अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
‘कर्मण एव मुक्तिसाधनत्वमुच्यते‘ इत्यन्यथाप्रतीतिनिरासाय ‘कर्मणैव हि‘ इत्यस्य तात्पर्यं तावदाह - आचारोऽपीति। ‘विहितस्य कर्मणः कर्तव्यतायां प्रमाणम्‘ इति शेषः। अपिः पूर्वोक्तहेतुसमुच्चये। कर्मण एव ‘मोक्षकारणत्वं तृतीययोच्यते‘ इतिप्रतीतिनिरासाय व्याचष्टे - कर्मणेति।
नन्वेवं सहयोगे तृतीयायां व्याख्यायमानायां जनकादयः कर्मणा सहैव मुक्तिमास्थिता इति वाक्यार्थः स्यात्। न चायं युक्तः। ‘पुत्रेण सहैवागतः पिता‘ इत्यत्र यथा पुत्रस्याप्यागमनान्वयः प्रतीयते तथा कर्मणोऽपि मुक्तिमास्थितत्वस्य प्रसङ्गादित्यत आह- कर्मेति।
यद्यपि श्रूयमाणक्रियायां सहयोगो नोपपद्यते तथाप्यध्याहृतावान्तरक्रियायामुपपद्यत एव। ततश्च यथा ‘सहैव दशभिः पुत्रैर्भारं वहति गर्दभी‘ इत्यत्र दशभिः पुत्रैः सहैव वर्तमानाऽप्येकैव भारं वहतीत्यर्थः तथाऽत्रापि कर्मणा सहैव वर्तमानाः कर्म कुर्वन्त एवेत्यर्थ उपपद्यत इति भावः। द्विधाऽपि सहयोगमभिप्रेत्य समासविधौ पाणिनिरविशेषमभाणीत् ‘तेन सहेति तुल्ययोगे‘ (अष्टा.पा.सू. 2.2.28) इति।
कर्मसाहित्यं च मुक्तावानन्दवृद्ध्यर्थमिति ज्ञातव्यम्। ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी‘ इति चेत्- सत्यम्। वक्ष्यमाणबाधात्तत्परिग्रहोपपत्तेः। अस्तु वा करणे तृतीया। तथापि ‘लाङ्गलेन वयं जीवामः‘ इतिवत्पारम्पर्येण कर्मणो मुक्तौ कारणत्वमित्याह - कर्मेति। सिद्धिमास्थिता इति वेत्यर्थः। सिद्धिशब्दो ज्ञानार्थः, ‘वा’ इत्यस्याप्युपलक्षणमेतत्।
यथाप्रतीतार्थः किं न स्यात्? इत्यत आह- न त्विति। ज्ञानं विना केवलेन कर्मणा जनकादयः सिद्धिं गता इत्यर्थस्तु नेत्यर्थः। कुतः? इत्यत आह-प्रसिद्धं हीति। हिशब्दो हेतौ। अस्तु तेषां ज्ञानित्वम्। मुक्तौ तु कर्मैव कारणमित्यत आह- तमेवमिति। अत्रापि गीतायामपि।‘कर्मजं बुद्धियुक्ता हि‘ (2.51) इत्यादावित्यर्थः।प्राग्ज्ञानात् ज्ञानसाधनं पश्चान्मुक्तिसाधनं इति समुच्चयवादिनां मतं, न तु केवलकर्मवादिनाम्। न चात्र प्रमाणमप्यस्ति।
ननु यथा मोक्षस्य ज्ञानसाध्यत्वे ‘तमेवम्‘ (तै.आ.3.12) इत्याद्यागमाः सन्ति, तथा कर्मसाध्यत्वेऽपि ‘अपामसोममृता अभूम्‘ (ऋ.8.48.11-3) इत्यादयो विद्यन्ते। तत्कथं निर्णयः? इत्यतः, सावकाशत्वनिरवकाशत्वबलादित्याह -गत्यन्तरं चेति। ज्ञानद्वारा इति व्याख्यानेऽपीत्यर्थः।
ननु कर्मवाक्यान्यपि ‘ब्रह्मज्ञानेन वा‘ इत्यादीनि निरवकाशानि सन्ति। तत्र ब्रह्मज्ञानसमानकक्ष्यतया तीर्थस्नानादेरुक्तत्वेनोक्तव्याख्यानायोगात्। अतः पुनरनिर्णय एवेत्याशङ्क्य तेषामपि सावकाशत्वमाह- यत्रेति। तीर्थादीति। तत्स्नानादीत्यर्थः। पापादिमुक्तिः मुक्तिशब्दार्थ इत्यर्थः। न च सर्वत्र मुक्तिशब्द एवास्ति। संसारमुक्तिरित्यादेरपि सम्भवात्। अतो गत्यन्तरमप्याह- स्तुतीति। प्रशस्तत्वोपलक्षणेत्यर्थः। प्रशस्तत्वसादृश्येन गौणी वा। दुष्टजनव्यामोहनार्थत्वस्याप्युपलक्षणमेतत्।
