श्रीकृष्णः अर्जुनं वदति । त्वं यान् अन्वशोचः ते अशोच्याः , त्वं यान् भाषसे ते प्रज्ञावादाः । पण्डिताः गतासून् अगतासून् इव नानुशोचन्ति । - इति ।।
श्रीकृष्ण कहते है - तुम् जिन के लिय दुःखित हो वे दुःखके योग्य नही है । त्वं जो बोल रहे हो वह भी जो कुच् मने मे आये वो बोल रहे हो वह शास्त्रसम्मत नही है । विद्वान् लोग जीते हुवे लोग के लिये जिस् तरह दुःखित न होंगो वैसेही गतासुवो (आसन्नमरणवाले पुरुषोँ) के लिये भी दुःखित नही होँगे ।।
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ನೀನು ಯಾರನ್ನು ಕುರಿತು ದುಃಖಿಸುತ್ತಿದ್ದಿಯೋ ಅವರು ದುಃಖಕ್ಕೆ ಅರ್ಹರಲ್ಲ. ನೀನ್ನ ಮಾತುಗಳು ಶಾಸ್ತ್ರಸಮ್ಮತ ವಲ್ಲ. ನಿನ್ನ ಬುದ್ಧಿಗೆ ತೋಚಿದಂತೆ ನೀ ಮಾತಾಡುತ್ತಿರುವಿ. ಪಂಡಿತರು ಜೀವಂತವಾಗಿರುವವರನ್ನು ಕುರಿತಿ ಹೇಗೆ ವಿಲಪಿಸುವುದಿಲ್ಲವೋ ಹಾಗೆ ಸತ್ತವರನ್ನು ಕುರಿತು (ಆಸನ್ನ ಮರಣರನ್ನು ಕುರಿತು) ದುಃಖಿಸುವುದಿಲ್ಲ.
శ్రీకృష్ణుడిట్లనె - నీవు ఎవరికోసమైతే విలపించుచున్నావో వారు దుఃఖించుటకు తగినవారు కాదు. నీ మాటలు శాస్త్రసమ్మతములు కావు. కేవలం నీ బుద్ధికి తోచినట్లు మాట్లాడుచున్నావు. పండితులు జీవించియన్నవారి కొరకు ఎటుల విలపించరో అటులనే మరణించిన వారి కొరకు (మరణించబోవువారికొరకు) విలపించరు కదా.
Tamil
Sri Krishna said- For whom you are lamenting are not actually fit to be lamented. Your words are also not in accordance with scriptures. Your arguments are baseless. Just as the learned do not lament for the sake of those who are living they do not lament for the sake of the dead (those who are nearing death).
गीताविवृतिः
हरिः ओम् । अशोच्यान् शोकानर्हान् हे पार्थ क्वं अन्वशोचः । यान् त्वं शोचितवानभूस्ते न शोकार्हा इति यावत् । प्रज्ञावादांश्च भाषसे । प्रज्ञयोत्था वादा प्रज्ञावादा स्वबुद्धिमात्रपरिकल्पिताः वादाः, तान् भाषसे । यान् प्रभाषसे ते स्वबुद्धिपरिकल्पिता वादाः, न वृद्धसम्मता इति यावत् । यद्वा प्रकर्षेण जानन्तीति प्रज्ञाः । इगुपधाज्ञाप्रीकिरः कः । तेषामवादाः प्रज्ञावादाः प्राज्ञविरुद्धवादाः तान् प्रभाषस इत्यर्थः । न हि दृष्ट्वेमं स्वजनं कृष्ण इत्यादि अर्जुनवाक्येषु कश्चित् प्राज्ञसम्मतवादोस्ति । न हि प्राज्ञा नारयणद्विट्तदनुबन्धिनिग्रहं अधर्मं वदन्तीति भावः । ननु आसन्नविनाशास्ते कथमशोच्या इत्यत आह गतासूनिति । पण्डिता ज्ञानिनः । गतासून् आसन्नविनाशान् । अगतासून् इव इत्युपमार्थश्चकारः । जीवत इव तान् नानुशोचन्ति यतोतो न शोच्यास्त इति तानन्वशोचस्त्वं इति भावः। ननु कुतो न शोचन्ति कुतश्च मदीया वादाः प्राज्ञमतविरुद्धा इति दृष्ट्वेमं स्वजनं कृष्ण इत्यादिना उपपत्तेरुक्तत्वादिति चेत् तत्किं तेषां जीवनाशात्तव शोक उत देहनाशात् । अथ देहान्यात्मनोभावात्तद्देहनाश एव तन्नाश इति । नाद्यः जीवानां अनादिनित्यत्वादिति – न त्वेवेति ।।11।।
प्रमेयदीपिका
