अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
‘एवमज्ञानिनः कर्म कर्तव्यमित्युक्तम् इदानीं ज्ञानिनः कर्तव्याभावमाह’ इति परव्याख्यानमसदिति भावेन सङ्गतिमाह- तर्हीति।। यद्येवं कर्माकरणे हानिः तत्करणे च लाभः, तर्हीत्यर्थः। परमेश्वरे अतीवमनस्समाधानम् असम्प्रज्ञातसमाधिरित्यर्थः। न कार्यं ’प्रसज्येत ’ इति शेषः। तत्र कर्मलोपस्यावश्यम्भावादिति भावः।
अत्र रतितृप्तिसन्तोषशब्दांस्तावद्व्याचष्टे- रमणमिति। ’पर ’इति स्वरूपकथनम्। न शब्दार्थान्तर्भूतम्। तथा च पञ्चमेऽभिधानं वक्ष्यते। तथात्वे आत्मशब्देन जीवनिराकरणं च व्यर्थं स्यात्। यद्दर्शनादिनिमित्तं सुखं ततो अन्यत्र। तज्जनकं तृप्तेर्जनकम्। तृप्तिकारणं सुखमिति शेषः।
इदानीमात्मशब्दस्य जीवविषयत्वप्रतीतिनिरासार्थमात्मरतिरिति समस्तं पदं व्याख्याति- परमात्मेति। प्राप्त आत्मरतिरिति शेषः। अनेनात्मनि रतिर्यस्येति विग्रहः सूचितः। आत्मनो रतिर्यस्येति वा। एवमुत्तरावप्यात्मशब्दौ परमात्मार्थौ ज्ञातव्यौ। न चैवं सति तृप्तशब्दस्य परमात्मनोऽन्यत्रालम्बुद्धिरर्थः स्यात्। ततश्चेदं न वक्तव्यम्। आत्मरतिरेवेत्यवधारणेनान्यरतिनिरासेन पौनरुक्त्यप्रसङ्गादित्यत आह- अन्यत्रेति। अलम्बुद्धिं च प्राप्तः तृप्तशब्देनोक्तः इति शेषः।
अलम्बुद्धिरिति पाठे ’तृप्तशब्दार्थः ’ इति शेषः। अवधारणेनैवान्यत्र रत्यभावे लब्धेऽपि सर्वात्मनाऽन्यत्रालम्बुद्धिं वक्तुं ’तृप्तः’ इति पुनर्वचनम्। अवधारणस्यान्यत्रालम्बुद्धिमात्रद्योतनेन चरितार्थस्य ’सर्वात्मना ’ इत्यत्राप्रवृत्तेरिति भावः।
ननु ’सन्तुष्टः ’ इत्यनेनालम्बुद्धिजनकं सुखं प्राप्त इत्युच्यत इत्युक्तम्। तत्किं विषयजन्यम्? उतात्मरत्याख्यम्? नाद्यः। विरोधात्। न द्वितीयः। तस्यात्मरतिशब्देनोक्ततया पुनरुक्तिप्रसङ्गात्। कथं चतस्यान्यत्रालम्बुद्धिजनकत्वम्? इत्यत आह- महच्चेति। चशब्दो हेतौ। तदात्मरत्याख्यं । प्रागुक्तमेव सुखं पुनरन्यत्रालम्बुद्धिकारणत्वेनोच्यते। अतो न दोषः। तस्य च महत्त्वं संशब्देनोक्तम्। अतस्तत्कारणत्वं चोपपन्नमित्यर्थः।
आत्मरतिः सन्तोषशब्देन गृह्यते चेत् पुनः आत्मनि इति व्यर्थमित्यत आह- तत्स्थ एवेति। सन्तोषाख्यात्मरतिः केनास्य जाता? इत्यपेक्षायामसम्प्रज्ञातसमाधिलक्षणया परमात्मनि स्थित्येति ज्ञापयितुं ‘आत्मनि’ इत्युक्तमित्यर्थः। अवधारणस्य प्रयोजनमाह- नान्यदिति। अन्यत् असम्प्रज्ञातसमाधिरूपात्तत्स्थत्वात्।। एतेन ’ आत्मरतिरेव’ इत्यवधारणेनास्य पुनरुक्तता परिहृता।
ननु ‘आत्मतृप्तः’ इति कोऽयं समासः? इत्यत आह- आत्मनेति न केवलमात्मरत्याख्येन सुखेन, किन्तु प्रसन्नेन परमात्मनैवेत्यर्थः। पञ्चमीसमासः कथं न स्यात्? इति चेत् न। असामर्थ्यात्। ‘अन्यत्र’ इत्यनेन ह्यस्य सामर्थ्यम्। न तु तृप्तशब्दार्थेन। तृप्तशब्दार्थ एवान्यत्रार्थान्तरभूतोऽस्तीति चेत् न। तस्य प्रकरणलब्धस्य तदन्तर्भावाभावात्। अन्यथा ‘वयं तु न वितृप्यामः’ इत्यत्र ततोऽन्यत्रालम्बुद्धिं न प्राप्नुमः’ इत्यर्थप्रसङ्गात्। अस्तु तर्हि सप्तमीसमास इति, नेत्याह- न हीति। पूर्वविशेषणविरोधात्, प्रमाणान्तरविरोधाच्चेति भावः।
