सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
हरिः ओम् । 'ततः किं जातम्' इति धार्तराष्टृस्यापेक्षायां सञ्जय उवाच - तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं अर्जुनं भगवानुवाच 'कुतः' इत्यादि द्वाभ्यां श्लोकाभ्याम् ।।१।।
प्रमेयदीपिका
हरिः ओम् ।
तयाऽपहृतेत्यादेरप्रतीतिनिरासायार्थमाह तेषा मिति। तेषां बुद्धिर्मनोवृत्तिर्व्यवसायात्मिका सम्यग्युक्तिनिर्णयात्मिका न भवति। तत एवेश्वरे सम्यक्समाधानार्थं न विधीयत इत्यर्थः। सम्यग्युक्तिनिर्णयात्मकत्वाभावे कुतः समाध्यभावः इत्यत आह सम्यगि ति। अनेन समाधिशब्दार्थोऽपि विवृतो भवति। किमीश्वरे मनस्समाधानेन येन तदभावे निन्दा स्यात् इत्यत आह तद्धी ति। मोक्षाभावश्च महानिन्देति। वक्ष्यति। सम्यङ्निर्णीतार्थानामित्युक्तम्। न केवलमानुभाविकं किन्तु पुराणेप्युक्तमित्याह उक्तं चे ति। वरीयसीः वरीयस्यः।सुपां सुलुक् अष्टा.7।1।39 इत्यादिना जसः पूर्वसवर्णः। वाचो वेदवाचः। स्वप्ने निरुक्त्या स्वप्नप्रतीतार्थदृष्टान्तेन हेयानुमितं हेयत्वेनानुमितम्। इदमेव हि सम्यङ्निर्णीतार्थत्वम्। यद्धेयोपादेयविवेकेन हेयहानमुपादेयोपादानं च तद्धि मोक्षसाधनमित्येतत्तु श्रुत्यादिप्रसिद्धमेव।
गीताभाष्यम्
हरिः ओम् ।।
तेषां सम्यण्युक्तिनिर्णयात्मिका बुद्धिः समाधौ समाध्यर्थे न विधीयते। सम्यङ्निर्णीतार्थानामीश्वरे मनस्समाधानं सम्यग्भवति। तद्धि मोक्षसाधनम्। उक्तं चैतदन्यत्र न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् भाग.5।11।3।
गीतातात्पर्यम्
हरिः ओम् ।
अव्यवसायबुदि्धः केषाम् ? यां वाचमविपश्चितः प्रवदन्ति । तयापहृतचेतसाम् । बुदि्धर्व्यवसायात्मकत्वेन समाधानेन वर्तते ।
'यथावस्तु यथा ज्ञानं तत्साम्यात्सममीरितम् ।
विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।
न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् ।
स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।
न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् ।
फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।
भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् ।
बहुसंसारफलदामन्ते तमसि पातिनीम् ।
यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः ।
तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत्'' ॥ इति च ।
'इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति'' ॥ इति च आथर्वणश्रुतिः ।
'वेदवादरतो न स्यान्न पाषण्डी न हैतुकी'' ॥ इति हि भागवते ।
'ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।
जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।
निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः ।
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ।
यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।
विशेष एव तेषां तु तदन्येषां विपर्ययः ।
ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।
बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।
यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च ।
तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः'' ॥ इति नारदीये ।
॥ ४२-४४ ॥
Notes