सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
శ్రీకృష్ణుడిట్లనె - అణురూపుడైన జీవుని ఆధారమైనవాడు మరమాత్ముడు. అతడు సర్వగతుడు. మఱి ఎందులకు కనబడడు అనిన అతడు అచింత్యుడు, అవ్యక్తుడు, అవికారుడు. కావున బింబరూపడైన ఈశ్వరుని నాశము లేనందున, శాపాదలుచే నాశము, శస్త్రాదులచే నాశములేనందున జీవుడు నిత్యుడని తెలిసికొని దుఃఖమును విడువుము.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
हरिः ओम् । 'ततः किं जातम्' इति धार्तराष्टृस्यापेक्षायां सञ्जय उवाच - तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं अर्जुनं भगवानुवाच 'कुतः' इत्यादि द्वाभ्यां श्लोकाभ्याम् ।।१।।
प्रमेयदीपिका
हरिः ओम् ।
ननु ज्ञानिभिर्भगवान् दृश्यते चिन्त्यते च तत्कथमुच्यतेऽव्यक्तोऽयमचिन्त्योऽयमिति तत्राऽऽह अतएवे ति। अचिन्त्यशक्तित्वादेव। यथोक्तं अतोऽनन्ते न तथाहि लिङ्गम् इति।
गीताभाष्यम्
हरिः ओम् ।।
अत एवाव्यक्तादिरूपः।
गीतातात्पर्यम्
हरिः ओम् ।
सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति - अव्यक्तोयमिति । कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतत् श्रुतिसिद्धम् ।
'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः'' । इति पैङ्गिश्रुतिः ।
'ओहो देहवांश्चैकः प्रोच्यते परमेश्वरः ।
अप्राकृतशरीरत्वाददेह इति कथ्यते ।
शिरश्चरणबाह्वादिविग्रहोयं स्वयं हरिः ।
स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते ।
स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः ।
शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।
स च विष्णोर्न चान्योस्ति यस्मात्सोचिन्त्यशक्तिमान् ।
देहयोगवियोगादिस्ततो नास्य कथञ्चन ।
गुणरूपोपि भगवान् गुणभुक्च सदा श्रुतः ।
अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।
अभिन्नेपि विशेषोयं सदानुभवगोचरः ।
विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते ।
नानवस्था ततः क्वापि परमैश्वर्यतो हरेः ।
युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।
प्रमाणावगते तत्र कुत एव ह्ययुक्तता'' ॥ इत्यादिपरमश्रुतिः ।
'गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः'' ॥ इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।
'एकमेवाद्वितीयं'' 'नेह नानास्ति किञ्चिन'' ।
'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति'' ।
'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति'' ।
'मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि ।
तथैवावयवानां च भेदं पश्यति यः क्वचित् ।
भेदाभेदौ च यः पश्येत्स याति तम एव तु ।
पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ।
अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् ।
विशेषिणां विशेषस्य तथा भेदविशेषयोः ।
विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।
प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः ।
न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन ।
मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।
राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ।
दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।
शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ।
नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।
ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ।
सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।
सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ।
इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः ।
तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ।
नरार्जुनादिषु तथा पुनरावेश उच्यते ।
स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।
एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः ।
सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्'' ॥ इत्यादि महावराहे ॥२५ ॥
Notes