अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
प्रश्नस्य परिहृतत्वात् ‘अजोऽपि’ इति किमर्थं? इत्यत आह- न तर्हीति। यदि जन्मानि व्यतीतानि तर्हीत्यर्थः। अनादिर्देहतोऽपि। उपलक्षणं चैतत्। मरणरहितः सर्वभूतानां ईश्वरश्चेत्यपि द्रष्टव्यम्। तथा चोक्तविरोध इति भावः|
ननु देहतोऽप्यनादित्वादेराक्षेपेऽजत्वादिमात्रं कथमुच्यते? इत्यतो ‘अव्ययात्मा’ इत्येतावता देहतोऽप्यविनाशमाचष्टे। तत्साहचर्यात् अजोऽपि इत्येतदपि तथैव व्याख्येयमिति भावेनाह- अव्यय इति। अपिपदात्परं अस्य इत्यध्याहार्यम्। स्यादेवं व्याख्यानं यदि भगवद्विग्रहस्याप्यव्ययत्वं गीताचार्याभिमतं स्यात्। तदेव कुतः? इत्यत आह- अनन्तमिति। इति च रूपविशेषणमिति वर्तते।
एवं तर्हि कथं तत्रैव ‘जगृहे पौरुषं रूपं’ इति रूपग्रहणमुच्यते? गृहीतस्य च त्यागो नियत एवेत्यत आह- जगृह इति।व्यक्तिः ‘उच्यते’ इति शेषः। कुत एवं कल्प्यते? इत्यत आह- युक्तय इति। युज्यत एभिरिति युक्तयः प्रमाणानि। असम्भावना परिहारार्था अचिन्त्यशक्तित्वाद्या युक्तयो वा। उक्ता द्वितीये।
अस्तु भगवद्विग्रहस्याप्यव्ययत्वम्। अत्र तु स्वरूपस्यैवोच्यत इति किं न स्यात्? इत्यत आह- आत्मेति। ‘आत्मनः स्वरूपस्य देहस्याप्यव्ययत्वोपपादनेनाजत्वमपि साहचर्यात्तस्यैवेति योऽभिप्रायस्तं प्रकटयितुमव्ययत्वमुपक्रम्यानादित्वमित्युक्तम्। सर्वसमं जीवानामप्यस्ति। अतस्तद्विषयो नाक्षेपः परिहारो वा सम्भवतीति भावः। आत्मशब्दोऽप्यन्यथा व्यर्थः। अस्मत्पक्षे स्वरूपदेहयोरुपादानार्थः। अत एव ‘देहोऽपि’ (भाग.11.13.17) इत्युक्तम्।
एवं तर्हि ‘प्रकृतिं स्वामधिष्ठाय’ इति कथमुक्तं? इत्यतस्तदन्यथा व्याख्यातुमाह- कथमिति। स्वरूपतो देहतश्चानादिनित्यस्य ‘सम्भवामि’ इति जनिः कथमुच्यते? व्याहतत्वादित्यत आहेतिशेषः।अधिष्ठाय इत्यतः परमितिशब्दश्च। कथमनेन परिहारः? इत्यतो व्याचष्टे- प्रकृत्येति। वसुदेवादिषु ‘प्रादुर्भूतत्वात्’ इति शेषः। अनेन जन्मभ्रान्तेर्निमित्तमुक्तम्। यथोक्तं स्त्रीपुम्प्रसङ्गात् (म.भा.ता.नि 10.50) इत्यादि। भ्रान्तेरुपादानमाह- तयैवेति। तमोरूपया। यदि मातापितृसम्बन्धोऽङ्गीकृतस्तर्हि तन्निमित्तं दुःखादिकमपि प्रसज्जत इत्याशङ्कानिरासायस्वां इतिपदं व्याख्याति न त्विति।
प्रकृतेर्भगवदधीनत्वं कुतः? इत्यत आह- द्रव्यमिति। अत्र वाक्ये प्रकृतिर्न श्रूयत इत्यत आह- सा हीति। ‘द्रव्यपदेन’ इति शेषः।तस्या प्रकृतिवाचित्वं कुतः? इत्यत आह- तत इति। सर्वसृष्टिकारणानि ह्यत्र निर्दिश्यन्ते। तच्च प्रकृतेरेव सम्भवति। न पृथिव्यादेरित्यर्थः।
‘आत्ममाययाऽऽत्माविद्यया‘ इति प्रतीतिनिरासायाह- आत्मेति। कुतो हेतोरेवं जीवविलक्षणं ते जन्म? इत्याशङ्कानिरासार्थमेतत्। अन्यथाप्रतीतिरप्यनेन परिहृता। सर्वज्ञस्याविद्या$योगात्। प्रकृतिरत्र माया किं न स्यात्? इत्यत आह- प्रकृतेरिति। मायाशब्दस्य ज्ञानवाचित्वं कुतः? इत्यत आह- केतुरिति। ‘इति प्रज्ञायाः नामधेयानि’ इति वाक्यशेषात्।
