अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
पूर्वसङ्गतत्वेनाध्यायार्थमाह -- सप्तमेति। ‘भगवन्माहात्म्यम्‘ इति शेषः। ‘पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानम्‘ इति सप्तमोक्तपदार्थानष्टमे व्याख्याय नवमे तद्वाक्यार्थं स्पष्टीकरोतीत्यर्थः। ‘राज्ञाम् = अश्वपतिजनकादीनां विद्या राजविद्या‘ इति कश्चित्? तदसत् ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाह -- राजेति। राजेव राजा। राजा चासौ विद्या चेति राजविद्येत्यर्थः। ‘प्रत्यक्षेणावगमो यस्य‘ इति व्याख्यानम् असत्। भगवन्माहात्म्यस्य शास्त्रैकसमधिगम्यत्वात्, अद्वैतोद्गारस्य प्रमाणविरुद्धत्वादिति भावेनाह -- प्रत्यक्षमिति। शास्त्रैकवेद्यं ब्रह्म कथं प्रत्यक्षं? इत्यत आह -- अक्षेष्विति। प्रत्यक्षः परमात्मा। प्रादिसमासोऽयं, नाव्ययीभाव इति ज्ञापनाय नपुंसके प्रकृतेऽपि पुँल्लिङ्गनिर्देशः। अन्यथा षष्ठी न श्रूयेत।
परमात्मनोऽक्षेषु स्थितत्वे किं मानं? इत्यत आह -- तथा चेति। ‘प्राणः‘ इति प्राणाभिमानिनी देवतोच्यते। प्राणादन्तरो भिन्नः। अङ्गुष्ठेति कर्मेन्द्रियाधिष्ठातृत्वमुच्यते। ‘मनः‘ इत्यादेर्मनआदिस्थ इत्यर्थः। प्रत्यक्षशब्दस्यायमर्थ इत्यत्र श्रुतिमाह -- स इति। प्रति स्थितः। अक्षवान् प्रशस्तेन्द्रियः। यो विद्वानेवं प्रत्यक्षशब्दार्थं वेद।
‘धर्मादनपेतं धर्म्यम्‘ इति निर्वचनेऽपि न प्रसिद्धधर्माविरुद्धत्वमर्थः। निवृत्तधर्मस्य ब्रह्मज्ञानाविरुद्धतायाः प्रसिद्धत्वात्, प्रवृत्तिलक्षणस्य तु तद्विरुद्धत्वादिति भावेनाह -- धर्म इति। तस्मादनपेतम् इति अस्यार्थः-तद्विषयमिति। कथं भगवान् धर्मः? इत्यत आह -- सर्वमिति। धृञो मन्प्रत्यय औणादिकः। धारके धर्मशब्दप्रवृत्तिः कुतः? इत्यत आह -- पृथिवीति। ‘पर्वतोपरि‘ इत्यर्थः। भगवतः सर्वधारकत्वे किं मानं? इत्यत आह -- भारभृदिति। सर्वत्र स्थितो भगवान् सर्वेण ध्रियते। स कथं सर्वस्य धारकः? इत्यत आह -- भर्तेति। भर्ता सन्नेव भ्रियमाणः, न स्वकीयस्थित्यै। धर्मशब्दस्य भगवद्वाचित्वं कुतः? इत्यत आह -- धर्मो वा इति। इदमग्रे अस्याग्रे। अत्र पुण्यं धर्मः किं न स्यात् इति शङ्कानिरासार्थं ‘सोऽध्यायात्‘ इति वाक्यशेषोदाहरणम्।
एवं तर्हि पुनरुक्तिः स्यात्? ‘ब्रह्मविषयं ज्ञानम्‘ इत्यस्य ‘ब्रह्मावगम्यते = विषयीक्रियतेऽनेन = ज्ञानेन‘ इत्यस्य च भेदाभावादित्यत आह -- प्रत्यक्षेति। नावगमशब्देन विषयीकरणमुच्यते, किन्तु अवगतिसाधनत्वम्। न च ज्ञानस्य तद्विरुद्धम्। परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः।
गीताभाष्यम्
हरिः ओम् ।
राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेषु इंद्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः । तथा च श्रुतिः- 'यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः'' ।
'यो विज्ञाने तिष्ठन्'' 'यश्चक्षुषि तिष्ठन्'' इत्यादेः ।
'य एषोन्तरक्षिणि पुरुषो दृश्यते'' इति च ।
'अङ्गुष्ठमात्रः पुरुषोङ्गुष्ठं च समाश्रितः'' इति च ।
'त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः'' इत्यादेश्च मोक्षधर्मे ।
'स प्रत्यक्षः । प्रति प्रति हि सोक्षेष्वक्षवान् स भवति हि य एवं विद्वान् प्रत्यक्षं वेद'' इति सामवेदे (वारुणशाखायाम्) बाभ्रव्यशाखायाम् ।
धर्मो भगवान् । तद्विषयं धर्म्यम् । सर्वं जगद् धत्त इति धर्मः । 'पृथिवी धर्ममूर्धनि'' इति प्रयोगान्मोक्षधर्मे । 'भारभृत् कथितो योगी'' इति च । 'भर्ता सन् भ्रियमाणो बिभर्ति'' इति च श्रुतिः । 'धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो नेन्द्रो न देवा न ऋषयः सोध्यायत्'' इति च सामवेदे बाभ्रव्यशाखायाम् ।
॥ १-३ ॥
गीतातात्पर्यम्
हरिः ओम् ।
Notes