अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
‘कर्म ब्रह्मोद्भवं ब्रह्मणा वेदेन प्रकाश्यं’ इति परेषां व्याख्यानमसदिति भावेनाह- कर्मेति। ब्रह्मणः परब्रह्मणः। कुतः? इत्यत आह- एष हीति। अपव्याख्यानं प्रत्याख्याति- न चेति। उद्भवशब्दस्य मुख्येऽभिधेये जन्मनि सम्भाव्यमाने सति औपचारिकं प्रकाशनमर्थतया न कल्प्यम्। तथा ब्रह्मशब्दस्य मुख्येऽभिधेये परब्रह्मणि सम्भाव्यमाने सति औपचारिकम् अमुख्यं वेदाख्यं ब्रह्मशब्दार्थतया न कल्प्यम्।।
किञ्चैवं व्याचक्षाणेनापि वेदस्य कर्मप्रकाशकत्वमन्तर्यामिद्वारा परम्परयाऽङ्गीकार्यम्। तथा चान्ततोऽपि परब्रह्मण्यङ्गीकार्ये शब्दत एव प्राप्तस्य तस्य परित्यागोऽनुपपन्नः। ननु वेदः स्वयमेव कर्मप्रकाशकः। किं परब्रह्मणा? अतो न परम्परेत्यत आह - न चेति।।
न केवलं जडत्वाद्वेदस्यान्याधीनत्वम्, किन्त्वागमाद्विष्ण्वधीनत्वं च प्रसिद्धमित्याह- एतस्येति ‘विष्णोः‘ इति शेषः।। ननु शब्दस्यार्थप्रकाशनं स्वभावः। न त्वागन्तुको व्यापारः। यथाऽग्नेरौष्ण्यम्। ततो जडत्वेऽपि न परापेक्षेत्यतः स्वभावस्यापि भगवदधीनत्वे प्रमाणमाह- द्रव्यमिति।
प्रमाणसिद्धमपि स्वभावनियमनं विष्णोरसम्भावितमित्यत आह- अचिन्त्येति। यदि जडस्य न स्वतः प्रवृत्तिः तर्हि अभिमानिदेवताद्वाराऽस्तु। तथाच नान्ततोऽपि परब्रह्माङ्गीकार इत्यत आहृ जीवस्य चेति। ततश्चाधिक्येन परम्परेति भावः। न केवलं प्रतिबिम्बत्वाज्जीवस्य स्वतः प्रवृत्त्यभावः। किन्त्वागमाच्चेत्याह -नेति।
‘ब्रह्माक्षरसमुद्भवम्‘ इत्यत्र ‘ब्रह्म वेदः अक्षरात्परब्रह्मणो जायते‘ इति परेषां व्याख्यानमसदिति भावेनाह- अक्षराणीति। प्रसिद्धानि अकारादीनि नियतानुपूर्वीविशिष्टानि। वेद इति यावत्।।
ननु समुद्भवशब्दस्य मुख्यार्थाङ्गीकारे किं बाधकम्? येनाभिव्यज्यत इत्यमुख्योऽर्थः स्वीक्रियते। किञ्च प्रमाणान्तरेणापि ब्रह्माभिव्यक्तिसम्भवात् ‘तेभ्यः’ इति किमर्थमुक्तं इत्यत आह -अन्यथेति। व्यक्त्यर्थत्वानङ्गीकारे। अनादिनिधनं ब्रह्म ’कथं जायेत’ इति शेषः। तथा वेदस्य तदभिव्यञ्जकत्वानङ्गीकारे परिपूर्णत्वात् अचिन्त्यं ब्रह्म को जानाति? वाक्यार्थद्वयसमुच्चये अपिशब्दः।
समुद्भवशब्दस्य मुख्यार्थताभावात्परोक्तोऽर्थः किं न स्यात्? इत्यत आह- न चेति। ब्रह्मशब्दो हि परब्रह्मणि रूढः। वेदे तु बृहत्त्वयोगेन प्रवृत्तः। तथाऽक्षरशब्दो वर्णेषु रूढः। परब्रह्मणि त्वक्षरणयोगेन प्रवृत्तः। तथा चान्यथा व्याकुर्वता रूढिं परित्यज्य योगोऽङ्गीकृतः स्यात्। तच्च न्यायबाह्यमित्यर्थः।।
