श्रीकृष्णः उवाच - हे पुरुषर्षभ, एते हि यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति सः अमृतत्वाय कल्पते ।।
श्रीकृष्ण कहते है - हे पुरुषशेष्ठ अर्जुन, ये सुखदुःख जिस पुरुष को व्यथा न करेंगे वह अमृतत्व को प्राप्त हो जाता है ।
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ಯಾವ ಪುರುಷನನ್ನು ಈ ಸುಖದುಃಖಾದಿಗಳು ಪೀಡಿಸುವುದಿಲ್ಲವೋ ಅವನು ಅಮೃತನಾಗುತ್ತಾನೆ.
అయితే యుద్ధాలు లేకుండా అభిమానత్యాగమును చేయవొచ్చు కదా అంటే, ఎటువంటి పురుశుని సుఖదుఃఖాలు వికారం చేయవో, అటువంటి (యుద్ధమును చేసి సుఖదుఃఖములు ఒచ్చినా వాటిని సమానముగా పరిగణించు) పురుషుడే మోక్షానికి సమర్థుడు.
Tamil
Sri Krishna said - Only the brave who is not inflicted by such pains and sorrows qualifies for liberation.
ननु दुःखाभावस्य युद्धाकरणेपि सम्भवात् कि तत्कृत्वा दुःखाभावायाभिमानत्यागेनेत्याशङ्क्य देहाद्यभिमानत्यागेन भवन् दुःखाभावः स्वयं फलरूपोपि परमपुमपर्थहेतुश्च भवतीत्याह यं हीति । हे पुरुषर्षभ पुरुषश्रेष्ठ पार्थ । एते मात्रास्पर्शाः विषयेन्द्रियसन्निकर्षाः पुरुषं पुरं देहॆ सरति गच्छति सृ गतौ प्रत्यक्षतो जानाति । उपपदान्तस्योकारः । सरतेर्डप्रत्ययः । षत्वम् । शरीरदर्शनवन्तम् । यद्वा , पुरु पूर्णं ब्रह्म । तत्सर्त्वगच्छति ब्रह्मज्ञानी, तम् । धीरं सुखे दुःखे च प्राप्ते सति तत्कार्ययोरुत्सेकविषादयोः स्तम्भकप्रत्ययवन्तं , अत एव समदुःसुखम् । अनुपादेयत्वेन धर्मेण , दुःखेन समं सुखं यस्य स तथा , तम् । दुःखं यथापुमर्थत्वहेतुनानुपादेयं तथा वैषयिकं सुखमपि अमृतत्विरोधात् अनुपादेयं यस्य स समदुःखसुखः । दुःखसमं सुखमिति यावत् । अथ एव यं अभिमानहीनं जीवं , स्त्रीजनं पुंजनं वा न व्यथयन्ति न चालयन्ति सुखदुःखकृतोच्चत्वनीचत्वलक्षणविकारं न प्रापयन्ति सोधिकारी अमृतत्वाय मुक्तये कल्पते समर्थो भवति । अत्र धीरमितिसमदुःखसुखत्वे हेतुः । तच्चाभिमानत्यागे हेतुः । समदुःसुखो जीवः सुखहेतुषु शोभनाध्यासलक्षणाभिमानवान्स्त्वद्विरोधेषु द्वेषरूपाभिमानवांश्च कथं भवेदिति । सुप्त्यादौ पामराणामपि अभिमानाभावेन व्यथाभावादमृतत्वप्रसक्तिरिति शङ्काव्यावृत्तये पुरुषं शरीरदर्शनवन्तं इत्युक्तं । तथा व्यथाभावमात्रेण कथममृतत्वं तमेवं विद्वान् इत्आदि श्रुतिविरोधादित्यपि शङ्कापनुत्तये पुरुषं पुरुषं ब्रङ्मज्ञानिनमित्युक्तम् । पुरु ब्रह्म गुणाधिक्यात् तज्ज्ञानात् पुरुषः स्मृतः इत्युक्तेः । अत्र नरहरितीर्थीये ब्रह्मा निरभिमानित्वात् इति स्मृतिं उदाहृत्य चतुर्मुखाद्यन्येषां अतिव्यथाराहित्यमेव निङ्गभङ्गात् प्राग्देहाद्यभिमानाभावादित्युक्तम् ।।15।।
