अर्जुनः वदति - हे कृष्ण, युयुत्सुं समुपस्थितं इमं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति मम मुखं च परिशुष्यति च। मे शरीरे वेपय़ुः रोमहर्षश्च जायते ।।१.२८-२९।।
अर्जुन ने ऐसा कहा - हे श्रीकृष्ण, युद्ध करने के लिये उपस्थित मेरे सम्बन्धियों को देख कर मेरे शरीर के अवयव शिथिल होने लगे है । मेरे मुख सूख रहा हौ । मेरे शरीर कांप रहा है और मै रोमांचित् होरहा हू ।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಶ್ರೀಕೃಷ್ಣನೇ, ಯುದ್ಧಕ್ಕಾಗಿ ನಿಂತಿರುವ ನನ್ನ ಬಂಧುಗಳನ್ನು ನೋಡಿ ನನ್ನ ಶರೀರಾವಯವಗಳು ಶಿಥಿಲವಾಗುತ್ತಿವೆ. ನನ್ನ ಮುಖವು ಒಣಗುತ್ತಿದೆ. ನನ್ನು ಶರೀರವು ನಡಗುತ್ತಿದೆ. ನನಗೆ ರೋಮಾಂಚವಾಗುತ್ತಿದೆ.
అర్జునుడిట్లనె - కృష్ణా, యుద్ధమునకౌ సన్నద్ధులైన నా బాంధవులను జూసి నా శరీరావయవాలు శిథిలమౌచున్నవి. నా ముఖము శుష్కమౌచున్నది. నా శరీరము వణకుచున్నది. నాకు రోమాంచము కలుగుచున్నది.
Tamil
Arjuna said - O Krishna, looking at my own kith and kin who are here to fight, my body is becoming weak. My face is becoming dry. My body is shivering and experiencing horripilation.
गीताविवृतिः
हरिः ओम् । विषीदन् विषादं कुर्वन् । विषादो नाम मोहनिमित्तकात् शोकाद्यन्मनोदौर्बल्यं यस्मिन्सति सर्वव्यापारोपरमो भवति स इति ज्ञेयम् । इदमब्रवीत् इत्युक्तमर्जुनवाक्यमाह – दृष्ट्वेत्यादिना आध्यायसमाप्ति ।। हे कृष्ण सकललोककर्षक । तदुक्तं गीताभाष्ये पञ्चमेध्याये । नियमादिना सकललोककर्षणात् कृष्णः। तच्चोक्तं यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः इति महाकौर्मे इत्युक्तेः । युयत्सुं योद्धुमिच्छन्तं सम्यगवस्थितमिदं बन्धुजनं दृष्ट्वा मम गात्राणि हस्ताद्यवयवाः सीदन्ति विशीर्यन्ते । षद्लृ विशरणगत्यवसादनेषु इति धातोः । मुखे म्लानता च जायते | शरीरे कम्पो रोमाञ्चश्च जायते ।।28-29।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes