अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
प्रकृतिं स्वामवष्टभ्य [9।8],इति वचनात्। तद्विकलस्य भगवतो न सामर्थ्यमिति प्रतीतिनिरासार्थमाह -- प्रकृतीति। तथा लीलयैव? न तु केवलस्य सामर्थ्याभावादिति शेषः। कुत एतत् भगवतः सर्वसामर्थ्यसम्पूर्णस्य प्रमितत्वादित्याह -- सर्वेति। सर्ववस्तुसामर्थ्यैः। एवंभूतवत् पारतन्त्र्याद्युपेतं किन्तु दैवं देवोत्तमम्। पञ्चमहाभूतानि महदहङ्कारौ च सप्त सूक्ष्माणि।सर्वज्ञता तृप्तिः इत्युक्तप्रकारेण षडङ्गम्। प्रधानस्य मूलप्रकृतेर्विनियोगः कार्येषु यो व्यापारस्तत्स्थस्तज्ज्ञानी। मायामधिरुह्य प्रकृतिमवष्टभ्य। कं कः प्रवोचं प्रावोचत्। प्रकृतेर्वशाद्विसृजामीत्याविद्यकमेवेश्वरस्य कर्तृत्वं वस्तुतस्तु निष्क्रियत्वमित्युच्यत इत्यन्यथाप्रतीतिनिरासायान्यथाऽन्वयमाह -- प्रकृतेरिति। कुत एतदित्यतः पूर्वोक्तार्थसहितेत्यत्र प्रमाणमाह -- त्वमेवेति। एतत्सर्जने एतस्य लोकस्य सृष्ट्याम्। अन्यस्मिन्नपि पालनादौ सर्वकर्मणि। तस्मान्मायावशत्वादेवावशम्? एतदेतं स्रक्ष्यसि सृजसि।
गीताभाष्यम्
हरिः ओम् ।
प्रकृत्यवष्टम्भस्तु यथा कश्चित्समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्य गच्छति।सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि [म.भा.12।339।46] इतिसर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुर्महसि इति च मोक्षधर्मे।विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति इति च।न
कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य। तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु इति ऋग्वेदखिलेषु।मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे इति भागवते [6।4।28] अथ कस्मादुच्यते परं ब्रह्मेति [बृहद्बृहत्या] बृंहति बृंहयति इति चाथर्वणे [अथर्वशिर उप.4] पराऽस्य शक्तिर्विविधैव श्रूयते [श्वे.उ.6।8] इति च। विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि। [ऋक्सं.2।2।24।1] न ते विष्णो जायमानो न जातो देव महिम्नः परमं तमाप [ऋक्सं.5।6।24।2] इत्यादेश्च। प्रकृतेर्वशादवशम्। त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव। मायावशं चावशं लोकमेतत्तस्मात्स्रक्ष्यस्यत्सि पासीश विष्णो इति गौतमखिलेषु।
गीतातात्पर्यम्
हरिः ओम् ।
Notes