श्रीकृष्णः वदति । अयं कदाचित् न जायते म्रियते वा अयं कदाचित् भूत्वा भूयः न भविता न अयं अजः नित्यः शाश्वतः पुराणः हन्यमाने अपि शरीरे न हन्यते - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
శ్రీకృష్ణుడిట్లనె - ఈ జీవుని పుట్టుక లేదు గిట్టుకను లేదు. ఒకప్పుడు ఉండినవాడై మరల లేకుండుటయూ లేదు. అతడు శాశ్వతుడు. కేవలము ఒక దేహమునుంచి మఱియొక దేహమునకు వెళ్ళును.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
यदुक्तं जीवेश्वरयोरुत्पत्तिविनाशरहितत्वं ईश्वरस्य देहतोत्पत्यभावेन स्वातन्त्र्यं जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिस्वातन्त्र्यं तेष्वर्थेषु प्रमाणत्वेन मन्त्रवर्णमुदाहरति। न जायत इति। तथा हि जीवविषये तावदियं योजना । अयं जीवः स्वरूपेण न जायते न म्रियते म नश्यति च । वाशब्दश्चश्बदार्थः । अग्रेतननञोनुकर्षः । जीवो न जायते चेत्तर्हि यथेश्वरज्ञानं वृद्धिह्रासविवर्जितं भूत्वैव कदाचिदचिन्त्यशक्त्या भूतमिव व्यवहारालम्बनं भवति तदैक्षत इत्यादिश्रुतेः तथा जीवेपि किं जननव्यवहारस्तन्निमित्त इत्यतो नेत्युच्यते । अयं जीवः स्वरूपेण भूत्वा कयाचिद्विवक्षया ईश्वरज्ञानवद्भविता न भवति । कुतो न जायते न म्रियते वेति स्वरूपोत्पत्तिविनाशाभावो जीवस्येत्यत उक्तम् । अजो नित्यः शाश्वत इति । स्वरूपोत्पत्तिविनाशशून्यसदैकरूपभगवत्सरूपत्वादित्यर्थः । अतद्भावे सामानाधिकरण्यस्य सारूप्यगमकत्वात् । अजनित्यपदाभ्यां बिम्बोत्पत्तिविनाशाभावः शाश्वतपदेन बिम्बोपादिसन्निधिजन्मनाशाभावश्च हेतुरुक्तो भवति। ईश्वरज्ञानवद्भूत्वा भवितापि चेन्न जीवस्तर्हि किन्निमित्तो जननव्यवहारो जीव इत्यत उक्तम् । पुराण इति । पुराणि देहानणति अण पण गतौ गच्छति देहाद्दहान्तरं प्राप्नोतीति देहयोगनिमित्त इत्यर्थः। एवं तर्ह्युपाधिभूतददेहनाशान्नाशः स्यादित्यत आह न हन्यत इति । अन्तवन्त इमे देहा इत्यत्रोक्तदिशा नित्योपाधेरन्यस्य भावात् एतच्छरीरनाशेपि च जीवनाश इति भावः । ईश्वरविषये तु पूर्वोत्तरार्धे ईश्वरजीवरूपविषयभेदेन योज्ये । तथा हि वाशब्दादेव पूर्वऩो म्रियते वेत्यत्रानुकर्षस्य सिद्धेः ऩन्तरवैयर्थात् नायं भूत्वेत्यत्र श्रुतो नशब्दो न नञ् किन्तु नृशब्दः । तथाचायं ना परमपुरुषः न जायते न म्रियते देहयोगवियोगवान्नभवति नित्यदेहेत्यर्थः । अत एव स्वरूपनाशः कैमुत्यसिद्धः। देहोत्पत्तिविनाशयोरप्यभावेन स्वातन्त्र्यमपि सिद्धमेवेति भावः । एवं चेत्कथं तर्हि रामकृष्णादिरूपेण जननव्.वहार इत्यतः भूत्वा रामकृष्णादिरूपेण सर्वदा भूत्वैव कदाचिज्जनदृग्विषयत्वादिरूपेण भूयः पुनर्भविता । न तु देहयोगेनापि भविता । किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् । प्रदर्शयति लोकस्य जनिरित्युच्यते हरेः । इति तत्वनिर्णयोक्तेः । अयं जीवोप्यजो नित्यश्च । ईश्वरस्येव जीवस्याप्यानादिनित्यत्वे स्वातन्त्र्यस्यापि प्राप्तेरीश्वरादविशेषः स्यादित्यत उक्तम्। शाश्वत इति । सदैकरूपः अनाद्यनन्तकालमात्यक्तपारतन्त्र्यदिस्वभाव इत्यर्थः। कुत इत्यत उक्तम् । पुराण इति । अनिच्छयापि देहाद्देहान्तरप्राप्तिमत्वादिति हेतुगर्भविशेषणमिदम् । म हि तादृशस्य स्वातन्त्र्यसम्भावनापीति भावः । एतावन्गुण इत्याह न हन्यते हन्यमाने शरीरे इति ।।20।।
