सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
पूर्वत्र पुराणपदेन जीवस्य देहाद्देहान्तरप्राप्तिरुक्ता । सा तु देहान्यनित्यजीवस्य स्वत एव युक्ता । कौमारं यौवनं दरा इत्यत्र देहात्मकविवेकोक्तावपि कौमारादिदेहानां अतिभिन्नत्वाभावान्न तेन देहात्मनोर्विनाशित्वाविनाशित्वलक्षणो विवेकः स्फुटमनिभवारूढो भवतीत्यतो दृष्टान्तान्तरेण तमुपपादयति – वासांसीति । यद्वा ईश्वरस्य देहतः स्वरूपतश्च नित्यत्वेन तद्विषये शोकाभावेपि जीवविषये तु स भविष्यति। जीवो नित्यः तद्देहवियोगौ कौमारादिदेहवदेवेत्युक्तावपि सर्वलोकप्रसिद्धजनिमृतिसत्वात् युद्धे च तत्प्राप्तेः तन्निमित्तः शोक इत्यत आह वासींसीति । शरीरयोगवियोगयोः कौमारादिवत् शोककरणत्वाभावोङ्गीकृतश्चेत्तर्हि जनिमृती अपि न शोककारणम् । देहयोगवियोगयोरेव जनिमृतिशब्दार्थत्वादिति भावः । यद्वा वाससो जरावत् स्वशरीरे जरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं जीवस्य ज्ञेयमित्यनोच्यते । श्लोकार्थस्तु व्यक्तः ।।22।।
प्रमेयदीपिका
हरिः ओम् ।
देहानामुपगमापगमयोरप्येक एवायमात्मेत्येतत्देहिनोऽस्मिन् 2।13 इत्यत्रैव सदृष्टान्तमुक्तं अतोवासांसि इति व्यर्थोऽयं श्लोक इत्यत आह देहे ति। कौमारादिदेहानामनतिभिन्नत्वान्न तेन देहात्मनो र्विवेको विनाशित्वाविनाशित्वलक्षणः स्पष्टमनुभवारूढो भवतीति भावः। दृष्टान्तं पूर्वोक्ताद्विलक्षणमिति शेषः। दृष्टान्तमित्युपलक्षणं दार्ष्टान्तिकस्यापि कथितत्वात्।
गीताभाष्यम्
हरिः ओम् ।।
देहात्मविवेकानुभवार्थं दृष्टान्तमाह वासांसीति।
गीतातात्पर्यम्
हरिः ओम् ।
जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह । वासांसीति ॥ २२ ॥
Notes