अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
उत्तरप्रकरणप्रतिपाद्यं बुद्ध्यारोहार्थमाह- यज्ञेति। सामान्यतः कर्मस्वरूपमुक्तम्। तच्च यज्ञादिभेदभिन्नम्। तत्र नायं लोकोऽस्ति (4.31) इति वक्ष्यति। तदनुपपन्नम्। ‘यत्याद्याश्रमविलोपप्रसङ्गादित्याद्याशङ्कानिरासार्थम्’ इति शेषः। तत्र ’दैवं देवविषयं’ इति व्याख्यानमसत्। ’द्रव्ययज्ञाः ’ (4.28) इत्यस्य पुनरुक्तत्वादिति भावेनाह- दैवमिति।
एवं तर्हि ’केचित् भगवन्तमुपासते’ इत्युक्तं स्यात्। तथा च नेयं यज्ञोक्तिरित्यत आह- स एवेति। स इति परामृष्टं दर्शयति- भगवदिति। भगवदुपासनस्य यज्ञत्वमिह कथं लभ्यते? इत्यत आह- यज्ञमिति। भगवदित्यादिकं क्रियाविशेषणत्वप्रदर्शनार्थमेकमेव वाक्यम्।
साधनं परित्यज्य धात्वर्थमात्रस्य विशेषणं क्रियाविशेषणम्।
अवधारणार्थं दर्शयति- नान्यदिति। अन्यद्भगवदुपासनात्। अनेन एवशब्दो भिन्नक्रम इत्युक्तं भवति। दैवमेवोपासते नान्यदिति तु प्रकृतासङ्गतम्। केषाञ्चित्परमहंसानाम्। अन्येषां बाह्यकर्मणोऽपि भावात्। यद्वा ‘केषाञ्चित्’ इत्यस्यैव व्याख्यानं यतीनामिति।
‘ब्रह्माग्नौ’ इत्यस्य ‘आत्मानमात्मनैव मनसा वा ब्रह्मणैकीभावयन्ति’ इति व्याख्यानमसदिति भावेन यज्ञमित्येतद्व्याचष्टे- यज्ञमिति। भगवतो यज्ञशब्दार्थत्वं कुतः इत्यत आह- यज्ञेनेति।यज्ञेन इत्यस्यार्थमाह- यज्ञेनेति। एवशब्देनापव्याख्यानं निराकरोति। एवं चेत् यज्ञमित्यस्य कथमन्वयः? इत्यत आह- यज्ञमिति। एतद्व्याख्यानमन्यत्रातिदिशति- इति सर्वत्रेति। अतिप्रसङ्गनिवारणाय सर्वत्र इत्युक्तं विवृणोति- तमिति। एवं तर्हि ’अग्रतो जातं तं पुरुषं यज्ञं भगवन्तं प्रति बर्हिषि प्रौक्षन्’ इत्यर्थः स्यात्। स च निर्मूल इत्यत आह- उक्तं चेति।
गीताभाष्यम्
हरिः ओम् ।
यज्ञभेदानाह- दैवमित्यादिना। दैवं भगवन्तम्। स एव तेषां यज्ञः। भगवदुपासनं यज्ञमिति क्रियाविशेषण्।
नान्यत्तेषामस्ति यतीनां केषाञ्चित्।
यज्ञं भगवन्तम्।
‘यज्ञेन यज्ञम्’ (ऋ.1.164.50))
‘यज्ञो विष्णुर्देवता’ इत्यादिश्रुतिः।
यज्ञेन प्रसिद्धेनैव। यज्ञं प्रति जुह्वतीति सर्वत्र समम्।
‘तं यज्ञं ‘ (ऋ.10.90.7) इत्यादौ। उक्तं च –
विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना।
अयजन्मानसे यज्ञे पितरं प्रपितामहः।। इति।
गीतातात्पर्यम्
हरिः ओम् ।
Notes