श्रीकृष्णः वदति । यः एनं हन्तारं वेत्ति यः च एनं हतं मन्यते । तौ उभौ न विजीनीतः अयं न हन्ति न हन्यते - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
శ్రీకృష్ణుడిట్లనె - ఎవడైతే ఆ జీవును హంతకుడని తలచెదడో మరింకెవడు ఇతనిని హతుడని తలంచెదడో . వారిరువురు అజ్ఞులు. ఇతడు ఎవరికీ సంహారకుడు కాడు. ఇతనిని ఎవరూ సంహరించలేరు.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
ननु यदुक्तं जीवचैतनस्य नित्यत्वं यच्चोक्तं सर्वथैकप्रकारेणाविनाशित्वात् ईश्वरः स्वतन्त्रः अनिच्छया देहनाशात् तन्निमित्दुःखवत्वाच्च जीवः परतन्त्र इति तज्जीवनित्यत्वपारतन्त्र्ये न युक्ते । हन्तायमस्य हतश्चायमिति हननादिक्रियाः जीवे तत्र स्वातन्त्रस्य च प्तीतेरित्यत आह य इति । यः पुमान् एनं जीवम् । हन्तारं जीवान्तरस्य स्वातन्त्र्येण घातकम् । वेत्ति । यश्चैनम् केनचित् स्वातन्त्र्येण हतं मन्यते तावुभौ जीवस्यानित्यत्वज्ञानी हननादिक्रियायां जीवस्वातन्त्र्यज्ञानी चेत्युभौ न विजानीतः । जीवनित्यत्वभगव्तस्वातन्त्र्यज्ञानिनी । भ्रान्ताविति यावत् । कुतो बाधकाद्भ्रान्तित्वकल्पनेत्यत आह नायमिति । बिम्बनित्यत्वोपाधिनित्यत्वबिम्बसन्निधिनित्यत्वानादित्वरूपोक्तहेतुभ्यो नायं हन्ति जीवम् । न हन्यते च जीवः । प्रतिबिम्बित्वादेव हतोर्न स्वतन्त्रः सन् कश्चन हन्तीत्यर्थः । अतो बाधकाद्भ्रान्तित्वमिति भावः। अत्र हननक्रिया जीवक्रियान्तरोपलक्षणम् । सर्वत्र तस्य अस्वतन्त्र्यादिति। एनमीश्वरं जीवचेतनस्य हन्तारं यो मन्यते सोपि भान्त एव । चेतनहननस्येश्वरेणाकरणादित्यपि योजना तात्पर्योक्ता ।।19।।
प्रमेयदीपिका
हरिः ओम् ।
य एन मिति। पुनरात्मनित्यत्वं किमित्युच्यत इति अतो नास्य नित्यत्वप्रतिपादने तात्पर्यम् किन्तु निष्टङ्कितं चेदात्मनो नित्यत्वं तर्हि का गतिस्तद्धननव्यवहारस्येत्याशङ्क्य तस्य भ्रान्तत्वमनेनोच्यत इत्याह व्यवहार स्त्विति। व्यवहारोऽत्र ज्ञानम्। तथापिनायं हन्ति न हन्यते इति पुनरुक्तिरेवेति चेत् न ज्ञानानां प्रामाण्यस्य बाधकैकापोद्यत्वात्। कुतो बाधकादस्य भ्रान्तत्वमित्याशङ्क्य स्वपक्षसाधकानामेवोक्तहेतूनामेतद्बाधनेऽपि व्यापारप्रदर्शनार्थत्वादस्येत्याह कुत इति। नन्वत्र हननमेकमेव तत्कथमुभाविति कथं चनायं हन्ति न हन्यते इति अथैकस्या अपि क्रियायाः कारकभेदादेव मुक्तिस्तर्हि करणाधिकरणोक्तिरपि प्रसज्यत इति उच्यते आत्मनो नित्यत्वमिवास्वातन्त्र्यमपि प्राक्प्रतिपादितम्। यथोक्तं तात्पर्यनिर्णये तत्र हननव्यवहारवत्स्वातन्त्र्यव्यवहारस्यापि भ्रान्तत्वमनेनोच्यते इति उभावित्याद्युपपद्यते। अतएव भाष्यकारो व्यवहारस्त्विति सामान्येनाह न तु हननव्यवहार इति निष्कृष्य। ननु नित्यत्वे बिम्बनित्यत्वादयो हेतव उक्ताः अस्वान्तत्र्ये तु न कोऽपि तत्कथमुक्तहेतुभ्य इत्युक्तं इति चेत् न प्रतिबिम्बत्वस्योक्तत्वात् तस्य कथमस्वातन्त्र्ये हेतुत्वमित्यत आह नही ति। क्रियेति वदताहन्तारं हन्ति इति पदद्वयमुपलक्षणार्थमिति सूचितम्। ननु प्रतिबिम्बस्यापि लोके क्रिया दृश्यते जीवस्य च क्रियाभावेकर्ता शास्त्रार्थवत्त्वात् ब्र.सू.2।3।33 इत्यादिविरोध इत्यत आह स ही ति। बिम्बक्रियया बिम्बाधीनक्रियया। तथा च पूर्वं स्वातन्त्र्याभावापेक्षया क्रियाप्रतिषेध इति ज्ञातव्यम्। ननूपाधिक्रिययापि प्रतिबिम्बे क्रिया भवति तत्कथमुच्यते बिम्बक्रिययैवेतिमैवम् स्वातन्त्र्यप्रतिषेधे तात्पर्यात् जीवस्य पृथगुपाध्यभावाच्च। जीवस्येश्वराधीनक्रियत्वे श्रुतिं चाह ध्यायती वेति। ईश्वरो जीवं ध्यायतीत्यर्थः। इवशब्दोऽल्पार्थे।
गीताभाष्यम्
हरिः ओम् ।।
व्यवहारस्तु भ्रान्त इत्याह य एनमिति। कुतः उक्तहेतुभ्यो नायं हन्ति न हन्यते। न हि प्रतिबिम्बस्य क्रिया। स हि बिम्बक्रिययैव क्रियावान्। ध्यायतीव बृ.उ.4।3।7 इति श्रुतेश्च।
गीतातात्पर्यम्
हरिः ओम् ।
य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा 'मया हतांस्त्वं जहि'' इत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोपि समम् ॥ १९ ॥
Notes