अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
गन्धस्य विशेषणोपादाने प्रयोजनान्तरमाह- पुण्य इति। पुण्यगन्धस्यैव भगवतो भोगो न दुर्गन्धस्येति ज्ञापयितुमत्र विशेषणोपादानमित्यर्थः।
ननु दुर्गन्धं भगवाननुभवति न वा। नेति पक्षे सार्वज्ञाभावः। आद्ये कथं भोगाभावः? उच्यते। अनुभूयमाना अपि दुर्गन्धादयो न फलहेतव इत्यभिप्रायः। सुगन्धस्तु सुखहेतुरित्युपपादितम्। शुचिवस्त्वेव भगवतो भोग्यमित्यत्र प्रमाणमाह- तथा हीति। अमुम् उपासकम्। कुतः? तस्य देवत्वात्। तथापि कुतः? न ह वै देवमात्रस्य पुण्यभोगनियमे देवोत्तमस्य सुतरां तत्सिद्धिः।
ऋतं (कठो.3.1) इति श्रुतिः कथं प्रकृतोपयोगिनी? इत्यत आह- ऋतं चेति। कुतः? इत्यतः सामान्यविशेषाभिधानादित्याह- ऋतमिति। प्रयोगगः शब्दजन्यः। तथा च श्रुतावृतशब्दः पुण्यफलस्योपलक्षक इति भावः।
स्यादिदं व्याख्यानं यदि भगवतो विषयभोगो युक्तः स्यात्। न चैवम्। तदङ्गीकारे श्रुत्यादिविरोधात्। ऋतं पिबन्तौ इति च। अत एव छत्रिन्यायेनोपचरितमित्यत आह- न चेति। कुतो न? इत्यत आह- स्थूलेति। श्रुत्यादिषु स्थूलस्य जीवभोग्यस्य विषयस्याभोगोक्तेः, सूक्ष्मभोगस्य चाङ्गीकारादिति भावः। सूक्ष्माशने प्रमिते भवेदियं व्यवस्था। तदेव कुतः इत्यत आह- आह चेति। गन्धादिषु यो जीवेन्द्रियागोचरः सारभागस्तस्य भोगम् परमेश्वरोऽस्माच्छारीरादात्मनो जीवादतिशयेन विलक्षणभोग एव भवति। अवतारेषु स्थूलमपि भुङक्ते इति इव शब्दः।
ननु प्रविविक्ताsहारतरोऽयं जीव एवेत्यत आह- न चेति। न हि जीवो जीवादेव विलक्षणाहार इति युज्यत इत्यर्थः। ननु शारीराज्जागरावस्थाज्जीवात्स्वप्नसुषुप्त्यवस्थः स एव प्रविविक्ताsहार इत्यवस्थाभेदोपाधिकं जीवस्य भेदमङ्गीकृत्य व्याख्यास्यामीत्यत आह- स्वप्नादिश्चेति। ‘स्वपो नन्‘ (अष्टा.3.3.91) इति स्वप्नशब्दः कर्तरि। स्वप्नः सुषुप्तश्च शारीर एव, न केवलं जाग्रत्। तथाच त्र्यवस्थस्यापि शारीरशब्देन गृहीतत्वात् न ततो भेदः स्वप्नसुषुप्तयोरित्यर्थः।
अवस्थात्रयवतोऽपि शारीरत्वं कुतः? इत्यत आह- शारीरस्त्विति। जाग्रदादिष्ववस्थासु। अस्तु त्र्यवस्थोऽपि शारीरः। तथापि ‘अस्मात्‘ इति विशेषणेनात्र शारीरादिति जाग्रदवस्थो गृह्यते। तस्माच्च स्वप्नाद्यवस्थस्य भेदोक्तिरुक्तविधया सम्भवति। भवत्पक्षेऽपि शारीरादिति जीवे सिद्धे ‘अस्मात्‘ इति विशेषणं व्यर्थं स्यादिति। तत्राह- अस्मादिति। नैतद्विशेषणसार्थक्यायेश्वरं परित्यज्य जीवोऽत्र ग्राह्यः।
शारीरात् इत्येवोक्तावीश्वरस्यापि प्राप्तावीश्वरादेवेश्वरस्य भेदानुपपत्तेः। तद्व्यावृत्त्यर्थं जीवमात्रपरिग्रहाय विशेषणमिति सार्थक्योपपत्तेरित्यर्थः। भवेदेवं यदि शारीरत्वमीश्वरस्यापि स्यात्। तदेव कुतः? इत्यत आह- शारीराविति।
