अर्जुनः वदति । हे मधुसूदन , पापं अङ्गीकृत्य युद्धं कुर्मश्चेदपि अस्माकं जयः संदिग्धः एव । आवयोर्मध्ये किनाम अधिकतरं भविष्यति इति न जानीमः एतान् वयं जेष्यामः यदि वा अस्मान् एते जेष्यन्ति । किञ्च अस्माकं जयोपि फलतः पराजयः एव यतो हि कुत इति चेत् यानेव हत्वा जीवितुं नेच्छामः ते एव धार्तराष्ट्राः अस्माकं सम्मुखे स्थिताः तस्मात् - इति ।।
अर्जुन कहते है - हे मधुसूदन , हममें कौन भारीपडेगा ये हम नहि जानते । हमारी जीत होगी या उनकी । हमारी जीति भी पराजय ही होगी कारण हम जिनके बिने जीवित रहना नहि रहसकते वो हि हमारे सामने खडें है ।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಓ ಮಧುಸೂದನ, ನಮ್ಮಿಬ್ಬರಲ್ಲಿ ನಮ್ಮನ್ನು ಅವರು ಗೆಲ್ಲುವರೋ ನಾವು ಅವರನ್ನು ಗೆಲ್ಲುವೆವೋ ಇಂದು ಸಂದಿಗ್ಧವಾಗಿದೆ. ನಾವು ಗೆಲ್ಲುವುದಾದರೂ ಅದು ನಮ್ಮ ಸೋಲೇ ಆಗುವುದು. ಯಾರನ್ನು ಕೊಂದು ನಾವು ಜೀವಿಸಲಾರೆವೋ ಆ ಧಾರ್ತರಾಷ್ಟ್ರನು ನಮ್ಮ ಎದುರುಗಡೆ ನಿಂತಿರುವರು.
అర్జునుడిట్లనె - ఓయీ మధుసూదన, ఇరువురిలో ఎవరు గెలిచెదరు. వారు మమ్ము గెలుతురా వారిని మనము గెలిచెదమా. మనము గెలిచినను ఓడినట్లే ఎందుకనిన ఎవరిని హతమార్చి మనము జీవించజాలమో ఆ ధార్తరాష్టులు మనముందు నిల్చియున్నారు.
Tamil
Arjuna said - O Madhusudhana, who will win amongst us. They will defeat us or we will defeat them. Even if we win, it as good as we have lost for such sons of Dhritarasthra are standing before us killing whom we ourselves cannot live.
गीताविवृतिः
हरिः ओम् । पापमङ्गीकृत्य युद्धकरणेपि जयःसन्दिग्ध एवेत्याह – न चैतदिति । द्वयोर्मध्ये नोस्माकं कतरत् किन्नाम गरीयः अधिकतरं भविष्यतीति न विद्मः । तदेव द्वयमाह यद्वेति । एतान् वयं जयेम जेष्यामः, यदि वा नो अस्मानेते जयेयुः जेष्यन्तीति किञ्चास्माकं जयोपि पराजय एव फलते (बुद्ध्यते) इत्याह यानेवेति । यानेव हत्वा जीवितुं नेच्छामः त एव धार्तराष्ट्रा सम्मुखे अवस्थिताः तस्मात् ।।6।।
प्रमेयदीपिका
हरिः ओम् । प्रज्ञावादानित्येतत् प्रज्ञावतां बुद्धिमतां वादान् वचनानीति कश्चिद्व्याख्यातावान् । तदसत् । न हि 'दृष्ट्वेमं स्वजनं' इत्याद्यर्जुनवाक्येषु कश्चित् बुद्धिवद्वादो विद्यते । न हि बुद्धिमन्तो नारायणद्विट्तदनुबन्धिनिग्रहमधर्मं वदन्ति । न च धर्माधर्मविषयत्वमात्रेण बुद्धिमद्वादो भवति । बौद्धोपदेशादेरपि तत्वप्रसङ्गादित्याशयेन व्याचष्टे । प्रज्ञावादानिति ।। स्वस्या मनीषया एव उत्थितानि । न तु शास्त्राचार्योपदेशप्राप्तानि । कथमेतल्लभ्यते । उच्यते । प्रज्ञायाः वादाः प्रज्ञावादाः । कार्यकारणाभावे षष्ठी । न हि स वादोऽस्ति यः प्रज्ञापूर्वो न भवतीति, सामर्थ्यात् स्वेति लभ्यते । सावधारणं चैतत्। अब्भक्ष इति यथा । अन्यथा पुनर्वैय्यर्थ्यादिति । कथमशोच्या इत्यत आहेति भावः । गतासूनित्यत परिमितशब्दः । आसन्नविनाशाः कथमशोच्याः इत्यर्थः । ननु प्रागशोच्यत्वानुवादेनान्वशोच इत्येवोक्तम् । न त्वशोच्यम् । तत्कथमेवापेक्षः । मैवम् । न हि यथाश्रुतैवात्र वाक्यवृत्तिः । असिद्धस्यानुवादः सिद्धस्य बोधनमित्यापत्तेः ।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह - ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाsपि कर्मविध्यर्था इत्येकार्थता । तथाsपि प्रकरणभेदार्थं एवमुक्तम् । ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञात एव ।। बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह - कर्मण इति ।। आदिपदेन कृपणाः फलहेतवः (2-49) इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्पुपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् , यत्याश्रमविहितान् शमदमादीन् । अत्र कर्मणि किमिति नियोजयसि इत्येकः प्रश्नः । घोरे इति द्वितीयः इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् सर्व एते पुण्यलोका भवन्ति (छा. 2.2.16) इत्यादि । तथाsत्रापि हतो वा प्राप्स्यसि स्वर्गम् (2-27) इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्येत् (बृ. 6.4.24) इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्णणोsत्युत्तमम् इत्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे युध्यस्व भारत (2-18) इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इति नियोक्तव्यम् । ननु यद्धमपि कर्मबन्धं प्रहास्यसि (2-39) इत्युक्तत्वाद् ज्ञानार्थं भवतीति मतम्, तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यान्यकाम्यानि च । तत्र यः सकामः तं प्रति हतो वा (2-37) इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य कर्मण्येवाधिकारः (2-47) इत्युक्तम् । तत्र का व्यामिश्रता इति । तथाsपि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोsवर्जनीयाः । ततोsपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं सुखदुःखे समे कृत्वा (2-38) इत्युक्तम् । सत्यम् । तथाsपि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वाद् अन्वयं दर्शयन् किञ्चिद् व्याचष्टे - कर्मण इति ।। षष्ठीभ्रान्तिनिरासाय सकाशाद् इत्युक्तम् । बुद्धिः आत्मज्ञानम् । ज्यायसी प्रशस्ततरा ।
गीताभाष्यम्
हरिः ओम् । प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः । गतासून् ।।२.११।।
गीतातात्पर्यम्
हरिः ओम् । ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । दूरेण ह्यवरं कर्म इति प्रश्नबीजम् ।।
Notes