सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
य एनं इति श्लोके जीवचैतन्यस्य हननं वा हननक्रियायां स्वातन्त्र्यं वा मन्यमानो न जानाति इथ्यत्र जीवचितो बिम्बोपाधिसान्निध्यनाशहैतुकनित्यत्वप्रतिबिम्बत्वहेतुकास्वातन्त्र्यरूपहेतू उक्तौ । यस्तु जीवचितो नित्यत्वं हरेः स्वातन्त्र्यं च जानाति स ज्ञानी । स्वातन्त्र्याभिमानाभात् । हन्ताहमिति वा अस्यायं हन्तेति वा न जानातीत्यज्ञानेभमानाभावोपरोहेतुरुच्यते वेदेति । अविनाशिनं बिम्बनाशादिनिमित्तकनाशहीनम् । मात्रास्पर्शा इत्यत्रोक्तदिशा अभिमानकृता एव रागद्वेषसुखादिदोषा न तु स्वत इति स्वतो दोषहीनमिति वा । दुष्टेषु नष्टशब्दप्रयोगान्नाशोत्र दोषो ध्येयः । सित्यं स्वाभाविकनाशहीनम् । अजं उत्पत्तिहीनम् । अव्ययं स्वरूपविकारशून्यम् । एनं जीवम् । यद्वा अविनाशिनं नित्यं स्वरूपतो नाशहीनम् । अजं जन्महीनम् । अव्ययं निर्विकारं । अत एऴ सर्वस्वतन्त्रमेनं ईश्वरं यो वेद जानाति स पुरुषो ज्ञानी कथं केन प्रकारेण कं घातयति? कं वा हन्ति? घातयाम्येनमिति वा हन्म्येनमिति वा भावं न करोतीत्यर्थः ।।21।।
प्रमेयदीपिका
हरिः ओम् ।
वेदाविनाशिन मिति। पुनरात्मनोऽविनाशित्वादिकं किमर्थमुच्यते इत्यतोऽस्य तात्पर्यमाह अत इति। उक्तैः प्रमाणैरेवमविनाशित्वादिरूपं कं कथं घातयति हन्ति वेत्येवंभावं करोतीत्यर्थः। जीवस्यानित्यत्वादिकं मन्यमानो न जानातीत्युक्तम् इदानीं तु ज्ञानी नैवं मन्यत इत्युच्यत इति। अविनाशिनं नित्यमिति पुनरुक्तिमाशङ्क्य द्वेधार्थभेदमाह अविनाशिन मिति। नैमित्तिको बिम्बनाशादिनिमित्तकः। स्वाभाविकः कालकृतः। दोषयोगरहितमित्यनेन मात्रास्पर्शा इत्यत्र यदुक्तमाभिमानिकमेवात्मनो दुःखादिकं न तु स्वगतमिति तस्यानुवादः क्रियते। एवं व्याख्यानप्रकारमन्यत्राप्यतिदिशति इती ति। विवेकः शब्दार्थयोः। अविनाशिनं दोषयोगरहितमिति कुतो लभ्यमित्यत आह दोषे ति। अनेकार्थत्वाद्धातूनामिति भावः।
गीताभाष्यम्
हरिः ओम् ।।
अतो य एवं वेद स कथं घातयति हन्ति वा अविनाशिनं नैमित्तिकविनाशरहितम्। नित्यं स्वाभाविकनाशरहितम्। अथवाऽविनाशिनं दोषयोगरहितम्। नित्यं सदाभाविनमिति सर्वत्र विवेकः दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात्।
गीतातात्पर्यम्
हरिः ओम् ।
अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् ।
'कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् ।
तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत्'' ॥ इति परमश्रुतिः ।
अन्यथाविनाशिनं नित्यमिति पुनरुक्तिः ॥२१ ॥
Notes