श्रीकृष्णः वदति । नित्यस्य शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । हे भारत , तस्मात् अनाशिनः अप्रमेयस्य पूजार्थं युध्यस्व ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
శ్రీకృష్ణుడిట్లనె - నిత్యుడైన జీవుని ఈ దేహములు నాశమగునటువంటివి. ఓ అర్డున, కావున నాశరహితుడైన అప్రమేయుడైన శ్రీహరి ప్రీత్యర్థమై యుద్ధమునుగావించు.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
ननु रूपं रूपं प्रतिरूपो बभूव इथि श्रुतेः जीवः पेरतिबिम्बः । प्रतिबिम्बश्च उपाधिकृतः, प्रतिमुखमिव दर्पणोपाधिकृतं । देह एवात्र जीवोपाधिर्नान्योस्ति । तथा च जीवचेतना न नित्या नाशवद्देहोपाधिकत्वात् दर्पणोपाधिकप्रतिप्रतिमुखवत्। नश्वरबिम्बोपाधिसन्निधिकत्वात्, नशअवरसन्निधिमुखदर्पणप्रतिमुखवत् इति प्रतिपक्षग्रस्तमनादिनित्यत्वानुमानमित्यत आह अन्तवन्त इति । एकवचनं बहुवचनार्थे । शरीरिणां नित्यानामिमे परिदृशअयमाना भौतिका देहा अन्तवन्तः विनाशिनः इति योजना । इम इति विशेषणादन्ये अन्तहीना अपि देहा सन्तीति सूच्यते । त एवोपाधयो जीवानां, नान्तवद्भौतिकदेहा इति आद्यप्रतिपक्षे हेतुरसिद्धः । अत् एवे नित्यस्य साध्योक्तिः । जीवा नित्या नित्योपाधिकत्वात् व्यतिरेकेण प्रतिमुखवत् इत्युक्तं भवति । नित्यस्येवोक्तौ ईश्वरस्यापि देहोन्तवानिति प्राप्नोतीत्यतः शरीरिण इति विशेषणम् । द्वितीयहेतुरप्यसिद्धः इत्याह अनाशिन इति । बिम्बोपाधिसन्निधिनाशकृतनाशहीनस्य शरीरिण इत्यन्वयः । जीवा नित्या नित्यबिम्बोपाधिसन्निधिकत्वात् वयतिरेकेँ पर्तिमुखवत् इत्युक्तं भवति । ननु उपाधेर्नित्यत्वेपि परिच्छिन्नपरिमाणस्यैव वस्तुनो बिम्बत्वयोग्यत्वात् परिच्छिन्नयोश्च बिम्बोपाध्योः सन्निधे दर्पणमुखसन्निधेरिव कादाचित्कत्वनियमात् कथं तस्य नित्यतेत्यत आह अप्रमेयस्येति । प्रमा परिमितिः अपरिच्छिन्नस्येत्यर्थः । सर्वगतस्येति यावत् । जीवे सर्वगतत्वस्याभावादतद्भावे सामानाकरण्यं सारूप्यं गमयति सिंहश्चैत्रः इत्यादौ प्रसिद्धेः, सर्वगतेश्वररूपस्येत्यर्थः । तत्प्रतिबिम्बस्येति यावत् । सर्वगतेश्वरप्रतिबिम्बस्य कथँ बिम्बोपाधिसन्निधिनाशेन नाशः स्यादित्यति भावः । न च सर्वगतस्य प्रतिबिम्बायोगः । तत्सारूप्यस्यैव प्रतिबिम्बताशब्दार्थत्वात् । तदाह सूत्रकारः यावदात्मभावित्वाच्च न दोषस्तद्दर्शानात् इति । उपसंहरति तस्मादिति । बिम्बोपाधितत्सन्निधीनां नाशाभावेन तन्नाशप्रयुक्तनाशस्य जीवचेतने अनाशङ्क्यत्वेन प्रतिक्षानुत्थानात् न त्वेवाहं इत्यत्र उक्तानादित्वानिमानेन जीवस्य नित्यत्वात् जीर्णदेहहानेपि समीचीनदेहान्तरलाभरूपप्रतिनिधिना समाधानसम्भवात् वन्धुदेहस्पर्शनदर्शनाद्यभावनिमित्तशोकस्य च परमपुमर्थहेत्वभिमानत्यागेन निवर्तितुं शक्यत्वात् भगवत्पूजार्थं हे भारत युद्धस्वेति । नन्वेतदयुक्तम् । जीवेश्वरयोः नित्यत्वविशेषात् कुत ईश्वरस्य पूज्यतेत्यतो वा जीवाद्धरेर्विशेषं वक्तुं अविनाशि तु इत्यादिश्लोकद्वयं प्रवृत्तम् । तथाहि येन भगवता अदं जगत् कालः गुणजातं ततं व्याप्तम् । कालतो गुणतो देशतश्च यद्विष्ण्वाख्यं ब्रह्म ततिमत् तत् विष्ण्वाखअयं ब्रह्म अविनाशि । तुर्विशेषे ।
अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।।