हरिः ओम् । प्रज्ञावादानित्येतत् प्रज्ञावतां बुद्धिमतां वादान् वचनानीति कश्चिद्व्याख्यातावान् । तदसत् । न हि 'दृष्ट्वेमं स्वजनं' इत्याद्यर्जुनवाक्येषु कश्चित् बुद्धिवद्वादो विद्यते । न हि बुद्धिमन्तो नारायणद्विट्तदनुबन्धिनिग्रहमधर्मं वदन्ति । न च धर्माधर्मविषयत्वमात्रेण बुद्धिमद्वादो भवति । बौद्धोपदेशादेरपि तत्वप्रसङ्गादित्याशयेन व्याचष्टे । प्रज्ञावादानिति ।। स्वस्या मनीषया एव उत्थितानि । न तु शास्त्राचार्योपदेशप्राप्तानि । कथमेतल्लभ्यते । उच्यते । प्रज्ञायाः वादाः प्रज्ञावादाः । कार्यकारणाभावे षष्ठी । न हि स वादोऽस्ति यः प्रज्ञापूर्वो न भवतीति, सामर्थ्यात् स्वेति लभ्यते । सावधारणं चैतत्। अब्भक्ष इति यथा । अन्यथा पुनर्वैय्यर्थ्यादिति । कथमशोच्या इत्यत आहेति भावः । गतासूनित्यत परिमितशब्दः । आसन्नविनाशाः कथमशोच्याः इत्यर्थः । ननु प्रागशोच्यत्वानुवादेनान्वशोच इत्येवोक्तम् । न त्वशोच्यम् । तत्कथमेवापेक्षः । मैवम् । न हि यथाश्रुतैवात्र वाक्यवृत्तिः । असिद्धस्यानुवादः सिद्धस्य बोधनमित्यापत्तेः ।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह - ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाsपि कर्मविध्यर्था इत्येकार्थता । तथाsपि प्रकरणभेदार्थं एवमुक्तम् । ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञात एव ।। बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह - कर्मण इति ।। आदिपदेन कृपणाः फलहेतवः (2-49) इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्पुपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् , यत्याश्रमविहितान् शमदमादीन् । अत्र कर्मणि किमिति नियोजयसि इत्येकः प्रश्नः । घोरे इति द्वितीयः इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् सर्व एते पुण्यलोका भवन्ति (छा. 2.2.16) इत्यादि । तथाsत्रापि हतो वा प्राप्स्यसि स्वर्गम् (2-27) इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्येत् (बृ. 6.4.24) इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्णणोsत्युत्तमम् इत्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे युध्यस्व भारत (2-18) इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इति नियोक्तव्यम् । ननु यद्धमपि कर्मबन्धं प्रहास्यसि (2-39) इत्युक्तत्वाद् ज्ञानार्थं भवतीति मतम्, तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यान्यकाम्यानि च । तत्र यः सकामः तं प्रति हतो वा (2-37) इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य कर्मण्येवाधिकारः (2-47) इत्युक्तम् । तत्र का व्यामिश्रता इति । तथाsपि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोsवर्जनीयाः । ततोsपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं सुखदुःखे समे कृत्वा (2-38) इत्युक्तम् । सत्यम् । तथाsपि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वाद् अन्वयं दर्शयन् किञ्चिद् व्याचष्टे - कर्मण इति ।। षष्ठीभ्रान्तिनिरासाय सकाशाद् इत्युक्तम् । बुद्धिः आत्मज्ञानम् । ज्यायसी प्रशस्ततरा ।
गीताभाष्यम्
हरिः ओम् । प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः । गतासून् ।।२.११।।
गीतातात्पर्यम्
हरिः ओम् ।
प्रकर्षेण जानन्तीति प्रज्ञाः, तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथम् ? गतासून् ॥ ११ ॥
Notes