ब्रह्म'' इत्यादिश्रुतेः ॥५ ॥
Notes