इतश्च ब्रह्मशब्दः परब्रह्मवाचीत्याह- परामर्शाच्चेति। उत्तरवाक्ये ब्रह्मशब्देन परब्रह्मणः परामर्शाच्च पूर्ववाक्यस्थो ब्रह्मशब्दः परब्रह्मार्थो ज्ञायते। तथाच ‘अक्षरशब्दोऽप्यर्थाद्वेदवचनो भविष्यति’ इति शेषः। प्रागक्षरशब्दोक्तं परं ब्रह्मेदानीं ब्रह्मशब्देन परामृश्यते। अतः पूर्वोक्तो ब्रह्मशब्दो वेदार्थ एवेत्यत आह- न हीति। ‘एकस्मिन्नेव प्रकरणे‘ इति शेषः।
अन्नात्पुरुषः। स वा एष पुरुषोऽन्नरसमयः (तै.उ.2.2) इत्यादि व्यावृत्त्यर्थं ‘भेदश्रुति विना‘ इत्युक्तम्। श्रुतिशब्दश्च प्रमाणोपलक्षणार्थः। अत्रापि ‘सर्वगतम्‘ इति विशेषणमस्तीति चेत् न वर्णानामपि सर्वगतत्वात्। विकारत्वान्नेति चेत् न। अनन्तरमेव निराकरणात्। इदं च भास्करं प्रत्यभिहितम्। मायावादिना तु ‘प्राग्ब्रह्मशब्दोक्तस्य वेदस्यैवायं परामर्शः इत्यङ्गीकृतत्वात्।
यदप्यन्यथाव्याख्याने ‘समुद्भवशब्दस्य मुख्यार्थतालाभः’ इत्यभिप्रेतं तदपि दुराशामात्रमित्याह- तानि चेति। यान्यस्माभिः प्रसिद्धानि व्याख्यातानि। अनेन ‘अभिधानादिबलाद्ब्रह्माक्षरशब्दौ द्वावप्युभयत्र योगरूढौ‘ इति प्रत्यवस्थानमपि परास्तम्। परामर्शस्य वर्णनित्यत्वस्य चापरिहार्यत्वात्।
न केवलं श्रुत्यादिभ्यो वेदस्य नित्यत्वं, किं तर्हि? विपक्षे बाधकाच्चेत्याह -दोषश्चेति। ‘रचितत्वे च धर्मप्रमाणस्य’ (गी.भा.2.13) इत्यत्र। ननु वेदाक्षराणि ब्रह्मणो अबुद्धिपूर्वमुत्पन्नानि। अतो न विपर्ययादिमूलत्वशङ्केत्यत आह - न चेति।
‘निश्श्वसितमेतद् यद् ऋग्वेदो यजुर्वेदः‘ (बृ.उ.4.4.10 )
इति श्रुतिर्वेदानां ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नत्वे प्रमाणमिति चेत्- किमयं निश्श्वसितशब्दोऽबुद्धिपूर्वमुत्पन्नत्वस्य वाचकः? उत निश्श्वसितमिव निश्श्वसितम्, इवार्थश्च अबुद्धिपूर्वमुत्पन्नत्त्वम् इति गौण्या वृत्त्या तदभिप्रायः। नाद्यः। प्रमाणाभावात्।।
द्वितीयं दूषयति- निश्श्वसितेति। अक्लेशेन निस्सरणस्यापीवार्थस्य सम्भवेन निश्वसितशब्दस्य तदभिप्रायतोपपत्तौ नाबुद्धिपूर्वोत्पत्त्यभिप्रायत्वनिश्चय इत्यर्थः। न च परस्येवास्माकमपि निश्चयायोग इति भावेनाSह- स इति।।
‘सोऽकामयत, (सः) इदं सर्वमसृजत‘ (तै.उ.2-11) इति ब्रह्मणः सर्वसृष्टेरिच्छापूर्वकत्वमुच्यते। इच्छा च बुद्ध्याऽविनाभूता। अतो न किञ्चिद्ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नमिति।।
