श्रीकृष्णः वदति । जातु अहं न नासम् । न त्वं नासीः । इमे जनाधिपाः न नासन् । वयं सर्वे अतः परं न चैव भविष्यामः इति न - इति ।।
श्रीकृष्ण कहते है - कदाचित् मै नही रहा ऐसा नही । तुम् कदाचित् नहि रहे ऐसा नही । इन जनाधिप भी न रहे ऐसा नही । हम सब भविष्य काल मे नही रहेंगे ऐसा नही ।।
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ನಾನು . ಈ ಹಿಂದೆ ಇರಲಿಲ್ಲ ಅಂತ ಅಲ್ಲ. ನೀನು ಇರಲಿಲ್ಲ ಎಂದಲ್ಲ. ಈ ರಾಜರೆಲ್ಲರೂ ಹಿಂದೆ ಇರಲಿಲ್ಲ ಎಂದಲ್ಲ. ನಾವೆಲ್ಲರೂ ಮುಂದೆ ಇರುವುದಿಲ್ಲ ಎಂದೂ ಇಲ್ಲ.
శ్రీకృష్ణుడిట్లనె - నేను వెనుకటికి లేకుండలేదు. నీవునూ లేని కాలము లేదు. ఈ రాజులందరూ కూడా వెనుకటికి లెేరని లేదు. భవిష్యత్తులో మనమందరమూ ఉండమనికూడా లేదు.
Tamil
Sri Krishna said- I was always present in the past. You were also present. All these kings were also there. We will continue to be there in future as well.
गीताविवृतिः
हरिः ओम् ।
जातु कदापि अहं न नासं नासमिति न । किं त्वासमेव । त्वं न नासीः । विपरिणैमेन क्रियापदान्वयः । अपि त्वासीरेव । इमे जनाधिपाश्च न नासन् आसन्नेव । अहं यूयं च वयं च सर्वे एव अतः परं अनन्तरकाले न न भविष्यामः किन्तु भविष्याम एव । अत्र पूर्वोत्तरार्धाभ्यां कालद्वयसम्बन्धोक्त्या अनादित्वं नित्यत्वं चोक्तम् । वर्तमानकालसम्बन्धस्तु स्फुटत्वान्नोक्तः । द्वौ नञौ प्रकृतमर्थं सातिशयेन गमयतः इति न्यायेन नञ्द्वयप्रयोगादेव अवधारणसिद्धौ पुनस्तदुक्तिः नित्यो नित्यानां (काठक 2-5-13)
स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।
इष्यते ह्येव जीवस्य मुक्तेर्नतु हरेः क्वचित् ।। (स्कान्द.पु)
इति श्रुतस्मृतिप्रसिद्धद्योतनार्था । चशब्दोनादित्वेन सह नित्यत्वस्य समुच्चयार्थः । तु शब्दस्तु स्मृत्युक्तदिशा ईश्वरस्येतरेषामेव देहतोप्युत्पत्तिनाशौ नेति विशेषार्थः । तदाह असम्भवस्तु सतोमुपपत्तेः (2-3-9) । नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः (2-3-17) इति सूत्राभ्याम् । तत्राणुभाष्यमपि सोनुत्पत्तिलय इति । ये तु कृष्णस्येश्वरत्वं अनादित्वं च न जानन्ति तान् प्रति यथाश्रुतैवोक्तयोजना । ये तु तद्ज्ञात्वा जीवानादिनित्यतामेव न जानन्ति तान् प्रति तु यथैवम्पदयोरध्याहारेण दृष्टान्तदार्ष्टान्तिकभावेन यथाहं न नासम् अनादितोवर्ते, एवं त्वमेते च सर्वे यूयं न नासुः अनादितो वर्तध्वमिति । अत्रैतौ प्रयोगावभिमतौ – कृष्णत्वादिचेतनाः न नाशवन्तः भावत्वे सत्यानिदित्वात् नासत इति श्लोके वक्ष्यमाणप्रकृत्यादिवदिति । द्वितीययोजनायां तु – त्वदादयो जनाधिपा न नाशवन्तः चेनत्वे सत्यनादित्वात् कृष्णवत् इति । स्वरूपासिद्धस्तु निरसिष्यते । न च साधनवैकल्यम् । नित्यो नित्यानामिति श्रुतेः । तत्र अनादित्वस्याप्युपलक्षणात् । एवं चेवमनादिनित्या जीवा कथं नाम शोच्या अनादिनित्यजीवानां नाशभीत्या न योत्स्य इत्यादित्वदीया वादा कथं नाम प्राज्ञमतविरुद्धा न भवेयुरिति भावः ।।12।।
