अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
‘भूमिः‘ (7.4) इत्यादिनेत्यत्रावधेरनुक्तेः ‘रसोऽहं‘ इत्याद्यपि ज्ञानप्रकरणमिति प्रतीतिः स्यात्। तन्निरासाय तत्समाप्तिमाह- इदमिति। एतावता ग्रन्थेन ज्ञानं निरूपितमित्यर्थः। कुतोऽत्र ज्ञानप्रकरणस्य समाप्तिः? इत्यत आह- रसोऽहमिति। इतिशब्दाद्यभावेऽपि प्रकरणान्तरारम्भ एव समाप्तिं गमयिष्यति। अलौकिकमाहात्म्यप्रतिपादनादस्य विज्ञानप्रकरणत्वं ज्ञायत इति भावः। प्रभवादेः इत्युक्तन्यायेनैव ‘रसोऽहं‘ इत्यादेरपि व्याख्यानं सिद्धम्। ‘रसादीनां सत्तादिकारणत्वाद्भोक्तृत्वाच्च भगवान् रसादिः‘ इति।
नन्वबादयोsपि धर्मिणो भगवदधीनास्तद्भोग्याश्चेत्यङ्गीक्रियते न वा। नेति पक्षे ‘अहं कृत्स्नस्य‘ (7.6) इत्युक्तविरोधः। आद्ये तु ‘अप्सु रसः‘ इत्यादेर्धर्मिभ्यो निष्कृष्य धर्माणां ग्रहणस्यानुपपत्तिरित्यतः प्रथमं पक्षं तावदङ्गीकरोति- अबादयोऽपीति। धर्मिणोऽपि तदधीना एव तद्भोग्याश्चैव।
ननु तत्रोक्तो दोष इत्यतः कारणत्वे तावद्विशेषशब्दोपादाने प्रयोजनमाह- तथापीति। यद्यपि धर्मिणोऽपि भगवदधीना एव। तथापि धर्मिभ्यो निष्कृष्य धर्माणामुपादानं युज्यत इति शेषः। कथं? इत्यत आह- रसादीति। रसादयश्च ते स्वभावा अबादीनामनागन्तुकधर्माश्चेति रसादिस्वभावाः। तेषां साराणामबादिधर्मेषु सङ्ख्यादिषु श्रेष्ठानां च तेषामेवाबादिस्वभावभूतानां तद्धर्मेषु श्रेष्ठानां च रसादीनामिति यावत्। स्वभावत्वे ‘अबादीनाम्‘ इति शेषः। सारत्वे ‘अबादिधर्मेषु‘ इति शेषः। रसादित्वे चेति चार्थः। स भगवानेव। विशेषतोऽपीत्यस्य व्यावर्त्यं न त्विति। अनुबद्धोऽनुषङ्गसिद्धः। तत्सारत्वादिश्चेति। तस्य रसादेरबादिधर्मेषु सारत्वमबादिस्वभावत्वं रसत्वादिकं चेत्यर्थः। यथा लोके कुविन्दादिः पटादिद्रव्येष्वेव व्यापारवाननुभूयते न तु तदीयेषु गन्धरसादिषु गुणेषु तद्धर्मेषु च गन्धत्वादिषु पृथग्व्यापारवान्। किन्तु ते पटादिजन्मानुषङ्गिजन्मान एव। न तथा भगवान्। अपि त्वबादे धर्मेषु रसादिषु तद्धर्मेषु च स्वभावत्वादिषु पृथक् प्रयत्नवान्। न त्वबादिनियमानुषङ्गिसत्तादिकास्त इति दर्शयितुं विशेषशब्दा उपात्ता इत्यर्थः।
भोगपक्षेऽपि प्रयोजनमाह- भोगश्चेति। अबादिभोगादप्यतिशयेन रसादेर्भोगः परमेश्वरस्येति दर्शयति। ‘विशेषशब्दैः‘ इति सम्बन्धः। रसोऽहं इत्याद्यभेदोक्तेरर्थान्तरं सूचयन् तत्र अपि विशेषशब्दोपादाने प्रयोजनमाह- उपासनार्थं चेति। विशेषतः ‘रसादेः‘ इति वर्तते। अर्थवशाद्रसादेरिति सप्तमीत्वेन विपरिणम्यते। रसादयः परमेश्वरोपासने प्रतिमात्वेनात्र विवक्षिताः। प्रतिमायां चाभेदोक्तिः प्रसिद्धा। प्रतिमात्वमबादीनां समानम्। योऽप्सु तिष्ठन् (बृ.उ.7.3.4) इत्यादेः। अतः किं विशेषशब्दग्रहणेन? इति चेत्। अबादिभ्यो विशेषतः रसादिषु भगवदुपासनार्थं तदुपपत्तिरिति।