ननु ‘निश्श्वसितमेतत्’ इति श्रुतिर्नामप्रपञ्चस्याबुद्धिपूर्वमुत्पत्तिं वक्ति ‘सोऽकामयत’ इति चारूपप्रपञ्चस्येच्छापूर्वमित्यतो न विरोध इत्यत आह- इष्टमिति। एवं सति ‘निश्श्वसितम्‘ इति श्रुतौ
‘इष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः‘ (बृ.उ.6.1.2)
इति नामप्रपञ्चस्य रूपप्रपञ्चेन सहाभिधानात्। रूपप्रपञ्चस्यापि निश्वसितशब्देनाबुद्धिपूर्वोत्पन्नत्वप्राप्तौ ‘सोऽकामयत‘ इति श्रुतिर्निर्विंषयैवापाद्येतेति भावः।
इतोऽपि नाबुद्धिपूर्वा ब्रह्मणः सृष्टिरित्याह - महातात्पर्येति। परब्रह्मणः सर्वोत्तमत्वे यत्सर्ववेदानां महातात्पर्यं तद्विरोधाच्चेत्यर्थः। तदेव कुतः? इत्यत आह - तच्चेति। उक्तं साधितम्।कथं तद्विरोधः? इत्यत आह- न हीति। प्राधान्यं सर्वोत्तमत्वम्। अस्वातन्त्र्येणोत्पत्तिकर्तृत्वस्य प्राधान्यविरोधित्वेऽपि अबुद्धिपूर्वमुत्पादकत्वस्य किमायातम्? इत्यत आह- अस्वातन्त्र्यं चेति। कार्यस्य पुरुषमतिपूर्वकत्वाभावे तत्र तस्य पुरुषस्यास्वातन्त्र्यं भवति। तत्र दृष्टान्तमाह - यथेति रोगादीनां पुरुषजत्वेऽपि बुद्धिपूर्वकत्वाभावात् तत्र पुरुषस्यास्वातन्त्र्यं यथेत्यर्थः। ततश्चाबुद्धिपूर्वमुत्पादकत्वादस्वातन्त्र्यम्। अस्वातन्त्र्याप्राधान्यं प्रसज्येतेति। तथा च महातात्पर्यविरोध इत्युक्तं भवति। साक्षात्प्रसङ्गसम्भवेऽपि व्युत्पादनार्थमेवमुक्तम्।
ननु वेदनित्यत्ववत्तदुत्पत्तावपि ‘ऋचः सामानि जज्ञिरे’ (ऋ.8.6) इत्यादि वचनानि सन्ति। तत्कथं निर्णयः? इत्यतो विपक्षे बाधकोपेतानां नित्यत्ववाक्यानां प्राबल्यादुत्पत्तिवचनान्यन्यथा व्याख्येयानीत्याह- उत्पत्तीति। उत्पत्तिवाची शब्दोऽभिव्यक्तौ क्व दृष्टः? इत्यत आह - नित्येति। ‘अनादिनिधनतया नित्या न तूपचारेण’ इति मुख्यं नित्यत्वम् उक्त्वा पुनः ‘ इत्युच्यते’ तत्र गत्यन्तराभावाद्व्यक्तिरेव ग्राह्येत्यर्थः।
अन्यत्रापि प्रयोगं दर्शयति- अभिव्यञ्जक इति। शतपथाभिव्यञ्जकतया निश्चिते याज्ञवल्क्ये कर्तृशब्दोऽस्तीत्यर्थः। याज्ञवल्क्यः शतपथस्य कर्तैव किं न स्यात्? इत्यत आह- कथमिति। प्रागादित्ये स्थिताः ततो याज्ञवल्क्येनाधीता इत्येतत्प्रमितमित्यर्थः। इतोऽपि नित्यत्वपक्ष एव बलवानित्याह- वचनेति। ‘ऋचः सामानि’ इत्यादिकं वचनमात्रम् ।
‘अत एव च नित्यत्वं‘ (ब्र.सू.1.3.29)