प्रमेयदीपिका
हरिः ओम् ।
किमिति । कस्मात्कारणात्पण्डिता अप्यगतासूनिव गतासूनासन्नविनाशान्नानुशोचन्तीति शेषः। अत्र ‘नित्यत्वात्‘ इत्युत्तरम्। ‘कुतो नित्यत्वम्‘? इत्यत आहेति वाक्यं चाध्याहार्थम्। ‘न त्वेवाहम्‘ इत्यतः परम् ‘इति‘ शब्दश्च। अर्जुनं निमित्तीकृत्य प्राप्तलोकोपकारार्थं हि भगवतोपदेशः क्रियते। तत्र ये भगवतः कृष्णस्येश्वरत्वं नित्यत्वं च न जानन्ति तान् प्रति यथाश्रुतैव योजना। दृष्टान्तस्तूत्तरत्र भविष्यति। ये तु तज्ज्ञात्वा जीवनित्यत्वमेव न जानन्ति तान्प्रत्यन्यथा योज्यमित्याह- ईश्वरे ति। अप्रस्तुतत्वादनाशङ्कितत्वाद्दृष्टान्तत्वेनाह। जीवनित्यतायां साध्यायामीश्वरमिति शेषः। अत एव कृष्णेत्यनुक्त्वेश्वरेत्युक्तम्।
नन्वीश्वरनित्यत्वं कुतः सिद्धं? पूर्वार्द्धे वाक्यत्रयसद्भावात् कथञ्चिद्योजनासम्भवेऽपि उत्तरार्द्धस्यैकवाक्यत्वात्कथं योजना? इत्यत आह- यथे ति। वेदान्ता उपनिषदः। सिद्धस्यार्थस्य साध्यत्वेन निर्देशो दोषायेति सामर्थ्यात् ‘यथा‘ ‘एवं‘ शब्दाध्याहारेण, वाक्यभेदेन च योज्यमिति भावः।
ननु वेदान्तैरीश्वरनित्यत्वं जानन्तस्तत्रैवोक्तं जीवनित्यत्वं कथं न जानन्ति? उच्यते। नित्यो नित्यानां (कठो.5.13) इत्यादौ निर्धारणसामर्थ्याज्जीवानां नित्यत्वम्, इश्वरस्य च परमनित्यत्वमवगम्य मन्दाः प्रतिपद्यन्ते। नित्यत्वं हि विनाशाभावः। न चाभावस्तारतम्यवान्। अत ईश्वर एव नित्यः जीवेषु तूपचार इति। तान्प्रत्यनुमानेन जीवनित्यत्वं ईश्वरदृष्टान्तेन साध्यते। तत्र ‘न त्वेवाहं जातु नासं‘ इति दृष्टान्तेनानादित्वं साधनमनुवदति। ‘न त्वम्‘ इत्यादिना तस्य पक्षधर्मतामाह। ‘नचैव‘ इत्यादिना दृष्टान्ते पक्षे च साध्याभिधानमिति।।
अत्र भगवता जीवानां परस्परमीश्वराच्च भेदे प्रतिपादितेऽपि बहुवचनं शरीरापेक्षयेति वदतो भविष्यत्युत्तरम्।
गीताभाष्यम्
हरिः ओम् ।।किमिति। न त्वेवाहम्। ईश्वरनित्यत्वस्याप्रस्तुतत्वाद्दृष्टान्तत्वेनाह न त्वेवेति। यथाऽहं नित्यः सर्ववेदान्तेषु प्रसिद्धः एवं त्वमेते जनाधिपाश्च नित्याः।
गीतातात्पर्यम्
हरिः ओम् ।
बन्धुस्नेहादि्ध त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात्? देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोस्ति । एवमेव तवान्येषां च ।
'नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान्'' ॥ इत्यादिश्रुतेः ।
'स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।
इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्'' ॥ इति स्कान्दे ।
ईश्वरस्यापि युद्धगतत्वान्मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते न त्वेवाहमिति । यद्यप्येषा शङ्कार्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ॥१२ ॥
Notes