अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
ननु विज्ञाननिरूपणं प्रारभ्य ‘त्रिभिः‘ इत्यादिकं किमर्थमुच्यते? इत्यत आह- तर्हीति। ‘ये चैव‘ (7.12) इति विज्ञाननिरूपणोपसंहारवाक्ये सत्त्वादिगुणनिर्वृतानां भगवान्कारणमाश्रयश्च तदनाश्रयश्चेत्युक्तम्। तेनैव ‘गुणातीत‘ इति चोक्तप्रायम्। तस्यायमाक्षेपः। एवं ‘गुणातीततया सगुणश्च ज्ञायसे‘ इति शेषः। एवमनुपलम्भविपरीतोपलम्भाभ्यामुक्तमसदिति भावः।
विकारार्थतानिरासार्थमाह- तादात्म्येति। मयटस्तादात्म्यार्थत्वं कुतः? इत्यत आह- तच्चेति। तादात्म्ये प्रयोगं दर्शयितुमुपोद्धातमाह -न हीति। कार्यभूता इत्युपलक्षणम्। गुणप्राचुर्यादिकमपि तस्यां न सम्भवति। ततः किं? इत्यत आह- गुणेति। ‘दैवी ह्येषा गुणमयी मम माया‘ (7.14) इति मायाया गुणमयीत्वमुच्यते। न च तत्र विकाराद्यर्थता सम्भवति। ततः परिशेषतः तादात्म्यार्थता ग्राह्येत्यर्थः।
अस्तु मयटस्तादातम्ये शक्तिः। अत्र विकारार्थतां परित्यज्य तद्ग्रहणे को हेतुः? इति चेत् उच्यते विकारार्थताग्रहणे ‘मामेभ्यः परं‘ इत्यत्र गुणकार्येभ्य एव भगवतः परत्वमुक्तं स्यात् न तु गुणेभ्यः। अतस्तत्सङ्ग्रहाय तादात्म्यार्थताग्रहणम्। एवं तर्हि गुणेभ्य एव परत्वमुक्तं स्यात् न तु गुणकार्येभ्योऽपीति समानमित्यत आह- सिद्धं चेति। सिद्धं प्रमितम्। ततश्च गुणात्मकैः इत्युक्ते गुणानां तत्कार्याणां चोपादाने सति उभयपरत्वमुक्तं भवति।
कार्यधर्मादेरिति। कार्यद्रव्यस्योपादानेन गुणक्रियाजातिपूर्वाणां धर्माणां गुण्यादिभिरित्यर्थः। भावशब्दस्यानेकार्थत्वात् तस्य विवक्षितमर्थमाह- भावैरिति। एवं सति सर्वपरत्वलाभादिति भावः।
नन्वेवमप्येभिरिति पुरोवर्तिनामेव ग्रहणात् न सर्वपरत्वसिद्धिरित्यत आह- सर्व इति। प्रमितपरामर्शोऽयं न पुरोवर्तिमात्रस्येति भावः। जगन्मोहितम् इत्यलं किमिदमित्यनेन? इत्यत आह- ज्ञानीति। व्यवहारपतितमित्यर्थः। ननु भगवद्विषयस्य सगुणत्वमोहस्य कथं गुणात्मकाः पदार्थाः कारणं? इत्यत आह- गुणमयेति। ‘देहत्वादिहेतुना‘ इति शेषः। माया इति गुणमयानां ग्रहणम्। मोहितो जनः।
अत्र प्रमाणमाह- जगाद चेति। आदिपदेनेन्द्रियादिग्रहणम्। यदर्थं तादात्म्यार्थग्रहणं कृतं तदाह- एभ्य इति। ननु भगवतो गुणातीतत्वे प्रमिते तदर्थोऽयं श्रमः सफलः स्यात्। तदेव कुतः? इत्यत आह- गुणेभ्यश्चेति।
गीताभाष्यम्
हरिः ओम् ।
तर्हि कथमेवं न ज्ञायते इत्यत आह- त्रिभिरिति।
तादात्म्यार्थे मयट्। तच्चोक्तम् –
‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा‘ इति।
न हि गुणकार्यभूता माया। ‘गुणमयी‘ (7.14) इति च वक्ष्यति।
सिद्धं च कार्यस्यापि तादात्म्यम्।
‘तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः‘ इत्यादि व्यासयोगे। भावैः पदार्थैः।
सर्वे भावा दृश्यमाना गुणमया एत एवेति दर्शयति- एभिरिति। ज्ञानिव्यावृत्त्यर्थं इदं इति। गुणमयदेहादिकं दृष्ट्वेश्वरदेहोऽपि तादृश इति मायामोहित इत्यर्थः। जगाद च व्यासयोगे-
‘गौणान्ब्रह्मादिदेहादीन्दृष्ट्वा विष्णोरपीदृशः।
देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम्‘ इति। एभ्यो गुणमयेभ्यः। ‘गुणेभ्यश्च परं‘ (14.19) इति वक्ष्यमाणत्वात्।
‘केवलो निर्गुणश्च‘ (श्वे.उ.6.11) इत्यादि श्रुतिभ्यश्च ‘त्रैगुण्यवर्जितम्‘ इति चोक्तम्।
गीतातात्पर्यम्
हरिः ओम् ।
Notes