नन्वेवं पक्षद्वयेऽप्युपपत्तावीश्वर एवात्रोच्यते न जीवः इति कुतः विनिगमनम्? इत्यत आह- भेदेति। चो हेतौ। भेदश्रुतेः, स्वाभाविकभेदरूपे गत्यन्तरे सम्भवति पुरुषभेद एवार्थतया ग्राह्यः न त्ववस्थोपाधिको भेदः। मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययात्। अतो युक्तं विनिगमनम्। न केवलमुक्तव्यवस्था न्यायप्राप्ता किन्त्वागमसिद्धा चेत्याह- आह चेति। अभोक्ता च भोक्ता च इत्येतयोर्व्युत्क्रमेणान्धयः।
गीताभाष्यम्
हरिः ओम् ।
‘पुण्यो गन्ध‘ इति भोगापेक्षया। तथा हि श्रुतिः
‘पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति‘ (बृ.उ.3.6.27)
‘ऋतं पिबन्तौ सुकृतस्य लोके‘ (कठो.1.7.1) इत्यादिका।
ऋतं च पुण्यम्।
‘ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते‘ इत्यभिधानात्।
‘ऋतं तु मानसो धर्मः सत्यं स्यात्सम्प्रयोगगः‘ इति च।
नच ‘अनश्नन्नन्यो अभिचाकशीति‘ (आथर्वणे 3.1)
‘अन्यो निरन्नोऽपि बलेन भूयान्‘ (भाग.11.11.6) इत्यादि विरोधिः। स्थूलानशनोक्तेः। आह च सूक्ष्माशनम्-
‘प्रविविक्ताहारतर इवैष भवत्यस्माच्छारीरारादात्मनः‘(बृ.उ.6.2.3)।
न चात्र जीव उच्यते। । ‘शारीरादात्मनः‘ इति भेदाभिधानात्। स्वप्नादिश्च शारीर एव।
‘शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः‘ इति वचनाद्गारुडे।
‘अस्मात्‘ इति त्वीश्वरव्यावृत्त्यर्थम्।
‘शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञितः।
अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः‘ इति वचनान्नारदीये ।
भेदश्रुतेश्च। सति गत्यन्तरे पुरुषभेद एव कल्प्यो नत्ववस्थाभेदः।
आह च-
‘प्रविविक्तभुग्यतो ह्यस्माच्छारीरात्पुरुषोत्तमः।
अतोऽभोक्ता च भोक्ता च स्थूलाभोगात्स एव तु‘ इति गीताकल्पे।
गीतातात्पर्यम्
हरिः ओम् ।
पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः ।
तेजयत्यग्निसंस्थः (स) सन् भूतस्थो जीवनप्रदः ।
तपस्विसंस्थस्तपति ... ... ॥९ ॥ ...
व्यञ्जनाद् बीजसञ्ज्ञितः ।
बोधनाद् बुदि्धनामासौ बुदि्धमत्सु व्यवस्थितः ॥१० ॥
नित्यपूर्णबलत्वात्तु बलकामविवर्जितः ।
अरा(जस)गजबलश्चैव स्थानेभ्योन्येष्वयोजनात् ।
एतादृशबलात्मासौ बलिनां बलदः स्वयम् ।
बेति पूर्णत्ववाची स्यात् तद्रतेर्बलमुच्यते ।
प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः ।
न धर्महानिकृत् किन्तु कामितो धर्मवृदि्धकृत् ।
धर्माविरुद्धकामोतो विष्णुर्भूतेषु संस्थितः ।
एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः ।
व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ॥११ ॥
Notes