सञ्जयः धृतराष्ट्रं वदति । हे भारत, हृषीकेशः सेनयोः उभयोः मध्ये विषीदन्तं तं प्रहसन्निव इदं वचः उवाच - इति ।।
संजय कहते है - भारत, भगवान् श्रीकृष्ण ने दोनो सेनायों के बीच दुःखित अर्जुन से उपहास करते हुवे ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ಎಲೈ ಭರತನೇ, ಶ್ರೀಕೃಷ್ಣನು ಎರಡು ಸೇನೆಗಳ ಮಧ್ಯದಲ್ಲಿ ವಿಲಪಿಸುತ್ತಿರುವ ಅರ್ಜುನನನ್ನು ಉಪಹಾಸಮಾಡುವಂತೆ ಹೀಗೆ ಹೇಳಿದನು.
సంజయుడిట్లనె - ఓయీ భరత, శ్రీకృష్ణుడు, ఈ విధముగ రెండు సేనల మధ్య విలపించుచున్న అర్జునుని ఉపహించుచూ ఇట్లు పలికెను.
Tamil
Sanjaya said- O descendent of Bharata, Lord Sri Krshna chidingly spoke in the following manner to Arjuna who was thus lamenting in between the two armies.
गीताविवृतिः
हरिः ओम् । ततः किं जातमित्यत आह तमुवाचेति । हे भारतेति धऋतराष्ट्र सम्बोधनम् । प्रहसन्निवेति परिहासकरवाक्योक्तिद्योतहासस्य सूचनायेव शब्दः । भगवन्माहात्म्यज्ञानतद्भक्तिपूर्वकं भगवदाराधनरूपतया स्वविहितवृत्तित्वेनवा अनुष्ठीयमानो नारायणद्विट् तदनुबन्धिनिग्रहः क्षत्रियाणां परमो धर्मः । तं धर्मं बन्धुस्नेहादधर्मत्वेनोक्तदिशा शङ्कमानं अर्जुनं प्रति उक्तरूपो निग्रह एव परमधर्मः. तद्विरुद्धः सर्वोप्यधर्म इति कृत्स्नगीताशास्त्रेण बोधयिष्यन् आदौ तावदविवेकेन तव शोक इत्याह अशोच्यानिति ।।10।
प्रमेयदीपिका
हरिः ओम् । प्रज्ञावादानित्येतत् प्रज्ञावतां बुद्धिमतां वादान् वचनानीति कश्चिद्व्याख्यातावान् । तदसत् । न हि 'दृष्ट्वेमं स्वजनं' इत्याद्यर्जुनवाक्येषु कश्चित् बुद्धिवद्वादो विद्यते । न हि बुद्धिमन्तो नारायणद्विट्तदनुबन्धिनिग्रहमधर्मं वदन्ति । न च धर्माधर्मविषयत्वमात्रेण बुद्धिमद्वादो भवति । बौद्धोपदेशादेरपि तत्वप्रसङ्गादित्याशयेन व्याचष्टे । प्रज्ञावादानिति ।। स्वस्या मनीषया एव उत्थितानि । न तु शास्त्राचार्योपदेशप्राप्तानि । कथमेतल्लभ्यते । उच्यते । प्रज्ञायाः वादाः प्रज्ञावादाः । कार्यकारणाभावे षष्ठी । न हि स वादोऽस्ति यः प्रज्ञापूर्वो न भवतीति, सामर्थ्यात् स्वेति लभ्यते । सावधारणं चैतत्। अब्भक्ष इति यथा । अन्यथा पुनर्वैय्यर्थ्यादिति । कथमशोच्या इत्यत आहेति भावः । गतासूनित्यत परिमितशब्दः । आसन्नविनाशाः कथमशोच्याः इत्यर्थः । ननु प्रागशोच्यत्वानुवादेनान्वशोच इत्येवोक्तम् । न त्वशोच्यम् । तत्कथमेवापेक्षः । मैवम् । न हि यथाश्रुतैवात्र वाक्यवृत्तिः । असिद्धस्यानुवादः सिद्धस्य बोधनमित्यापत्तेः ।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह - ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाsपि कर्मविध्यर्था इत्येकार्थता । तथाsपि प्रकरणभेदार्थं एवमुक्तम् । ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञात एव ।। बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह - कर्मण इति ।। आदिपदेन कृपणाः फलहेतवः (2-49) इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्पुपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् , यत्याश्रमविहितान् शमदमादीन् । अत्र कर्मणि किमिति नियोजयसि इत्येकः प्रश्नः । घोरे इति द्वितीयः इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् सर्व एते पुण्यलोका भवन्ति (छा. 2.2.16) इत्यादि । तथाsत्रापि हतो वा प्राप्स्यसि स्वर्गम् (2-27) इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्येत् (बृ. 6.4.24) इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्णणोsत्युत्तमम् इत्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे युध्यस्व भारत (2-18) इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इति नियोक्तव्यम् । ननु यद्धमपि कर्मबन्धं प्रहास्यसि (2-39) इत्युक्तत्वाद् ज्ञानार्थं भवतीति मतम्, तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यान्यकाम्यानि च । तत्र यः सकामः तं प्रति हतो वा (2-37) इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य कर्मण्येवाधिकारः (2-47) इत्युक्तम् । तत्र का व्यामिश्रता इति । तथाsपि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोsवर्जनीयाः । ततोsपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं सुखदुःखे समे कृत्वा (2-38) इत्युक्तम् । सत्यम् । तथाsपि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वाद् अन्वयं दर्शयन् किञ्चिद् व्याचष्टे - कर्मण इति ।। षष्ठीभ्रान्तिनिरासाय सकाशाद् इत्युक्तम् । बुद्धिः आत्मज्ञानम् । ज्यायसी प्रशस्ततरा ।
गीताभाष्यम्
हरिः ओम् । प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः । गतासून् ।।२.११।।
गीतातात्पर्यम्
हरिः ओम् । ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । दूरेण ह्यवरं कर्म इति प्रश्नबीजम् ।।
Notes