इत्युक्तदिशा चतुर्विधनाशहीनमिति विद्धि जानीहीत्यर्थः । विनाशमित्यादि प्राग्वद्व्याख्येयम् । वर्णाकाशादेः देशकालाभ्यां व्याप्तत्वेपि न गुणतः सास्ति । जीवस्य कालतस्ततत्वेपि न देशगुणाभ्यां ततिरस्तीति हरेस्ततत्वे विशेषः । अस्त्वेवं हरेः सर्वप्रकारेण विनाशाभावः । तावता जीवादविनाशविषये को हरेर्विशेष इत्यत आह अन्वन्त इति । शरीरिणां शीर्यमाणदेहवतां । संसारिणामिति यावत् । स्वरूपतो नित्यानां जीवानामिमे देहाः। अन्तवन्तः विनाशवन्तः। जनिमन्तश्चेत्यपि ग्राह्यम् । संसारिदेहा- आद्यन्तवन्त इत्युक्त्या मुक्तदेहो नैवमिति लाभात् मुक्तेश्वरस्य हरेः कैमुत्यसिद्धो नित्यदेहः । एवं चोत्पत्तिविनाशवद्देहवतां च दुःखप्ताप्तिरवर्जनीयैव। गुणतोपूर्णता व्यक्तैवेति। स्वरूपतो नित्यत्वेपि त्रिविधनाशवत्वाज्जीवस्य ततो हरेश्चतुर्विधनाशहीनस्यास्ति महान् विशेष इति तत्पूजा कार्येत्युपसंहरति । अनाशिन इति । तस्मात् जीवेभ्योतिशयत्वात् । अनाशिनश्चतुर्विधनाशहीनस्य । अप्रमेयस्य देशकालगुणापरिच्छिन्नस्य हरेः । पूजार्थं युद्ध्यस्व । किञ्च न केवलं सर्वप्रकारेण अविनाशित्वात् तत्पूजा कार्येति । किन्तु सर्वथैवाविनाशित्वात् स एव स्वतन्त्रः। ततश्च तदधीनत्वान्मुक्तेः युद्धादिस्वकर्मणाराधितश्च मोक्षं ददातीत्यतस्तत्पूजा कार्येति भवेन चोक्तम् । अनाशिनोप्रमेयस्येति ।।18।।
प्रमेयदीपिका
हरिः ओम् ।
देहानामन्तवत्त्वं प्रागुक्तं किमथमुच्यत इत्यत आह भव त्विति। आत्मनित्यत्वानुमानस्य प्रतिपक्षं वक्तुं स्वाभिप्रेतस्य हेतोः सिद्धान्तिनाप्यभ्युपगतत्वं दृढीकुर्वता पूर्वपक्षिणा देहस्यापि कस्यचिन्नित्यत्वं भवतु किमिति पृष्टे (सति) नेत्याहेत्यर्थः। सिद्धार्थतापरिहाराय कस्यचि दित्युक्तम्। नन्वतिप्रसङ्गोऽयं कस्मान्न भवतिकस्यचिदिति विशेषणवैयर्थ्यप्रसङ्गात्। नित्यस्येत्यात्मनित्यत्वं पुनः कस्मादुच्यत इत्यत आह अस्त्वि ति। एवं देहानित्यत्वं सिद्धान्तिनोऽपि सिद्धं कृत्वा तर्हि प्रतिबिम्बस्यात्मन उपाधेर्देहस्य नाशान्नाशोऽस्तु दर्पणनाशान्मुखप्रतिबिम्बस्येवेति पूर्वपक्षिणा प्रतिपक्षेऽभिहिते तत्प्रतिषेधायेदमाहेत्यर्थः। अनेन तथाऽप्यात्मा नित्य इति वाक्यवृत्तिः सूचिता। अनुवादे प्रयोजनाभावात् ये देहा अनित्या न तेषामुपाधित्वम् यस्योपाधित्वं नासावनित्य इति भावः। तदिदमुक्तं इमे इति। व्यक्तीकरिष्यते चैतत्। ननु शरीरिणो देहा इति व्यर्थम् अशरीरस्य देहाभावादित्यत आह शरीरिण इति। नित्यस्य देहा अन्तवन्त इत्युच्यमाने ईश्वरदेहस्याप्यन्तवत्त्वं प्रसज्यते तद्व्यावृत्त्यर्थं शरीरिणः इति विशेषणम्।जन्तुजन्युशरीरिणः अमरे 1।4।30
इत्यभिधानाच्छरीरिशब्दस्य जीवे प्रसिद्धेः। तथापिअनाशिनः इति पुनरुक्तिरिति। अत्र केचित्तत्परिहारायविनाशिनः इति पाठान्तरं कुर्वन्ति तदसत्अन्तवन्तः इत्यनेन पुनरुक्तितादवस्थ्यात्। कथञ्चित्समाधानेऽन्यत्रापि तत्समम्। किमन्यथापाठेनेत्याशयवानाह नचे ति। उपाधिनाशेन नाशाभावेऽपि उपाधिबिम्बसन्निधिनाशान्निमित्तात्प्रतिबिम्बस्यात्मनो नाशो भविष्यति। न चासिद्धिः शङ्क्या। परिच्छिन्नस्यैव प्रतिबिम्बसम्भवेन सन्निधिनाशध्रौव्यादिति पुनः प्रतिपक्षिते तत्प्रतिषेधायेदमिति भावः। अप्रमेयस्येत्येतदसम्भवि विशेषणम्। व्यर्थं चेत्यतस्तन्निवर्त्यामाशङ्कां दर्शयित्वा व्याचष्टे कुत इति। न हि प्रतिपक्षो वाङ्मात्रेण निषेद्धुं शक्यत इति भावः। अप्रमेयेत्यनेन प्रतिपक्षहेतोरसिद्धिमाचष्टे। नायमात्मा घटादेः कस्यचित्प्रतिबिम्बः किन्त्वीश्वरस्य। स चाप्रमेयः सर्वगत इति कथं तस्योपाधिसन्निधिनाश इति। ननु कथमिदं लभ्यते अतद्भावे सामानाधिकरण्यं सारूप्यं गमयतीति प्रसिद्धमेव न च सर्वगतस्य प्रतिबिम्बासम्भवः तदधीनसारूप्यस्य प्रतिबिम्बत्वात् तदिदमुक्तं सरूपत्वादिति।