कुत एतत्कल्प्यते? इत्यत आह -तत्रापीति। यत्र तीर्थस्नानादिकं मुक्तिसाधनमुच्यते तत्रैव प्रस्तावे। साधनत्वं तीर्थस्नानादीनाम्। अन्यथा ज्ञानं विना। या मुक्तिः यन्मुक्तिसाधनत्वम्। वाक्यताविशेषात् ‘ब्रह्मज्ञानेन वा‘ इत्यादिभिरेव ‘ब्रह्मज्ञानं विना‘ इत्यादीनां बाधः किं न स्यात्? इत्यत आह- न चेति। असाधारणसाधारणप्रसङ्गोक्तत्वादिनेति भावः। अत्र दृष्टान्तमाह- यथेति। इत्यादीनि ‘ नायं राजा किन्तु भृत्य एव‘ इत्यादीनि तत्प्रस्तावेऽप्युक्तानि। ‘न निघ्नन्ति‘ इति शेषः।
आगमसिद्धा चेयं व्यवस्थेत्याह -यथेति। ‘मद्दृष्टेः‘ इत्येतदर्थप्रतिपत्त्यर्थं ‘भगवान्‘ इत्युक्तम्। तीर्थादिवाक्यानीति। तीर्थस्नानक्षेत्रवासादीनां मोक्षसाधनत्ववाक्यानीत्यर्थः। ‘कर्म‘ इति यज्ञादेर्ग्रहणम्। आदिपदेन ध्यानादेः सङ्ग्रहः। पूर्ववदर्थः। अज्ञानां सम्यग्ज्ञानायोग्यानाम्। उपसंहरति - अत इति।
गीताभाष्यम्
आचारोऽप्यस्तीत्याह - कर्मणैवेति। कर्मणा सह कर्म कुर्वन्त एवेत्यर्थः। कर्म कृत्वैव, ततो ज्ञानं प्राप्य वा।।
न तु ज्ञानं विना। प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु।
‘तमेवं विद्वानमृत इह भवति‘ (तै.आ.3.12) इत्यादिश्रुतिभ्यश्च।
अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च ‘बुद्धियुक्तः‘ इति।
गत्यन्तरं च ‘नान्यः पन्थाः‘ (तै.आ.3.12) इत्यस्त नास्ति। इतरेषां ज्ञानद्वाराऽप्यविरोधः।
यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते
‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा।
अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ‘
इत्यादौ तत्र पापादिमुक्तिः, स्तुतिपरता च।
तत्रापि हि कुत्रचिद्ब्रह्मज्ञानसाधनत्वमेवोच्यते। अन्यथा मुक्तिं निषिध्य
‘ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते।
प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि‘ इत्यादौ।
न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति। यथा कञ्चिद्दक्षं भृत्यं प्रत्युक्तानि ‘अयमेव हि राजा किं राज्ञा? ‘ इत्यादीनि। यथाऽऽह भगवान्
‘यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च।
स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा।।
भवेन्मोक्षस्तु मद्दृष्टेर्नान्यथा तु कथञ्चन‘ इति नारदीये।
अतोऽपरोक्षज्ञानादेव मोक्षः। कर्म तु तत्साधनमेव।
गीतातात्पर्यम्
हरिः ओम् ।
'सहैव कर्मणा सिदि्धमास्थिता जनकादयः ।
ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम्'' ॥ इति च ।
अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात् ।
अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ॥२० ॥
Notes