अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
ज्ञानसाधनादन्यदुत्तराध्यायप्रतिपाद्यं वक्तुं ‘योगे त्विमां शृणु‘ (2.39) इति प्रतिज्ञातमसमाप्य कथमर्थान्तरमुच्यते? इत्याशङ्कां तावत्परिहरति- साधनमिति। ‘ज्ञानस्य‘ इति शेषः। तत्र भगवन्महिम्नोऽपि वर्णितत्वेन ‘प्राधान्येन‘ इत्युक्तम्। प्राचुर्येणेत्यर्थः। ‘उक्तं‘ इत्यनेन प्रतिज्ञातसमाप्तिं सूचयति। तच्च प्रतिज्ञान्तरकरणादवगम्यते। इदानीमुत्तरग्रन्थप्रतिपाद्यमाह- उत्तरैस्त्विति। अध्यायैरिति वर्तते। अनेन ‘ज्ञानविज्ञानशब्दौ ज्ञेयभगवन्माहात्म्यपरौ‘ इति सूचितम्। अत्रापि क्वचित्साधनस्योक्तत्वात् ‘प्राधान्येन‘ इत्युक्तम्। सङ्गतिस्तु प्रथमश्लोक एवोक्ता। अनेन द्विविधेन योगेन यज्ज्ञातव्यं तच्छृण्वित्युक्तत्वात्।
आसक्तमनाः= सम्बद्धमनाः इति प्रतीतिनिरासायाह- आसक्तेति। ‘अतीव‘ इत्याङोऽर्थः। सम्बन्धमात्रस्य योगानङ्गत्वादिति भावः। भगवदाश्रयत्वं सर्वसाधारणं कथं योगिनो विशेषणम्? इत्यत आह- मदाश्रय इति। शरणं रक्षकः। इति स्थित इति जानन्निति यावत्। ‘असंशयं‘, ‘समग्रं‘ इत्युभयं भगवद्विशेषणत्वेन भास्करो व्याख्यातवान् ‘संशयरहितं समग्रं कृत्स्नं मां‘ इति। अपरस्तु ‘समग्रम्‘ इत्येव ‘समग्रम्= समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां संशयमन्तरेण‘ (शां.भा.7.1) इति तन्निरासार्थमाह- असंशयमिति तच्च समग्रं यथा भवति तथेत्यर्थः। न हि भगवतः संशयराहित्यमिदानीं वक्तव्यम्। न च भगवान्समग्रोऽन्येन केनचिच्छक्यो ज्ञातुम्। ‘स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं‘ (10.15) इति वक्ष्यमाणत्वादिति भावः।
गीताभाष्यम्
हरिः ओम् ।
साधनं प्राधान्येनोक्तमतीतैरध्यायैः। उत्तरैरस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह- मया इति। आसक्तमना अतीव स्नेहयुक्तमनाः। मदाश्रयः ‘ भगवानेव मया सर्वं कारयति , स एव मे शरणम् , तस्मिन्नेव चाहं स्थित ‘ इति स्थितः। ‘असंशयं‘, ‘समग्रम्‘ इति क्रियाविशेषणम्।
गीतातात्पर्यम्
हरिः ओम् ।
Notes