ननु वक्तव्यं सर्वमुक्त्वोपसंहारः क्रियते तत्किमात्मनित्यत्वविषये सर्वशङ्कोद्धारो जातो येनतस्माद्युद्ध्यस्व इत्युपसंह्रियत इत्यतो जात इत्याह नही ति। उपाधिबिम्बसन्निध्यनाशे प्रदर्शके आदर्शे उपाधौ बिम्बे चाविनष्टे सति प्रतिबिम्बनाशो न ह्यस्ति उपपादितश्चात्र त्रयस्यानाश इति भावः। ननु विनाशिनां देहानामप्यनुपाधिकत्वात्कोऽत्रोपाधिरित्यत आह स्वयमि ति। उपाध्युपाधिमद्भावो विशेषबलेनेति भावः। लोकेऽदृष्टमिदं कथमङ्गीकार्यमित्यत आह चित्त्वादि ति। जडेष्वयावद्वस्तुभावित्वात्सर्वत्र भेदाभेदौ। चित्स्वरूपे तु यावद्वस्तुभावित्वादभेद एवेति भावः। स्वस्यैवोपाधित्वे मुक्तावात्मनिवृत्तिः स्यात्। उपाधिनिवृत्तिलक्षणत्वान्मुक्तेरित्यत आह नित्य इति। द्विविध उपाधिरात्मनः नित्योऽनित्यश्च तत्र नित्यस्यावस्थानं अन्यस्य निवृत्तिर्मुक्ताविति कुत एतदित्यत आह प्रतिपत्ता विति। प्राप्तौ सत्यां कुतस्तिष्ठतीति शेषः। ननूपाध्येति कथं किप्रत्ययान्तस्य पुल्लिङ्गतानियमात्। तर्हि इषुधिर्द्वयोः कथम्। प्रयोगदर्शनादपवादः। यथाहलिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः इति। समं प्रकृतेऽपि। स्व आत्मा रूपं यस्याः सा स्वरूपा। चिद्रूपत्वात् स्वरूपत्वं स्वरूपत्वान्नित्यत्वम्।
गीताभाष्यम्
हरिः ओम् ।।
भवतु देहस्यापि कस्यचिन्नित्यत्वमिति नेत्याह अन्तवन्त इति। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह नित्यस्य शरीरिण इति। ईश्वरव्यावृत्तये। न च नैमित्तिकनाश इत्याह अनाशिन इति। कुतः अप्रमेयेश्वरसरूपत्वात्। नह्युपाधिबिम्बसन्निध्यनासे प्रतिबिम्बनाशः सति च प्रदर्शके। स्वयमेवात्र प्रदर्शकः चित्त्वात् नित्यश्चोपाधिः कश्चिदस्ति।प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया। चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः इति भगवद्वचनात्।
गीतातात्पर्यम्
हरिः ओम् ।
शरीरिणां तु देहहान्यादिनाशो विद्यत एव । 'येन सर्वमिदं ततम्'' इति तस्यैव लक्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोप्रमेयस्य विष्णोः पूजार्थं युद्ध्यस्व । तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च ।
'ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
तेषामहं समुद्धर्ता'' (गीता १२-६) इत्यादेः ।
जीवपक्षे 'नित्यस्योक्ताः'' इत्युक्तत्वात् 'अनाशिनः'' इति पुनरुक्तिः । 'अविनाशि, येन सर्वमिदं ततम्'' इत्युक्तस्यैव 'अनाशिनोप्रमेयस्य'' इति प्रत्यभिज्ञानाच्च । 'इमे देहाः'' इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।
'न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणि - प्रवेकनिष्काभरणाः सुवर्चसः ॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः'' ॥ इति हि भागवते ।
चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।
भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च ॥ इति परमश्रुतिः । न च जीवेश्वरैक्यं मुक्तावपि ।
'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च'' । (गीता, १४-२) 'यो वेद निहितं गुहायां परमे व्योमन् ।
सोश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता'' ।
'एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
इमान् लोकान् कामान्नी कामरूप्यनुसञ्जरन् ।
एतत्सामगायन्नास्ते'' ।
'सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय'' ।
'ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः'' ।
'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते'' 'स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा'' ।
'तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'' ।
'मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।
तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।
भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।
आजानेयाः कर्मदेवास्तत्त्व(रूपाः)देवाः पुरन्दरः ।
शिवो विरिञ्चिरित्येते क्रमाच्छतगुणोत्तराः ।
मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।
न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन ।
ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।
अनन्तगुणितत्वेन तत्समः परमोपि न'' ।
'अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्द्रो परिस्रव ।
इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः । न च 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्'' ।
'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति'' ।
'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते'' ।
'अविनाशित्वान्न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं यत्पश्येत्'' ।
'परमं ब्रह्म वेद ब्रह्मैव भवति'' ।
'तत् त्वमसि'' 'अहं ब्रह्मास्मि'' इत्यादिवाक्यविरोधः ।
'सञ्ज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनम् ।
मोहं मां प्रापयामास भवानत्रेति चोदितः ।
याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते ।
भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते ।
न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः ।
स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।
अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् ।
तदा घ्राणादिभोगः स्यात्स्वरूपज्ञानशक्तितः ।
तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च ।
यदान्यं न विजानाति नात्मानं नेश्वरं तथा ।
पुरुषार्थता कुतस्तु स्यात्तदभावाय को यतेत् तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः ।
भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।
यन्न पश्येत्परो विष्णुर्द्वितीयत्वेन स स्वतः ।
तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।
प्रधानपुरुषादन्यद्यत्तस्माद्भिन्नमीश्वरः ।
विभक्तत्वेन नियतं यस्मात्पश्यति सर्वदा ।
पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति ।
चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना ।
न हि ज्ञानविलोपोस्ति सर्वज्ञस्य परेशितुः ।
ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः प्रकृतिः परमं ब्रह्म परमं महदच्युतः नैव मुक्ता न प्रकृतिः क्वापि हि ब्रह्मवैभवम् ।
प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते ।
यद्यस्य परमेशि(श)त्वं तदा स्याद्दुःखिता कुतः ।
दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् ।
कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना ।
तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते ।
ओयत्वादहंनामा भगवान्हरिरव्ययः ।
ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः ।
असनादसिनामासौ तेजस्त्वात्त्वमितीरितः ।
सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि ।
सर्वैर्गुणपदैश्चैव वाच्य एको हरिः स्वयम् ।
युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः ।
अस्मत्पदैरान्तरत्वात्क्रियार्थैश्च तदन्वयैः ।
परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु ।
सर्वान्वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना श्वेतकेतुरहङ्कारात्प्रायशो नास्मि मानुषः ।
देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत् ।
एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात्पितुः ।
सकाशमकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।
पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता ।
प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।
यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत् ।
प्राधान्यात्सदृशत्वाच्च तदधीनमिति स्फुटम् ।
तत्सृष्टं चेति विज्ञातं फलवदि्ध भवेज्जगत् ।
स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।
यथाचैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः ।
मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।
यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् ।
वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि ।
एवं कारणभूतोसौ भगवान्पुरुषोत्तमः ।
प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् ।
तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् ।
स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् ।
तस्मात्तदीयस्त्वमसि नैव सोसि कथञ्चन ।
यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।
यथा नद्यः समुद्रश्च यथा वृक्षपरावपि ।
यथा धानाः परश्चैव यथैव लवणोदके ।
यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि ।
यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।
भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ।
एवं भेदोखिलस्यापि स्वतन्त्रात्परमेश्वरात् ।
परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् ।
स जीवनामा भगवान्प्राणधारणहेतुतः ।
उपचारेण जीवाख्या संसारिणि निगद्यते ।
तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः ।
विष्णोः प्रज्ञामितं यस्माद्द्वैतं न भ्रान्तिकल्पितम् ।
औतः परमार्थोसौ भगवान्विष्णुरव्ययः ।
परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।
सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता ।
इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।
अभावः परमद्वैते सन्त्येव ह्यपराणि तु ।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
औतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचिद्'' ।
इत्यादिश्रुतिभ्योर्थान्तरस्यैवावगतत्वात् । एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोसीति वा । तदिति लिङ्गसाम्यं चात्र । अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् ? अनुवादोपि 'यदिदं वदन्ति तन्न युज्यते'' इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ? सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् ।
'नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः'' ।
'अहं विश्वं भुवनमभ्यभवाम्'' ।
'अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति इति ब्रह्मविदो विदुः'' ।
'नमो विष्णवे महते करोमि'' । 'पश्यन्त्यात्मन्यवस्थितम्'' ।
इत्यादि । न चेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः । तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात्स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः । लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् । उपाधिकृतभेदेप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिद्ध्यत इति स एव दोषः । सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्यतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ॥ १८ ॥
Notes