प्राक् ‘प्रकृतिं स्वामधिष्ठाय’ इत्यनेनैव भ्रमनिमित्तत्वमुपादानत्वं च प्रकृतेरुक्तमिति मायाशब्दो न प्रकृतिवाची। पुनरुक्तिप्रसङ्गादित्युक्तम्। इदानीं तस्य निमित्तमात्रपरत्वे मायाशब्दस्य प्रकृत्यर्थतायामपि न दोषः। उपादानप्रतिपादनार्थत्वादिति भावेनाह- सृष्टीति। ‘प्रकृत्या’ इति शेषः। तेषां वसुदेवादीनाम्। सृष्ट्वा तत्र प्रादुर्भूतः। विमोहिकया मायाख्यया। अत्रागमसम्मतिमाह उक्तं चेति। आत्मचिद्बलात् अजात एव।
नन्वीशनशीलानामपि ब्रह्मादीनामुत्पत्तिमरणदर्शनेन विरोधाभावात् ‘ईश्वरोऽपिसम्भवामि’ इति कथमुच्यते? इत्यतः ‘स्थेशभासपिसकसो वरच्’ (अष्टा.3.2.175) इत्येतद्विहायान्यथा व्याचष्टे- ईश्वर इति। कुत एतत्? इत्यत आह- ईशेभ्य इति। एतदागमवलादेव समासाकारलोपावनुमन्तव्यौ। अजत्वादेः सम्भवेन शाब्दो व्याघातः, अस्य तु व्याप्त्येति ज्ञापनाय क्रममुल्लङ्घ्य व्याख्यातम्।
गीताभाष्यम्
हरिः ओम् ।
न तर्ह्यनादिर्भवानित्यत आह -अजोऽपीति। अव्यय आत्मा देहोऽपीत्यव्ययात्मा।
‘अनन्तं विश्वतो मुखम्’ (11.11) इति रूपविशेषणमुत्तरत्र|
‘एतन्नानावताराणां निधानं बीजमव्ययम्’ (भाग.1.3.5) इति च|
जगृहे (भाग.1.3.1) इति तु व्यक्तिः।
युक्तयस्तूक्ताः। आत्माऽनादित्वं तु सर्वसमम्।
कथमनादिनित्यस्य जनिः? प्रकृतिं स्वामधिष्ठाय| प्रकृत्या जातेषु वसुदेवादिषु| तथैव तेषां जात इव प्रतीये इत्यर्थः। न तु स्वतन्त्रामधिष्ठायेत्याह - स्वामिति।
‘द्रव्यं कर्म च’ (भाग.2.10.12) इति ह्युक्तम्।
सा हि तत्रोक्ता। ततः सर्वसृष्टेः।
आत्ममायया आत्मज्ञानेन प्रकृतेः पृथगभिधानात्।
केतुः केतः चेतः चित्तं मतिः क्रतुः मनीषा माया (वैदिकनिघण्टौ 3-9) इति अभिधानात्।
सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकया$जात एव जात इव प्रतीयते वा। उक्तं च
‘महदादेश्च माता या श्रीर्भूमिरिति कल्पिता।
विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि।
जातवत्प्रथते ह्यात्मचिद्बलान्मूढचेतसाम्||’ इति।
ईश्वर ईशेभ्योऽपि वरः। तच्चोक्तम्
‘ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान्।
वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्|| इति ब्रह्मवैवर्ते।
‘समर्थ ईश इत्युक्तस्तद्वरत्वात्त्वमीश्वरः’ इति च।
गीतातात्पर्यम्
हरिः ओम् ।
आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । 'देवस्यैष स्वभावोयम्'' इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं 'प्रकृतिं स्वामवष्टभ्य'' इत्यादिषु । 'मयाध्यक्षेण प्रकृतिः'' इत्यादिषु तु न स्वशब्दः । 'प्रकृतिं विदि्ध मे पराम्'' इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।
'स्रष्टृत्वादिस्वभावत्वात्स्वेच्छया विष्णुरव्ययः ।
सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्'' ॥ इति नारायणश्रुतिः॥ ६,७ ॥
Notes