श्रीकृष्णः अर्जुनं वदति । येन इदं सर्वं ततं अविनाशि तु अव्ययस्य अस्य न कश्चित् विनाशं कर्तुं अर्हति - इति ।।
श्रीकृष्ण कहते है - जिसे से यह सब जगत् व्याप्त है वह अविनाशि है । विकाररहित होनेसे उसका विनाश कोयी भी कर नही सक्ता ।।
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ಈ ಜಗತ್ತು ಯಾರಿಂದ ವ್ಯಾಪ್ತವಾಗಿದೆಯೋ ಅವನು ನಾಶರಹಿತನು ಎಂದು ತಿಳಿ. ವಿಕಾರರಹಿತನಾದ ಅವನ ವಿನಾಶವನ್ನು ಯಾರೂ ಮಾಡಲಾರರು.
శ్రీకృష్ణుడిట్లనె - ఈ జగత్తు ఎవ్వనిచే వ్యాప్తమైయున్నదో అతడు నాశరహితుడు. వికారరహితుడైన అతడి నాశమును ఎవ్వరూ చేయలేరు.
Tamil
Sri Krishna said- That which is all pervading is imperishable. No one can destroy the unchangeable.
गीताविवृतिः
ननु प्रकृतिः पूरुषः काल इत्यादिवाक्यानां उपासनार्थत्वात् , सम्प्रदायस्य च मूलनिश्चयत्वात् , प्रकृतिपूरुषयोः स्वरूप्सयैवासिद्धेः पुनरनुमानस्य व्याप्तिसिद्धिरित्याशङ्क्य भगवान्, किमिदानीं प्रकृत्यादिस्वरूपलाधनेन , किञ्चेदं नित्यं इदं नित्यमिति प्रत्येकमुक्तेन च । यद्देशतो अनन्तं तत्सर्वं नित्यमेवेत्येवं सङ्ग्राहकसङ्ग्रहीतं वर्णादि जीवादन्यदपि अस्ति । तद्व्याप्तिग्रहणस्थलं भविष्यतीत्याह अविनाशित्विति । येनेदं सर्वं ततं व्याप्तं तदकारणादिवर्णजातम् , अव्याकृताकाशश्चेत्येवमादि सर्वं अविनाशि तु नित्यमेवेति । तुरेवेत्यर्थः । अनादि चेत्यपि ग्राह्यम् । ननु सुप्यजातौ णिनिस्ताच्छील्ये इथि सूत्रेण सोपसर्गस्यापि च्छान्दसताच्छीलिकणिनिप्रत्ययान्ताविनाशिशब्देन स्वाभाविकविनाशाभावोक्तावपि शआपेन वा बलवत्प्रयत्नादिना वा विनाशः किं न स्यादित्यत आह विनाशमिति । अस्य व्याप्तस्य वस्तुना, विनाशं ध्वंसं कश्चिदपि कर्तुं नार्हति कुत इत्यत उक्तम् । अव्ययस्येति । ह्र्रासहीनस्येत्यर्थः। ह्रास एव नास्ति तादृशस्य नाशं न कोपि कर्तुमीष्ट इति किमु वाच्यमित्यर्थः ।।17।।
प्रमेयदीपिका
हरिः ओम् ।
अविनाशि तु इति श्लोके सर्वगतस्य नित्यत्वमुच्यते तत्प्रकृतानुपयुक्तमित्याशङ्क्य पूर्वार्धं तावत्प्रकृतोपयोगं सूचयन्व्याचष्टे किं बहुने ति। वाक्यानामुपासनार्थत्वात् सम्प्रदायस्य च मूलानिश्चयात् प्रकृतिब्रह्मणो स्वरूपस्यैवासिद्धेः जीवादन्यस्यानादिनित्यस्याभावात् पुनरन्यस्य व्याप्त्यसिद्धिरित्याशङ्क्य किं बहुना प्रकृत्यादिस्वरूपसाधनेन किञ्चेदमिदं नित्यमिति बहुना प्रत्येकमुक्तेन यद्देशतोऽनन्तं तन्नित्यमेवे त्येवं सङ्ग्राहकसङ्गृहीतं वेदादिकं जीवादन्यदप्यस्ति तद्व्याप्तिग्रहणस्थलं भविष्यतीत्याह भगवानित्यर्थः। वेदशब्देन वर्णा गृह्यन्ते। आदि पदेनाकाशादयः। एतेषां च प्रत्यभिज्ञानादिना नित्यत्वसिद्धिः। ननु कालावयवाः क्षणादयः सर्वगता अपि न नित्याः सत्यं नह्यत्र व्याप्तिरुच्यते किन्तु बहूक्तिपरिहारायोपलक्षणमात्रमिति। तुशब्दार्थं एवेति। तथाप्युत्तरार्धः पुनरुक्त इत्यत आह नापी ति। पूर्वं स्वाभाविको नाशो निषिद्धः अविनाशीति ताच्छीलिकप्रत्ययात्। अत्र तु नैमित्तिकः कश्चित्कर्तुं नार्हतीति वचनात्। प्रागनुक्तस्य वेदादेरव्ययत्वस्य कथमनुवाद इति अत आह अव्ययमि ति। विधानमेवेदं कैमुत्येन शापादिना विनाशस्याभावं साधयितुमिति भावः।
गीताभाष्यम्
हरिः ओम् ।।
किं बहुना यद्देशतोऽनन्तं तन्नित्यमेव। वेदाद्यन्यदपीत्याह अविनाशीति। नापि शापादिना विनाश इत्याह विनाशमिति। अव्ययं च तत्।
गीतातात्पर्यम्
हरिः ओम् ।
यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।
'अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।
तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि'' ॥ इति महावाराहे ।
'देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः'' ॥ इति परमश्रुतिः ॥१७ ॥
Notes