सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
हरिः ओम् । 'ततः किं जातम्' इति धार्तराष्टृस्यापेक्षायां सञ्जय उवाच - तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं अर्जुनं भगवानुवाच 'कुतः' इत्यादि द्वाभ्यां श्लोकाभ्याम् ।।१।।
प्रमेयदीपिका
हरिः ओम् ।
गीताभाष्यम्
हरिः ओम् ।।
गीतातात्पर्यम्
हरिः ओम् ।
'प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।
न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत्'' ॥ इत्याग्नेये ।
'स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।
नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।
एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः ।
एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।
तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुलम् ।
दद्यान्निराशीश्च सदा भवेद्भक्तश्च केशवे ।
नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् ।
जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा ।
यथाक्रमं तु देवानां तारतम्यविदेव च ।
एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।
एष धर्मोतिफलदो विशेषेण पुनः कलौ ।
एवं भागवतो यस्तु स एव हि विमुच्यते ।
त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।
तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः ।
समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।
त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।
पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।
सर्वान्देवान्प्रविज्ञाय तत्कर्मैव सदा भवेत् ।
सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि ।
स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।
सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम् ।
क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ।
यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः ।
परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः ।
नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते ।
वादो विवादः सम्प्रोक्तो वादो वचनमेव च ।
वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि ।
अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते ।
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।
अनारम्भमनन्तञ्च नित्यदुःखं सुखोज्झितम् ।
वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः'' ॥ इति ब्रह्मवैवर्ते ॥४० ॥
Notes