विष्णुपूजात्वेन कृतं कर्म त्यक्त्वा अन्यत् कर्म कुर्वन् जनः कर्मबन्धं प्राप्नोति तस्मात् हे अर्जुन भगवत्पूजार्थं फलकामनादिकं त्यक्त्वा कर्म कुरु ।।3.9।।
विष्णुपूजात्मक कर्म को त्याग कर अन्य कर्म करनेवाले मनुष्य कर्मबन्धन को पाता है । हे अर्जुन इसीलिये तुम् भगवत्पूजारूप कर्म फलकामनाको त्याग् कर करो ।।3.9।।
ವಿಷ್ಣುಪೂಜಾರೂಪವಾದ ಕರ್ಮಗಳನ್ನು ಬಿಟ್ಟು ಇತರ ಕರ್ಮಗಳನ್ನು ಮಾಡುವುದರಿಂದ ಮನುಷ್ಯನು ಕರ್ಮಬಂಧಕ್ಕೆ ಒಳಗಾಗುವನು. ಆದ್ದರಿಂದ ಹೇ ಅರ್ಜುನ ನೀನು ಫಲಕಾಮನೆಯನ್ನು ತೊರೆದು ಭಗವತ್ಪೂಜಾತ್ಮಕವಾಗ ಕರ್ಮವನ್ನು ಮಾಡು.
విష్ణుపూజాత్మకములైన కర్మలను వదలి ఇతర కర్మలను చేయుటవలన మనుష్యుడు కర్మబంధమును పొందును. కావున ఓ అర్జున, నీవు ఫలకామమును వదలి విష్ణుపూజార్థమైన కర్మమను ఆచరించుము
Tamil
A person would be bound by those actions that are not performed as a service unto the Lord. Hence, O Arjuna, setting aside the desire for the fruits thereof, you perform actions as a service unto the Lord.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
9।।इदानीं तृतीयं पक्षमाशङ्क्य तत्परिहाराय श्लोकमवतारयति - कर्मणेति। बन्धकं मोक्षस्य प्रतिबन्धकम्। ‘अतो न करोमि’ इति शेषः। तत्पुरुषत्वभ्रान्तिनिरासायाह- कर्मेति। तत्पुरुषत्वेऽसङ्गतिः स्यादिति भावः।
यज्ञशब्दस्य यागार्थत्वप्रतीतिमपाकर्तुमाह- यज्ञ इति। अवैष्णवयागस्यापि बन्धकत्वादिति भावः। तदर्थम् इत्युत्तरवाक्यस्यासङ्गतिपरिहारायार्थात् सिद्धं पूर्ववाक्यार्थमाह- यज्ञार्थमिति।। ’सङ्गरहितम् ’ इत्यनुक्तं कस्मादुक्तं? इत्यत आह- मुक्तेति। इष्टियाजुकः फलेच्छया यष्टा।।
ननु ’कर्मणा बध्यते जन्तुः’ इत्यपि विशेषवचनम्। अविद्यादीनामनेकेषां बन्धकत्वेन ’अविद्यादिभिः ’ इति सामान्यस्यानुपात्तत्वात्। गीतावाक्यं ’कर्म न बन्धकम्’ इतीदमपि विशेषवचनम्। तत्कथं तत्परिहारायावतार्यं व्याख्यातम्? इत्यत आह- विशेषेति।।
यद्यप्युक्तविधया द्वयोर्विशेषवचनत्वं समं। तथापि गीतावाक्ये ’यज्ञार्थात् ’ इत्यादिविशेषणमुच्यते। अतस्तदपेक्षया तत्सामान्यवचनमेव। अतो युक्तमेतद्व्याख्यानमिति भावः।
अयमत्र प्रत्युत्तरक्रमः। ’कर्मणा बध्यते’ इति वाक्यमाश्रित्य न युद्धादिकर्मत्यागः कार्यः। तस्यावैष्णवकाम्यकर्मविषयत्वात्। कुतः सङ्कोचः? इति चेत्। परेणापि परिस्पन्दमात्रस्य त्यक्तुमशक्यत्वेनासङ्कुचितार्थतायाः स्वीकर्तुमशक्यत्वात्। तर्ह्यत एव बाधकाच्छरीरयात्रार्थकर्मव्यतिरिक्तविषयत्वं कल्प्यत इति चेत् न। वैय्यर्थ्यात्। एवमपि मनोव्यापारस्याल्पकत्वेन प्रतिबन्धकाभावो न सिध्यति। तस्यैवान्वयव्यतिरेकाभ्यां प्रयोजकत्वावधारणात्। बाधकात्सङ्कोचमङ्गीकुर्वतां चायमपि सङ्कोचोऽङ्गीकार्यः। विधानसामर्थ्यात् युद्धादीनामपि तत्तद्वर्णाश्रमोचितत्वात्।
न च विधानस्यामुमुक्षुविषयत्वम्। कल्पकाभावात्। न चेदमेव वाक्यं कल्पकम्। तस्य अवैष्णवादिकर्मत्यागेन चरितार्थत्वात्। धर्मिपरित्यागाद्धर्ममात्रपरित्यागस्य ज्यायस्त्वात्। अतो न कर्मस्वरूपं त्याज्यमिति।
गीताभाष्यम्
हरिः ओम् ।
’कर्मणा बध्यते जन्तुः’ (म.भा.12.241.7)
इति कर्म बन्धकं स्मृतमित्यत आह- यज्ञार्थादिति।। कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः।। यज्ञो विष्णुः। यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः।‘मुक्तसङ्ग’ इति सङ्ग विशेषणात्।। ’कामान् यः कामयते’ (मुं.उ.3.2.2 ) इति श्रुतेश्च।।
’अनिष्टमिष्टम् ’ (18.12) इति वक्ष्यमाणत्वाच्च।
’एतान्यपि तु कर्माणि’ (18.6) इति च ।
’तस्मान्नेष्टियाजुकः स्यात्’ (बृ.उ.1.5.2) इति च ।
विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते।।
गीतातात्पर्यम्
हरिः ओम् ।
कर्मणा बध्यते जन्तुरित्यादिकमप्यवैष्णवकर्मविषयमित्याह - यज्ञार्थादिति ।
'ज्ञो नाम भगवान्विष्णुस्तं यात्युद्देश एष यः ।
स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः'' ॥ इति बर्कश्रुतिः ॥९ ॥
Notes