अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
’अन्नात् ’ इत्यादेः सङ्गतिमाह- हेत्वन्तरमिति।। ’अत्र’ इत्यनुवर्तते। अत्र पर्जन्यो मेघ आदित्यश्च विवक्षितौ। तत्रादित्यस्य पूर्वसिद्धस्य कथं ’यज्ञाद्भवति पर्जन्यः’ इति यज्ञः कारणत्वेनोच्यते? इत्यत आह- यज्ञ इति। यद्यपि ’यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः’ इति वक्ष्यति। तथाSप्यत्र परित्यज्यमानं द्रव्यं गृह्यते। तस्य पर्जन्यान्नत्वात्पर्जन्योपभोग्यत्वात् । उपभुक्तेन च तस्य बलाद्युपचयाद्यज्ञः, तस्य पर्जन्यस्य कारणमुच्यते।
ननु पर्जन्यो देवतात्मा यज्ञेन पर्जन्यत्वं प्राप्तः स यज्ञो विवक्षितोऽत्रास्तु। तथा सति यज्ञात्पर्जन्योद्भवो मुख्य एव सम्पत्स्यत इति। नेत्याह- पूर्वेति।। तस्य पर्जन्यपदप्राप्तिहेतोः। ’यज्ञस्य ’ इति शेषः।।
ननु तदा चक्रं प्रवृत्तमेव। अतः कथं पूर्वयज्ञस्य चक्राप्रवेशः? इत्यत आह -तद्धीति।। तत् चक्रमापाद्यं ह्यत्र विवक्षितम्। न तु प्रागापादितम्। कुतः? कर्मविधये ह्येतदुच्यते। यदि विहितं कर्म करिष्यसि तर्हि जगच्चक्रप्रवृत्तिर्भविष्यति। अन्यथा तद्विघातः। अतस्त्वया कर्म कर्तव्यमिति। कर्मविध्युपयोगिता चापाद्यस्यैव, न त्वापादितस्य। आपाद्ये च यज्ञव्यक्तिविशेषस्य पर्जन्यपदप्राप्तिहेतोर्न प्रवेश इत्यर्थः।
प्राक् पर्जन्येन कर्म कृतम्। तेन च यज्ञादिद्वारा चक्रं प्रवृत्तम्। अतस्त्वयाऽपि कर्म कर्तव्यमित्येवं प्रागापादितचक्रोक्तिरपि कर्मविध्युपयोगिनी भवतीति चेत् मैवम्। ‘अतः’ इति कोऽर्थः? त्वत्कर्मणाऽपि चक्रप्रवृत्तिसम्भवादितिवा कर्मत्वादिति वा? नाद्यः। इदानीन्तनपुरुषकर्मजेन यज्ञेन पर्जन्योत्पत्त्यसम्भवेन चक्राप्रवृत्तेः। न हि सर्वेऽपि कर्मकारिणः पर्जन्यत्वं प्राप्नुवन्ति। द्वितीयं दूषयति - न त्विति।। फलरहितेन कर्मत्वसामान्येनेदानीं कर्म कार्यं न भवति स्वयं क्लेशरूपत्वादिति।।
प्रकारान्तरेणापि ’यज्ञाद्भवति पर्जन्यः’ इत्येतद्दर्शयितुमाह - मेघेति।। चक्रं समूहः। ततः किम्? इत्यत आह - तच्चेति। मेघचक्रम्। कुतः? इत्यत आह- अग्नाविति।।
ननु ‘स्वकीयमुदकं नद्यः’ इति समुद्राद्वृष्टिरुच्यते। अत आदित्याद्वृष्ट्यङ्गीकारे तद्विरोधः स्यादित्यत आह- उभयेति। ‘वृष्ट्यङ्गीकारात्’ इति शेषः। वार्षिका मेघा इह वृष्टिशब्देनोच्यन्ते। अतोऽपि किम्? इत्यत आह- अतश्चेति।
प्राक् पर्जन्यस्य भवनं गौणमङ्गीकृत्य व्याख्यातम्। इदानीं त्वभिमन्यमानगतस्य भवनस्याभिमानिनी लक्षणामाश्रित्येति भेदः। यद्वा अभिमानिगतस्य पर्जन्यशब्दस्य अभिमन्यमाने लक्षणामाश्रित्य द्वितीयं व्याख्यानम्।
तात्पर्यनिर्णये तु मेघसन्ततौ पर्जन्यशब्दो यौगिकोऽङ्गीकृतः।
ननु यज्ञः कर्मात्मकः। तत्कथमुच्यते ‘यज्ञः कर्मसमुद्भवः’ इति? तत्राह - यज्ञ इति।। इतरक्रिया यज्ञाङ्गभूता। अपूर्वाङ्गीकारे रूढित्यागेन लक्षणाश्रयणं स्यात्।
गीताभाष्यम्
हरिः ओम् ।
हेत्वन्तरमाह- अन्नादिति।। यज्ञः पर्जन्यत्वात्तत्कारणमुच्यते। पूर्वयज्ञविवक्षायां तस्य चक्रप्रवेशो न भवति तद्व्यापाद्यं कर्मविधये। न तु साम्यमात्रेणेदानीं कार्यम्।।
मेघचक्राभिमानी पर्जन्यः। तच्च यज्ञाद्भवति।
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः (मनु 3.76)इति स्मृतेः।
उभयवचनाच्चादित्यात् समुद्राच्चाविरोधः। अतश्च यज्ञात्पर्जन्योद्भवः सम्भवति। यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः। कर्म इतरक्रिया।
गीतातात्पर्यम्
हरिः ओम् ।
Notes