प्रमेयदीपिका
हरिः ओम् ।
अतो मात्रास्पर्शानां विफलीकरणतो भवत्प्रयोजनमाह अत इति। दुःखाभावस्य युद्धाकरणेनैव सम्भवात्किं तत्कृत्वा प्रसक्तदुःखाभावायाभिमानत्यागेनेत्येतदाशङ्कापरिहारायेति शेषः। पूर्वश्लोके तितिक्षस्वेतिपदं सहस्वेति कैश्चिद्व्याख्यातम् तदसत्। तदनुवादे विफलीकरणस्यैव प्रतीतेरिति भावेनाद्यपादं व्याख्याति यमि ति। न व्यथयन्ति न चालयन्ति न शीतोष्णसुखदुःखलक्षणवैषम्यवन्तं कुर्वन्तीत्यर्थः। स्त्रीणामप्येवंविधानां मैत्रेयीप्रमुखानाममृतत्वश्रवणात्पुरुषमिति विशेषणमयुक्तमित्यतोऽन्यथा व्याचष्टे पुरी ति शरीरसबन्धिनमेव सन्तं शरीरदर्शनवन्तमित्यर्थः। एतदपि किमर्थं विशेषणमित्यत आह शरीरे ति। सुप्त्यादौ सर्वेषां प्राकृतानामप्यभिमानाभावेन व्यथाभावादमृतत्वप्रसक्तिरित्याशङ्कानिवृत्त्यर्थमित्यर्थः। ननु यस्य देहादावभिमानो नास्ति तस्य दुःखं सुखं च नास्तीत्युक्तं तस्य कथंसमदुःखसुखं धीरं इति विशेषणद्वयम् अस्य पूर्वकक्ष्यागतत्वादित्याशङ्क्य तदुपायप्रदर्शनार्थं पूर्वावस्थानुवादोऽयमिति क्रमेण पृच्छापूर्वकमाशयमाह कथमि ति। येनाभिमानत्यागेन मात्रास्पर्शा न व्यथयन्ति स कथं केनोपायेन भवतीत्यर्थः। दुःखं यथानुपादेयमपुरुषार्थत्वात् तथा वैषयिकं सुखमप्यमृतत्वविरोधित्वादनुपादेयं यस्य स समदुःखसुखः। एवम्भावे च कथं सुखहेतुषु शोभनाध्यासलक्षणस्तद्विरोधिषु द्वेषलक्षणोऽभिमान स्यादिति भावः। तत्समदुःखसुखत्वमेव कथं केनोपायेन भवतीत्यर्थः धैर्येणे ति सुखे दुःखे च प्राप्ते सति तत्कार्ययोरुत्सेकविषादयोः स्तम्भकेन प्रयत्नेनेत्यर्थः।
गीताभाष्यम्
हरिः ओम् ।।
अतः प्रयोजनमाह यं हीति। यमेते मात्रास्पर्शा न व्यथयन्ति। पुरिशयमेव सन्तं शरीरसम्बधाभावे सर्वेषां व्यथाभावात्पुरुषमिति विशेषणम्। कथं न व्यथयन्ति समदुःखसुखत्वात् तत्कथं धैर्येण।
गीतातात्पर्यम्
हरिः ओम् ।
फलमाह । यं हीति । न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् ।
'पुरु ब्रह्म गुणाधिक्यात् तज्ज्ञानात्पुरुषः स्मृतः'' । इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ॥१५ ॥
Notes