इति शारीरकोक्तं वाक्यं निर्णयात्मकम् । वचनं च वृत्त्यन्तरेणापि सम्भवतीति । न तूपचरितो वाक्यार्थावधारणात्मको निर्णयः। अतस्तस्मादिदं बलवदित्यर्थः।
ननु शारीरके ‘शास्त्रयोनित्वात्‘ (ब्र.सू.1.1.3) इति ब्रह्मणो वेदकारणत्वमुच्यत इत्यत आह- शास्त्रमिति।
ननु तत्पुरुषं परित्यज्य कुतो बहुव्रीहिरङ्गीक्रियते? तथात्वे च ब्रह्मणो वेदाज्जातत्वं प्रसज्येत इत्यत आह- जन्मादीति। लक्षणप्रमाणाभ्यां हि वस्तुनिर्णयः। तत्र ‘जन्माद्यस्य‘ इति सूत्रेण लक्षणेऽभिहिते कुतः प्रमाणादेवं प्रतिपत्तव्यं? इति ब्रह्मणो जगज्जन्मादिकारणत्वे प्रमाणाकाङ्क्षा स्यात्। न तु तस्य वेदाज्जातत्वं वेदकारणत्वं वाऽऽकाङ्क्षितम्। आकाङ्क्षादिवशाच्च वाक्यार्थोऽवसेयः। अतो योनिशब्दं प्रमाणवाचिनमङ्गीकृत्य बहुव्रीहिरेवायं प्रतिपत्तव्यः न तु तत्पुरुषः। वेदकारणत्वं च जगत्कारणत्वे हेतुत्वेनात्रोच्यते। अतो नानाकाङ्क्षिताभिधानमेतदित्यत आह- नहीति। अन्वयाभावात् एकदेशकारणत्वेन समुदायकारणत्वानुमानेऽतिप्रसङ्गाच्चेति हेरर्थः।
मा भूदयं निश्चयहेतुः। तथाऽप्यशक्यसृष्टेर्वेदस्य कर्तुर्ब्रह्मणो जगत्सृष्टिकर्तृत्वं सम्भवतीति सम्भावनाहेतुरयं स्यादित्यत आह- न हीति। सम्भावना ह्यधिकेनाल्पस्य भवति। यथा सहस्रेण शतस्य। नच समुदायसृष्टेस्तदेकदेशसृष्टिरधिकेति भावः। सृज्यत्वे वेदस्य। कार्यत्वपक्ष इत्यर्थः। जगत्कारणत्वोक्त्या ब्रह्मणः सर्वज्ञत्वं प्रतीतं। तत्स्फुटीकर्तुं तत्र वेदकारणत्वं हेतुरनेनोच्यते। अतो नासङ्गतिरित्यत आह- न चेति। ‘वेदकारणत्वं हेतुः‘ इत्यनुवर्तते। अबुद्धिपूर्वमुत्पन्नत्वाङ्गीकारादिति भावः।।
किञ्च यदि जगदेकदेशस्य वेदस्य स्रष्टा परमेश्वरः सर्वज्ञः सिद्ध्येत् तर्ह्यन्तर्भावितवेदस्य जगतः स्रष्टा सुतरां सर्वज्ञः सिद्ध्येदेव। तथा चार्थादपि जन्मादिसूत्रेणैव सार्वज्ञस्य स्फुटं प्रतीतत्वात् पुनर्हेत्वाकाङ्क्षाऽभावेनासङ्गतिस्तदवस्थेति भावेनाह- यदीति।
सूत्रार्थमुपसंहरति तस्मादिति। ‘ब्रह्मणः‘ इति शेषः।
‘तानि च‘ इत्यादिनोक्तमुपसंहरति -अत इति। तथा च न समुद्भवशब्दस्य मुख्यार्थत्वलाभाय ब्रह्माक्षरशब्दार्थव्यत्ययः कार्य इति। तस्मादिति परामर्शविषयाप्रतीतेस्तं दर्शयन्वाक्यं व्याख्याति-यत इति। प्रतिष्ठितम् ‘इत्युच्यते‘ इति शेषः।
गीताभाष्यम्
हरिः ओम् ।
कर्म ब्रह्मणो जायते।
‘एष ह्येव एनं साधु कर्म कारयति’ (कौ.उ.3.8)
‘बुद्धिर्ज्ञानम्’ (10.4) इत्यादिभ्यः।
