सञ्जयः धृतराष्ट्रं वदति । हे राजन् , तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं विषीदनतं तं अर्जुनं प्रति मधुसूदनः इदं वचनं अब्रवीत् - इति ।।
संजय कहते है - राजन् , इस् तरह कृपा से भरे हुवे, अश्रुपूर्ण उद्विग्न आखोंवाले दुःखित अर्जुन से मधुसूदन ने ये वचन कहा ।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಈ ವಿಧವಾಗಿ ಕೃಪೆಯಿಂದ ತುಂಬಿದ, ಕಣ್ಣೀರಿನಿಂದ ಕದಡಿದ ಕಣ್ಣುಗಳುಳ್ಳ ದುಃಖಿತನಾದ ಅರ್ಜುನನಿಗ ಮಧುಸೂದನನು ಈ ಮುಂದಿನ ಮಾತನ್ನು ಹೇಳಿದನು.
సంజయుడిట్లనె - రాజ, , ఈ విధముగా కరుణాపూర్ణహృదయుడైన, అశుపూర్ణమైన ఉద్విగ్నమైన నేత్రములుగల దుఃఖితుడైన అర్జునునిచే మధుసూధనుడిట్లు పలికెను.
Tamil
Sanjaya said- O King, Lord Madhusudana spoke the following words to Arjuna, who was lamenting with eyes soar and full of tears.
गीताविवृतिः
हरिः ओम् । 'ततः किं जातम्' इति धार्तराष्टृस्यापेक्षायां सञ्जय उवाच - तं तथेति । उक्तदिशा कृपयाऽऽविष्टमेवं अर्जुनं भगवानुवाच 'कुतः' इत्यादि द्वाभ्यां श्लोकाभ्याम् ।।१।।
प्रमेयदीपिका
हरिः ओम् ।
वक्तव्यस्योक्तत्वान्नास्ति बुद्धिरित्यादिकं किमर्थं इत्यत आह प्रसादे ति। श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन यदर्थमिन्द्रियजयोऽपेक्षितः इत्याशङ्क्येति शेषः। नन्वत्र प्रसादाभाव इदं स्यादिति नोच्यते ततः कथमेतदुक्तं इत्यतः प्रकरणप्राप्तमध्याहरति न ही ति। ननु प्रसादरहिता अनुमिमते इत्यत आह चित्ते ति। एकाग्रतेत्यर्थः। एवमध्याहारे सतिनास्ति बुद्धिः इत्येतत्सम्बध्यत इति भावेनाह अयुक्तस्ये ति। ज्ञानमात्रं प्रकृतानुपयुक्तमयुक्तं चेत्यत आह सम्य गिति ब्रह्मापरोक्षज्ञानमित्यर्थः। एतावता प्रसादाभावे दोष उक्तस्तत्किमर्थं न चायुक्तस्य इत्येतदित्यत आह तदेवे ति। ध्यानेनैव ज्ञानोत्पादात्कथं नास्ति बुद्धिरयुक्तस्य इत्याशङ्क्येति शेषः। भावना ध्यानम्। अत एवन चाभावयतो ज्ञानम्।न चाज्ञानिनः शान्तिः इति योज्यम्। ननु शान्तिः प्रसादः तस्य ज्ञानसाधनत्वेनोक्तत्वात्कथं ज्ञानोत्तरत्वमुच्यते इत्यत आह शान्ति रिति। एतच्च न केवलं मुक्तौ सर्वदुःखहानिः किन्तु संसारिभिरलभ्यं परमं सुखं चेति ज्ञापयितुं प्रसङ्गादुक्तम्। एतदेवावेक्ष्य भाष्यकृता ब्रह्मादिपदादित्याद्युक्तम्।
गीताभाष्यम्
हरिः ओम् ।।
प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम् न हि प्रसादाभावे युक्तिश्चित्तनिरोधः। अयुक्तस्य च बुद्धिः सम्यग्ज्ञानं च नास्ति। तदेवोपपादयति न चायुक्तस्येति। शान्तिर्मुक्तिःशान्तिर्मोक्षोऽथ निर्वाणम् इत्यभिधानात्।
गीतातात्पर्यम्
हरिः ओम् ।
Notes