संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
దుష్కర్మములను చేస్తే సుఖము లేదు .సత్కర్మములను చేస్తే దుఃఖము సంభవించదు. అందుకు యుద్ధము భగవంతుడి ద్వేషులైన అసురాదుల సంహారరూపము కాబట్టి అది సత్కర్మము. అది చేస్తే నరకాదులు రావు. దీని విషయములో సదాచారము ప్రమాణము అని తత్వవేత్తలు నిర్ణయించినారు.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
ननु पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः इत्यादिना बन्धुहननरूपयुद्धात् परलोकदुःखं शोकहेतुतयोक्तम् । अथः शोक इत्यत आह नासत इति । अत्र सदसच्छब्दौ साध्वसाधुकर्मपरौ । भावाभावशब्दौ सुखदुःखवाचकौ ।
सद्भावे साधुभावे च सदित्येतत्प्रकीर्त्यते ।
प्रशस्ते कर्मणि तथा ........ इत्यादे ।
सद्भाववाचिनः शब्दा सर्वे ते सुखवाचिनः इत्यादेः ।
असतो दुष्कर्मणः सकाशात् भावः सुखं नास्ति यथेति दृष्टान्ततया अश्योपयोगः । सतः साधुकर्मण- सकाशादभावो दुःखं नास्ति । एतच्च युद्धं नारायणद्विट्तदनुबन्धिनिग्रहरूपत्वेन सत्करमत्वात् न परलोकदुःखहेतुः । प्रत्युत सुखहेतुरेवेति भावः । किमत्र प्रमाणमित्यत आह – उभयोरपीति । अन्तो निर्णयः पूर्वार्धोक्तार्थस्य अवधारणम् । अन्यदर्शनस्यान्यान् प्रत्यप्रत्यायकत्वात्, दर्शनमूलः सम्प्रदायोत्र लक्ष्यते । उभयोरप्यनयोः सदसत्कर्मणोः दुःखसुखे यथाक्रमं न विद्येते इत्यर्थयोरपि तत्वदर्शिभिः अन्तस्तु सम्प्रदायस्तु प्रमाणतया दृष्ट इति वा, दृष्टस्तु दृष्ट एवेति वा, तु शब्दान्वयः । सत्कर्मणो दुःखं नास्ति, असत्कर्मणः सुखं वा नास्तीत्यनयोः अऱ्थयोः निर्णायकोपदेशपरम्परारूपसम्प्रदायो माहात्मभिर्दृष्ट एवेत्यर्थः । ननु अनादित्वहेतुनाहमपि पक्षे निक्षिप्य नित्यत्वेनानुमात्वय इति यदुक्तं त्वया स त्वयुक्तः पक्षः । दृष्टान्ताभावेन व्याप्तिग्रहासम्भवात् । अन्यस्यादिनित्यस्य मानाभावेनाभावादित्यतोन्यदपि अनादिनित्यमेतदप्यनेनोच्यते नासत इति । असतः कारणस्य प्रकृतेः अभावः प्रागभावः प्रध्वंसश्च न विद्यते नास्ति । तथा सतो ब्रह्मणश्चाभावो द्विरूपोभावः न विद्यते । अत्रासतः सतश्चाभावो न विद्यत इत्येकवाक्ये सम्भवति वाक्यद्वयग्रहणं प्रागुक्तानादित्वानुमाने व्याप्तिसद्भावे आदरसूचनार्थं । अत एवाग्रेविनाशि त्वित्यादिना व्याप्तिग्रहणस्थलमनेकं दर्शयति । अत्र व्याप्तिस्थलप्रदर्शनार्थं नासतो विद्यते भाव इत्येतावदेव वाच्यम् । तथापि प्रागुक्तद्वितीयप्रयोगे कृष्णो दृष्टान्तितः । तत्र साध्यसाधनानुगतिसूचनाय नाभावो विद्यते सतः इत्यप्युक्तिः । तथा च द्वितीयप्रयोगेपि व्याप्तिः सुदृठा । नन्वस्यानादिनित्यत्वेपि माना (भावात्) भाव इत्युक्तमित्यत आह उभयोपरीति । सदसतोरनादिनित्ययोरन्तस्तु निर्णयोभूतपरम्परोपदेशलक्षणसम्प्रदायस्तु इत्यर्थः । तत्वदर्शिभिर्दृष्ट इत्यर्थः । नरहरितीर्थास्तु तत्वदर्शिभिपरीत्यपिपदं भिन्नक्रममुपेत्य प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तमः इत्यागमोत्रार्थे मानत्वेन समुच्चीयत इत्याहुः ।।16।।
प्रमेयदीपिका
हरिः ओम् ।
न त्वेवाहं 2।12 इत्यत्र भगवान् कृष्णोऽपि यं प्रति पक्षे निक्षिप्तः स आक्षेप्तुं प्रसक्तिं दर्शयति नित्य इति। उक्तमनादित्वेन हेतुनाऽनुमितम्। ततः किमित्यत आह कि मिति। अनादिश्चेत्यपि ग्राह्यम्। आद्ये दृष्टान्ताभावेन व्याप्तिग्रहासम्भवः। द्वितीयस्त्वप्रामाणिकत्वादशक्योपन्यास इति पूर्वपक्ष्यभिप्रायः। विदिताभिप्रायः सिद्धान्ती किमृजावन्वये सम्भवति वक्रेण व्यतिरेकेणेति मन्यमानो द्वितीयपक्षमुपादत्ते अन्यदपी ति। उक्ताभिप्रायेण पृच्छति तदि ति। इति शङ्कायामिति शेषः। दुर्गमार्थत्वात्पूर्वार्धं व्याचष्टे असत इति। कारणस्य प्रकृतेः। अभावः प्रागभावः