अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
रामकृष्णादिरूपां भगवत्तनुमिति प्रतीतिनिरासायाsह- यां यामिति। कुत एतत्? ‘अन्तवत्तु फलं तेषां‘ (7.23) इति तद्भक्तानामन्तवत्फलवचनात्। तस्य च ब्रह्मादिग्रहणे सम्भवाद्भगवद्ग्रहणे चाम्सम्भवादिति भावेनाह- उक्त चेति। ‘फलस्य‘ इति शेषः। गम्यत इति गतिः। इत्यादेः प्रश्नस्य परिहाररूपवाक्यसन्दर्भाच्च। बहुत्वादनुदाहरणमिति भावः। अनन्तफलत्वं मूलरूपभक्तानामस्तु। अवतारतनुभक्तानामन्तवत्फलाङ्गीकारे को विरोधः? इत्यत आह- अवतार इति। कुत्र च अवतारे।
गीताभाष्यम्
हरिः ओम् ।
यां यां ब्रह्मादिरूपां तनुम्। उक्तं च नारदीये-
‘अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता‘ इति।
‘मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः‘ (म.भा. शां. प 342.3) इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु।
‘अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते‘ इत्यादेश्च ब्रह्मवैवर्ते।
गीतातात्पर्यम्
हरिः ओम् ।
... ... यत् सर्वे मिश्रयाजिनः ॥ 'विष्णुं तत् परमज्ञात्वा रमाब्रह्महरादिकान् ।
यजन्नपि तमो घोरं नित्युदुःखं प्रयाति हि ।
अज्ञानां तु कुले जातो यावद् विष्णोः समर्चनम् ।
विष्णुतत्त्वं च जानीयात् तावत् सेवा पृथक् कृता ।
विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु ।
परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् ।
अजानता कृतं त्यक्तं न दोषाय भविष्यति ।
जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु ।
क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु ।
यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन'' ॥ इत्यादि च ।
'मत्त एवेति तान् विदि्ध'' इत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । ''मयि सर्वमिदं प्रोतम्" इति भेदेनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवात्मशब्दो ज्ञानिनि । 'यच्चाप्नोति यदादत्ते'' इत्यादेः । 'आस्थितः स हि'' 'मां प्रपद्यते'' इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यते । वासुदेवः सर्वमिति पूर्णमिति जानन् । 'प्रपद्यन्तेन्यदेवताः'' इत्यादिवाक्यशेषे भेददर्शनाच्च । 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि'' इति च ॥ २०-२२ ॥
'ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः ।
याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ।
तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् ।
न निश्चिन्वन्ति जायन्ते संसारे ते पुनः पुनः'' ॥ इति च ॥२३ ॥
Notes