अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
अपव्याख्यानस्य दूषणान्तरं सूचयन् क्रियावैलक्षण्यकथनस्य का सङ्गतिः? इत्यत उत्तरेण सङ्गतिमाह- अत एवेति। एवशब्देनास्मद्व्याख्यान एवायं हेतुहेतुमद्भावो युज्यते, न परव्याख्यान इति सूचयति।
जीवानां कर्मलेपेऽभिनिवेशादिकं कारणं, तस्य नास्तीति। मिथ्यात्वं तु जीवक्रियायामपि समानमिति तेषामपि लेपाभावे किमाश्रय आक्षेपः स्यात्? ज्ञानेन विशेष इति चेत् न। तस्याश्रवणात्। लेपनिवारणं च व्यर्थम्| तस्यापि मिथ्यात्वेन ज्ञातव्यत्वात्। हेतुहेतुमतोरुक्तत्वात् न मे कर्म इति किमर्थं? इत्यत आह- इतश्चेति। नन्वात्मार्थं भगवतः फलस्पृहाभावेऽपि परार्थमस्त्येव। तत्कथमेवमुच्यते इत्यत आह- इच्छेति। तत्र कर्मफले। येन तत्प्राप्तिपर्यन्तं मनसो विक्षेपः सोऽभिनिवेशः।
अत्र प्रमाणमाह- तच्चेति।‘व्यत्ययो बहुलम्’ (अष्टा.3.1.85) इति व्यत्ययः। ज्ञानं ज्ञानमिव। ‘इति माम्‘ इत्येवं ज्ञानिनो मुक्तिः फलमुच्यते। सा च वर्तमानप्रत्ययेन। प्राक् च भूतप्रत्ययेन मद्भावमागताः (4.10) इति।
तत्रैकजीववादिनामाक्षेपमुद्भाव्य प्रतिषेधति- न चेति। केचिदिदानीं मुक्ता भवन्ति केचिद्भूता इति पक्षेऽतीत एव काले क्रमेण सर्वमुक्तिः स्यात्। तथा चेदानीं संसारानुपलम्भः स्यादिति शङ्कनीयम्। कस्मात्? यतः श्रुतिरेवमाशङ्क्य पर्यहार्षीदित्याह- तथा हीति। हृदा बुद्ध्या च। इत्येतत्कथं वा युज्यते? उक्ताक्षेपादित्याशङ्कायाम् ‘अनन्ताः जीवाः’ इत्युत्तरम्।
ननु कालोऽप्यनन्तोऽत इत्यस्योत्तरमाह- अनन्तवदिति। यथा भगवान् कालक्षणेभ्योऽप्यतिशयेनानन्तस्तथाऽनन्ताः। कुत? इति होवाच इति श्रुत्यन्तरमिति।
गीताभाष्यम्
हरिः ओम् ।
अत एव न मां कर्माणि लिम्पन्ति। इतश्च न लिम्पन्तीत्याह- न मे कर्मफले स्पृहेति। इच्छामात्रं त्वस्ति। न तु तत्राभिनिवेशः।
तच्चोक्तम्-
‘आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्परः।
न ह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु। इति।
न च केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः। तथा हि श्रुतिः-
‘ज्ञात्वा तमेवं मनसा हृदि च भूयो न मृत्युमुपयाति विद्वान्’ इति।
‘कथं वा इत्यनन्ता वेत्यनन्तवदिति होवाच’ इति।
गीतातात्पर्यम्
हरिः ओम् ।
जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ॥ १४ ॥
Notes