अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
चातुर्वर्ण्यमित्यस्य सङ्गतिं सूचयन् तात्पर्यमाह- अहमेव हीति। यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूताः तस्मात्स्वपितरं मां परित्यज्यान्यदेवता यजन्तः कथं महाफलभाजो भवेयुः? इत्याहेत्यर्थः।‘विचित्रा हि तद्धितगतिः’ इति वचनादतिरिक्तार्थसम्भवे ‘चतुर्वर्णादिभ्यः स्वार्थे उपसङ्ख्यानम् (वार्ति.7.1.3) इति नादरणीयमिति भावेनाह- चतुर्वर्णेति।
वर्णाश्चत्वारो गुणास्त्रयः। तत्कथं तेषु गुणविभागः? इत्यत आह- सात्त्विक इति। राजसस्थसात्त्विकेष्वेवायं विभाग इति ज्ञातव्यम्। निर्देशप्राथम्यात्क्षत्ित्रये रजसः सत्त्वमधिकम्। तत एव वैश्ये तमसो रजः। तच्च समत्वयुतम्। रजोपेक्षया तमोऽधिकं शूद्र इत्यसौ तामसः। सत्त्वं तु तमसोऽप्यधिकम्।
कर्मविभागः कीदृशः? इत्यत आह- कर्मेति। यदि चातुर्वर्ण्यं त्वया सृष्टं तर्हि कर्तृत्वात् जीववत्तवापि कर्मलेपः प्रसज्यत इत्यतः कर्मलेपाभावं वक्तुं हेतुस्तावदुच्यते-तस्य इति। तदेतद्व्याहतमित्यत आह- क्रियायामिति। कथं वैलक्षण्यम्? इत्यतः श्रुत्यैव दर्शयति- तथा हीति। विश्वकर्माऽपि विमनाः तत्राभिनिवेशरहित इत्यर्थः।
प्रकारान्तरेण वैलक्षण्यं पुराणेन दर्शयति- तनुरिति। क्रियाया मिथ्यात्वात्कर्ताऽप्यकर्तेति परव्याख्यां प्रत्याख्याति- साधितं चेति। एतत्क्रियायाः सत्यत्वम्। पुरस्तात् द्वितीये (गी.भा. 2.24)।
गीताभाष्यम्
हरिः ओम् ।
अहमेव हि कर्तेत्याह- चातुर्वर्ण्यमिति। चतुर्वर्णसमुदायः। सात्त्विको ब्राह्मणः। सात्त्विकराजसः क्षत्रियः। राजसतामसो वैश्यः। तामसः शूद्र इति गुणविभागः।
कर्मविभागस्तु ‘शमो दमः’ (18.42) इत्यादिना वक्ष्यते। क्रियायां वैलक्षण्यात्कर्ताऽप्यकर्ता। तथा हि श्रुतिः
विश्वकर्मा विमनाः (ऋ.सं.10.82.2) इत्यादि।
‘तनुर्विद्या क्रियाऽऽकृतिः’ (भाग.6.4.46) इति च। साधितं चैतत्पुरस्तात्।
गीतातात्पर्यम्
हरिः ओम् ।
'सत्वसत्वाधिकरजोरजोभिस्तमसा तथा ।
वर्णा विभक्ताश्चत्वारः सात्विका एव वैष्णवा'' इति च ।
कर्मविभागं शमो दम इत्यादिना वक्ष्यति ।
'वैष्णवाः सात्विका एव तामसा एव चापरे ।
दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता'' ॥ इति च ।
'स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।
योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।
विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् ।
आरभ्य हीयतेथापि भेदः स्वाभाविकस्ततः'' ॥ इति नारदीये ।
'कर्तापि भगवान्विष्णुरकर्तेति च कथ्यते ।
तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात्परात्मनः'' ॥ इति च ।
अपिशब्दो गुणसमुच्चयार्थः । कर्ता मे नास्तीत्यपि विद्धीति ॥१३ ॥
Notes