न च मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम्। न च जडानां स्वतः प्रवृत्तिः सम्भवति ‘एतस्य वाSक्षरस्य’ (बृ.उ.3.8.9) इति सर्वनियमनश्रुतेश्च।
‘द्रव्यं कर्म च कालश्च’ (भाग. 2.10.12) इत्यादेश्च।
‘अचिन्त्य’ शक्तिश्चोक्ता। जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा ।
‘न कर्तृत्वम्’ (5.14) इत्यादि निषेधाच्च।
अक्षराणि प्रसिद्धानि। तेभ्यो ह्यभिव्यज्यते परं ब्रह्म। अन्यथा अनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति।।
न च रूढिं विना योगाङ्गीकारो युक्तः। परामर्शाच्च ‘तस्मात्सर्वगतं ब्रह्म’ (3.15) इति।न ह्येकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते।।
तानि चाक्षराणि नित्यानि।
‘वाचा विरूप नित्यया’ (ऋ. 8.6.4-6)।
‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’ । (म.भा.12.232.124)
‘अत एव च नित्यत्वम्’ (ब्र.सू.1.3.29) इत्यादि श्रुतिस्मृतिभगवद्वचनेभ्यः।
दोषाश्चोक्ताः सकर्तृकत्वे। न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात्। निश्श्वसितशब्दस्त्वक्लेशाभिप्रायः नाबुद्धिपूर्वाभिप्रायः।
‘सोऽकामयत’ (तै.उ.2.11) इत्यादेश्च।
‘इष्टं हुतं’ (बृ.उ 6.1.2) इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च।
महातात्पर्यविरोधाच्च। तच्चोक्तं पुरस्तात् (गी-भा 2.24) । न ह्यस्वातन्त्र्येण उत्पत्तिकर्तुः प्राधान्यम्। अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति। यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि। उत्पत्तिवचनान्यभिव्यक्त्यर्थानि अभिमानिदेवताविषयाणि च। ’नित्या ’ इत्युक्त्वा ‘उत्सृष्टा’ इति वचनात्। अभिव्यञ्जके कर्तृवचनं चास्ति।
‘कृत्स्नं शतपथं.... चक्रे’(म.भा 12.318.16) इति।
कथमादित्यस्था वेदास्तेनैव क्रियन्ते? वचनमात्राच्च निर्णयात्मकशरीरकोक्तं बलवत्।।
शास्त्रं योनिर्यस्य तत् (इति तु) शास्त्रयोनित्वम्।
‘जन्माद्यस्य’ (ब्र.सू.1.1.2 )
इत्युक्ते प्रमाणं हि तत्रापेक्षितम्। न तु तस्य जातत्वं वेदकारणत्वं वा। न हि वेदकारणत्वं जगत्कारणत्वे हेतुः।।
न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे। न च सर्वज्ञत्वे। यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा सर्वज्ञः? तस्माद्वेदप्रमाणकत्वमेवात्र विवक्षितम्। अतो नित्यान्यक्षराणि। यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म, तस्मात् तत् नित्यं यज्ञे प्रतिष्ठितम्।।
गीतातात्पर्यम्
हरिः ओम् ।
Notes