प्रध्वंसश्च। कुत एतदित्यतो भाष्यकारस्तावत्प्रमाणमाह प्रकृतिरि ति। पुरुषः परमात्मा ब्रह्मशब्दोक्तः। अनादित्वेऽप्येवमागमो ज्ञेयः। ननु असतः सतश्चाभावो न विद्यत इत्येकेनैव वाक्येन द्वयोरभावप्रतिषेधे कर्तुं शक्ये किमेवं पृथक्प्रतिषेधेनेत्यत आह पृथगि ति। विद्यत इति वाक्यद्वयग्रहणम् असतो भावो न विद्यते सतश्चाभावो न विद्यते इति द्वयोः पृथगभावप्रतिषेध आदरार्थ इति योज्यम्। आदरश्चानुमानव्याप्तिसद्भावे। अतएवानेकदृष्टान्तप्रदर्शनम्। ननु सतो ब्रह्मण इत्यस्तु असतः कारणस्येति तु कथमिति अत आह असत इति। असच्छब्दार्थस्य कारणत्वं च भागवते प्रसिद्धमित्यर्थः। असतोऽसच्छब्दस्य कारणत्वं कारणार्थत्वमिति वा। सदसद्रूपया कार्यकारणरूपया। असत इति श्रुतेरनेकार्थत्वादत्रोदाहरणम्। कारणस्याव्यक्तेश्च असच्छब्दार्थत्वम्। गत्यर्थस्य सदेः कर्मणि क्विबन्तस्य हि सदिति रूपम्।असदव्यक्तरूपत्वात्कारणं चापि शब्दितम् इति वचनात्। अत्रार्थे भगवता प्रमाणमुच्यते उभयोरपी ति। तदसत्। अन्यदर्शनस्यान्यान्प्रत्यप्रत्यायकत्वात् इत्याशङ्क्य दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयाऽत्र प्रमाणत्वेनोच्यत इत्याह सम्प्रदायतश्चे ति। चशब्दो भाष्यकारोदितप्रमाणसमुच्चये। आगमो ग्रन्थनिबद्धं वाक्यं सम्प्रदायस्तु उपदेशपरम्परामात्रमिति भेदः। एतत्प्रकृतिपुरुषयोरनादिनित्यत्वम्। केचिदपिशब्दस्य भिन्नक्रमत्वमङ्गीकृत्य तेन सूचितं प्रमाणं प्रागुदाहृतमिति वर्णयन्ति। नन्वन्तो विनाशादिः परिच्छेदो वाऽत्र तत्त्वदर्शिभिर्दृष्ट इत्युच्यते तत्कथं न विरोध इत्यत आह अन्त इति। निर्णयोऽनादिनित्यत्वावधारणम्। अपव्याख्यानं त्वन्यत्र निराकृतम्।
गीताभाष्यम्
हरिः ओम् ।।
नित्य आत्मेत्युक्तम् किमात्मैव नित्य आहोस्विदन्यदपि अन्यदपि तत्किमिति आह नास इति नासतः कारणस्य सतो ब्रह्मणश्चाभावा न विद्यते प्रकृतिः पुरुपश्चैव नित्यां कालश्च सत्तम इति वचनाच्छीविष्णुपुराणं। पृथग्विद्यत इत्यादरार्थः। असतः कारणत्वं च सदसद्रूपया चासों गुणमय्याऽगुणो विभुः इति भागवते असतः सदजायत इति च अव्यक्तेश्च। सम्प्रदायश्चैतत्सिद्धमित्याह उभयोरपीति। अन्तो निर्णयः।
गीतातात्पर्यम्
हरिः ओम् ।
न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशात् भावो नास्ति सत्कर्मणः सकाशात् अभावो नास्तीति नियतत्वात् ।
'सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ।
अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः'' ॥ इति शब्दनिर्णये ।
'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥'' इति वक्ष्यमाणत्वात् ।
(गीता. १७-२६)
'असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्'' इत्यादेश्च ।
अन्तो निर्णयः । न चाविद्यामानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्ग्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।
'आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् ।
यद्यसन्न विशेषोत्र जायते कोत्र जायते ॥
व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् ।
एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ॥
तथाप्यभेदानुभवात् कार्यकारणयोः सदा ।
भेदस्य चाविशेषेण देहोगात् क्षितितामिति ॥ व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ॥'' इति ब्रह्मतर्के ।
न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा ? यदि नाभूत् न तत्ख्यातिनिराकरणम् । यद्यभूत् तथापि । न चासतोसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चित् ।
'विश्वं सत्यम्'' । 'यच्चिकेत सत्यमित्'' । 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः'' इत्यादिश्रुतेश्च ॥१६ ।।
Notes