प्रमेयदीपिका
हरिः ओम् ।
तथापि न जायते इति पुनरुक्तमित्याशङ्क्य नेदं भगवद्वाक्यं किन्तूक्तार्थे सम्मतित्वेन मन्त्रवर्णोऽयमुदाह्रियत इत्याह अत्रे ति। ननु जीवः स्वरूपेण भूत्वा देहसम्बन्धेन भवितैव तत्कथमुच्यतेभूत्वा भविता न इतीत्यतोऽन्यथा व्याचष्टे न चे ति। जीवो न जायते चेत्तर्हि यथेश्वरज्ञानं वृद्धिह्रासादिवर्जितं भूत्वैव कयाचिदचिन्त्यया शक्त्या भूतमिति व्यवहारालम्बनं तथा जीवेऽपि किं जननव्यवहारस्तन्निमित्त इति पृच्छायां नेत्यनेनोच्यत इत्यर्थः। नन्वीश्वरज्ञानस्योक्तप्रकारं भूत्वा भवनं कुतः सिद्धम् येन जीवस्य तथाभावासम्भावनायोदाह्रियते इत्यत आह तद्धी ति। तदीश्वरज्ञानस्योक्तप्रकारेण भूत्वा भवनं श्रुतिस्मृतिसिद्धं हीति सम्बन्धः। तदैक्षत छां.उ.6।2।3 इति भवनमुच्यते देवदत्तोऽपश्यदितिवत्। देशत इति वृद्धिह्रासादिराहित्यम्। नन्वीश्वरवदित्येव कस्मान्नोक्तम् नैवं शङ्क्यं लोकदर्शनस्याधिकस्य तत्रोत्पादात्अजो नित्यः इति पुनरुक्तमित्याशङ्क्य तन्निवर्त्यामाशङ्कामुक्त्वाऽन्यथा व्याचष्टे कुत इति।न जायते म्रियते इत्येतत्कस्मात्कारणादित्यर्थः। अजादीत्यनेन्अजो नित्यः शाश्वतः इति व्याख्यातम्। शाश्वत इत्येतन्नित्य इत्यनेन गतार्थमित्यन्यथा व्याचष्टे शाश्वत इति। तथा चाजो नित्य इत्याभ्यां बिम्बोत्पत्तिनाशनिमित्तौ शाश्वत इत्यनेनोपाधिबिम्बसन्निधिजनननाशनिमित्तौ जन्मनाशौ न स्त इत्युक्तं भवति। तथाप्यज इत्युक्तत्वात्पुराणं इति पुनरुक्तिरिति चेत् न भूत्वा भविता वा नेत्युक्तम्। तत्कुतः किंनिमित्तश्च तर्हि जननव्यवहारः इत्याशङ्क्य देहान्तरप्राप्तिरस्यास्तीत्यनेनोच्यत इत्याह पुर मिति। एवमपि न हन्यत इति पुनरुक्तिरिति चेत् न यदि पुराणस्तर्हि उपाधिभूतदेहनाशाद्दर्पणनाशात्प्रतिबिम्बनाशवदात्मनाशः स्यादित्याशङ्काऽत्र पूर्वाभिप्रायेण परिह्रियत इति भावेनाह तथापी ति पुराणत्वेऽपि।
गीताभाष्यम्
हरिः ओम् ।।
अत्र मन्त्रवर्णोऽप्यस्तीत्याह न जायत इति। नचेश्वरज्ञानवद्भूत्वा भविता। तद्धि तदैक्षत छां.उ.6।2।3 देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा इत्यादिश्रुतिस्मृतिसिद्धम्। कुतः अजादिलक्षणेश्वरसरूपत्वात्। शाश्वतः सदेकरूपः। पुरं देहमणतीति पुराणः। तथापि न हन्यते हन्यमानेऽपि देहे।
गीतातात्पर्यम्
हरिः ओम् ।
जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह । न जायते म्रियत इति । अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति प्रसिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।
'अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।
वदन्ति शाश्वतावेतावत एव महाजनाः'' ॥ इति महाविष्णुपुराणे ।
पुराण्यणति गच्छतीति पुराणः ॥२० ॥
Notes