उक्तेऽर्थत्रये प्रमाणमाह- उक्तं चेति। तथा च शब्दः अन्योन्यसमुच्चये। एवशब्दस्य ईश्वर इत्यनेन सम्बन्धः। सर्वत्र अबादिषु। ईश्वरो रसादिकं जगत् इत्युच्यत इत्यर्थः। अबादयः अबाद्यभिमानिनः। ज्ञानिनां ज्ञानार्थिनां सम्पत्त्यै प्राप्त्यै अन्येषां रसार्थिनाम्। अबादय इति रसादीति च पादयोः सप्तनवाक्षरत्वेऽपि न वा एकेनाक्षरेण छन्दांसि वियन्ति (ऐ.ब्रा.1.6) इति वचनाददोषः।
स्वभावस्य भगवदधीनत्वमलौकिकमित्यतस्तत्रान्यान्यपि वाक्यानि पठति- स्वभाव इति। अस्त्वेवं धर्मिभ्यो निष्कृष्य धर्माणामुपादानम् धर्माणां विशेषणोपादानं तु किमर्थम्? इत्यत- आह धर्मेति। आदिपदेन पुण्यो गन्धः इत्यस्य ग्रहणम्। कामादिषु विशिष्टेष्वेव भगवानुपास्यः न धर्मविरुद्धेष्वशुचिष्विति ज्ञापनाय कामादीनां धर्माणां धर्माविरुद्धत्वादिविशेषणोपादानमित्यर्थः।
अत्र प्रमाणमाह- उक्तं चेति। कामं पुरुषार्थम्। कामरागादेः कामरागादिना। अनिञ्छद्भिः कामादिकम्।
गीताभाष्यम्
हरिः ओम् ।
इदं ज्ञानम्। रसोऽहमित्यादिविज्ञानम्। अबादयोऽपि तत एव।
तथाsपि रसादिस्वभावानां सागणां च स्वभावत्वे सारत्वे च विशेषतोऽपि स एव नियमाकः। न त्वबादिनियमानुबद्धो रसादिः तत्सारत्वादिश्चेति दर्शयति ‘अप्सु रसः‘ इत्यादिविशेषशब्दैः।
भोगश्च विशेषतो रसादेरिति च उपासनार्थं च।
उक्तं च गीताकल्पे-
‘रसादीनां रसादित्वे स्वभावत्वे तथैव च।
सारत्वे सर्वधर्मेषु विशेषेणापि कारणम्।
सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः।
रसादिमानिनां देहे स सर्वत्र व्यवस्थितः।
अबादयः पार्षदाश्च ध्येयः स ज्ञानिनां हरिः।
रसादिसम्पत्त्या अन्येषां वासुदेवो जगत्पतिः‘ इति।
‘स्वभावो जीव एव च।‘ (भाग. 2.1.12)
‘सर्वस्वभावो नियतस्तेनैव किमुतापरम्।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्‘ (10.39) इति च।
‘धर्माविरुद्धः‘, ‘कामरागबिवर्जितम्‘ इत्याद्युपासनार्थम्।
उक्तं च गीताकल्पे-
‘धर्मारुविद्धकामेऽसावुपास्यः काममिच्छता।
विहीने कामरागादेर्बले च बलमिच्छता।
ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः ।‘ इत्यादि
गीतातात्पर्यम्
हरिः ओम् ।
सोप्सु स्थित्वा रसयति रसनामा ततः स्मृऽतः ।
सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।
वेदस्थः प्रणवाख्योसावात्मानं यत् प्रणौत्यतः ।
खे स्थितः शब्दनामासौ यच्छब्दयति केशवः ॥८ ॥
Notes