सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
हरिः ओम् । 'ततः किं जातम्' इति धार्तराष्टृस्यापेक्षायां सञ्जय उवाच - तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं अर्जुनं भगवानुवाच 'कुतः' इत्यादि द्वाभ्यां श्लोकाभ्याम् ।।१।।
प्रमेयदीपिका
हरिः ओम् ।
ननूत्तरश्लोकेऽपि योगानुष्ठानविधिरेवोच्यतेऽतः पुनरुक्तिदोष इत्यत आह तदेवे ति। किं तन्मोहकलिलं कीदृशं च तदतितरणं इत्याकाङ्क्षायां पुंसां अधममध्यमोत्तमावस्थादिप्रदर्शनेन पूर्वश्लोकोक्तमेव योगानुष्ठानावधिमनेन स्पष्टं करोतीत्यर्थः। नन्वत्रश्रुतिविप्रतिपन्ना इति श्रवणादितो वैराग्यमुच्यते यथाह भास्करःवस्त्वन्तरश्रवणाद्विरक्तेति। ततः पूर्वत्रापि वैराग्यमर्थः स्यात्। निश्चलाऽचलेति च पुनरुक्तिश्च।
योगावाप्तेरुत्तरा चेयमवस्था तत्कथमुच्यतेतदा योगमवाप्स्यसि इति शङ्कायां श्लोकं व्याचष्टे पूर्व मिति। पूर्वावस्थायाः सामर्थ्यलब्धं वैलक्षण्यं दर्शयितुमुक्तंवेदार्थेति। चलनप्रसक्तिं दर्शयति विपरीते ति। असच्छास्त्रैरित्यर्थः। अनेन परोक्षज्ञानकाष्ठा दर्शिता। परोक्षतत्त्वनिश्चयानुवृत्तिव्युदासायोक्तम् ब्रह्मे ति। अत्रापि चलनप्रसक्तिमाह भेरी ति। एतत्कथमित्यत आह परमे ति। परमानन्दे उपायसिद्धो भवसीत्यर्थः। एतेनापरोक्षज्ञानकाष्ठा दर्शिता। उपायेन सिद्धः प्राप्तफलः। योगशब्देन तत्फलमुपलक्ष्यत इति भावः। श्लोकद्वयेप्येतदवस्थाप्राप्तिर्योगानुष्ठानावधिरिति तात्पर्यम्।
गीताभाष्यम्
हरिः ओम् ।।
तदेव स्पष्टयति श्रुतिविप्रतिपन्नेति। पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति ततश्च समाधावचला। ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात्। तदा योगमवाप्स्यसि उपायसिद्धो भवसीत्यर्थः।
गीतातात्पर्यम्
हरिः ओम् ।
निर्वेदं नितरां लाभम् ।
'बुदि्धमोहो यदा न स्यादन्यथाज्ञानलक्षणः ।
श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ॥ श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला ।
समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ॥ विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते'' ॥ इति च पैङ्गिश्रुतौ विशेषेण प्रतिपन्ना ॥ ५२, ५३ ॥
Notes