अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
अपरशब्दस्यानेकार्थत्वात् विवक्षितमर्थमाह- अपरेति। अनुत्तमत्वस्य सापेक्षत्वात् किमपेक्षया? इत्यत आह- वक्ष्यमाणामिति। सन्निधानादिति भावः। ‘जीवलक्षणां जीवत्वं प्राप्ताम्‘ इति व्याख्याननिरासार्थमाह- जीवभूतेति। कथं सा जीवभूता? इत्यत आह- जीवानामिति। प्राणधारिणीत्येवोक्ते स्वप्राणधारिणीतिप्रतीतिः स्यात्। तन्निरासार्थमुक्तं जीवानामिति। सर्वजीवदेहेषु स्थित्वा तदीयान्प्राणांस्तत्र धारयतीत्यर्थः। स्वप्राणधारिणी कुतो न स्यात्? इत्यत आह- चिद्रूपेति। ज्ञानात्मकविग्रहवती।
यद्वा ‘जीव प्राणधारणे‘ इत्यतो जीवशब्दस्य यौगिकार्थमुक्त्वा गौणीं वृत्तिमाश्रित्यार्थान्तरमनेनोक्तम्। भूतशब्दस्य सर्वदासत्त्ववाचित्वे प्रयोगं दर्शयति- एतदिति। प्रकृतिमपेक्ष्य श्रियः परत्वोपपादनार्थम् एतत्।
‘भूमिः‘ इत्यादेरभिमतमर्थं पुराणवाक्येन स्थापयति- जगाद चेति। देवस्यैव। सृज्यत इति सृष्टिः= कार्यं। कार्यरूपेणेत्यर्थः। अनेन भूम्यादिशब्दैः पञ्चतन्मात्राण्येवोच्यन्ते। न स्थूलानि भूतानि। मन इति तत्कारणमहङ्कारः। बुद्धिरिति महत्तत्त्वम्। अहङ्कार इत्यविद्यासंयुक्तमव्यक्तं। ‘भिन्ना प्रकृतिरष्टधा‘ इति वचनादिति व्याख्यानं निरस्तम्।
‘कार्यरूपेणाष्टधा भिन्ना‘ इति व्याख्यानसम्भवेन प्रसिद्धार्थपरित्यागायोगात् महत्यहङ्कारस्यान्तर्भाव ‘इत्येव‘ इति सम्बन्धः। ‘जडा‘ इत्यवरत्वोपपादनम्। श्रीः परा इत्यस्योपपादनम् ‘इयं धार्यते तया‘ इत्यादि। अनन्ता देशतः गुणतश्च। परा मुख्या। अनादिनिधना न त्वव्यक्तवद्विक्रियावती।
गीताभाष्यम्
हरिः ओम् ।
अपराऽनुत्तमा। वक्ष्यमाणामपेक्ष्य। जीवभूता श्रीः। जीवानां प्राणधारिणी। चिद्रूपभूता सर्वदा सती। एतन्महद्भूतम् (बृ.उ.2.4.12) इति श्रुतेः।
जगाद च-
‘प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा।
अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाष्टधा पुनः।
महान्बुद्धिर्मनश्चैव पञ्चभूतानि चेति ह।
अवरा सा जडा श्रीश्च परेयं धार्यते तथा।
चिद्रूपा सा त्वनन्ता च अनादिनिधना परा।
यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः।
नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि।
ताभ्यामिदं जगत्सर्वं हरिः सुज्ञति भूतराड्।‘ इति नारदीये।
गीतातात्पर्यम्
हरिः ओम् ।
Notes