स्यादयं दोषो यदि तृप्तशब्दस्यालम्बुद्धिवाचित्वं स्यात्। तदेव कुतः? इत्यत आह -तद्वाचित्वं चेति। नन्वत्र तृप्तिशब्दः प्रीत्यर्थः। न चैवं सत्यर्थानुपपत्तिः।उत्तमश्लोकविक्रमैः श्रूयमाणैर्निमित्तैरन्यत्र प्रीतिं न प्राप्नुम इत्यध्याहारेणोपपत्तेरित्यत आह -अध्याहारस्त्विति। गत्यन्तररहितागमनिका। अध्याहारो ह्यश्रुतशब्दकल्पनम्। तच्च कल्पकसद्भावे न दोषः। अन्यथा तु दोष एव। कल्पकं च गत्यन्तरराहित्यम्। अन्यथाऽनुपपत्तिरिति यावत्। अत्र त्वलम्बुद्ध्यर्थत्वे गृहीते विनाऽप्यध्याहारेण वाक्यार्थोपपत्तेरयुक्तोऽसाविति भावः। षष्ठीसमासस्तु ’पूरणगुणसुहितार्थ ’(अष्टा.2.2.11) इति प्रतिषिद्धः।
अपव्याख्यानं निराचष्टे -आत्मरतिरेवेति। ’न ज्ञानिमात्रस्य’ इत्येवार्थः।
इतोऽपि न ज्ञानिमात्रस्य कार्याभाव इत्याह- स्थितप्रज्ञस्यापीति। स्वधर्मः कार्य इति सम्बन्धः। ’आत्मरतिरेव’ इत्यवधारणेऽपि कुतो न ज्ञानिमात्रविषयमेतत्? इत्यत आह -अन्यदेति। अवधारणेन ह्यनात्मरतिर्व्यावर्त्यते। असम्प्रज्ञातसमाधिकालात् अन्यदा सर्वस्य ज्ञानिनः अपीषदन्यरतिः भवति इत्युपपादितम्। अतोऽसम्प्रज्ञातसमाधिस्थव्यतिरिक्तानां ज्ञानिनामप्यवधारणेन व्यावर्तितत्वान्न तद्विषयमेतदिति भावः।
ननु ज्ञानिनामन्यरतौ विद्यमानायामपि तत्रालम्बुद्धिरप्यस्तीति ‘आत्मरतिरेव’ इत्यवधारणमुपपद्यत इत्यत आह- न चेति। तत्र श्लोके। तत्र कार्याभावे। प्रयोजकत्वेनात्मनोऽन्यत्र अलम्बुद्धिमात्रम् अल्पालम्बुद्धिः। रतिसहचरितालम्बुद्धिरिति यावत्। नोक्ता किं तर्हि? सर्वात्मनाऽलम्बुद्धिः। कुतः? इत्यत आह -आत्मेति। अवधारणेनान्यत्रालम्बुद्धौ लब्धायामपि यत्पृथगात्मतृप्त इत्यभिधत्ते, तेन सर्वात्मनाऽलम्बुद्धिरवधारणेनाभिप्रेतेति ज्ञायत इति प्रागुक्तम्। अतो ज्ञानिमात्रे नेदमुपपद्यत इत्यर्थः।
‘यस्त्वात्मरतिरेव’ इत्येतदसम्प्रज्ञातसमाधिस्थ एव सम्भवि तथापि ‘यत्पतति’ तद्गुर्वितिवत् ‘य एवंविधः कदाचित्तस्य सर्वदा कार्यं न विद्यते’ इत्येवं व्याख्याने ज्ञानिमात्रस्य कार्याभावः सेत्स्यति। न ह्यत्र यदैवं तदेति कालावच्छेदकशब्दोऽस्ति। आत्मरतिरिति समासस्तु रतेः कर्तारमेवाचष्ट इत्यत आह- कर्तृशब्द इति। अयं च यदा तदेति रहितोऽपीत्यर्थः। आदिग्रहणेन ‘यो दारान् परिगृह्णाति स गृही‘ इत्यादेः परिग्रहः।
अयं भावः। ‘तस्य कार्यं न विद्यते‘ इत्युक्तेऽतिप्रसक्तौ सत्यामन्यव्यावर्तकं यस्त्वात्मरतिरेव स्यात् इत्यनेनोक्तम्। व्यावर्तकं च द्विविधं भवति। विशेषणमुपलक्षणं चेति। तत्र व्यवच्छेद्यसमानकालं विशेषणम्। यथा सिद्धान्त्युदाहृतं भोजनम्। अन्यथा तूपलक्षणं। यथा पूर्वपक्ष्युदाहृतं पतनम्। तत्र विशेषणं मुख्यम्। विशेषज्ञानहेतुत्वात्। अन्यदमुख्यम्। वैपरीत्यात्।मुख्यामुख्ययोश्च मुख्ये कार्यसम्प्रत्ययः। न चात्र विशेषणत्वग्रहणे बाधकमस्ति। येनोपलक्षणमेतदिति प्रतीम इति।
कर्तृशब्द इत्युक्तस्य फलमाह- अत इति। एतत्कार्यराहित्यम्।‘समाधावेव‘ इत्युक्त्या समानकालतां सूचयति।
नन्वसम्प्रज्ञातसमाधिस्थस्य कार्याभावे व्याख्यायमाने कदाचिदपरोक्षज्ञानरहितस्यापि असम्प्रज्ञातसमाधिसम्भवात् कार्याभावप्रसङ्ग इति चेत् न। अपरोक्षज्ञानिन एव असम्प्रज्ञातसमाधिर्भवति नान्यस्येत्यस्यार्थस्य ‘मानवः‘ इति पदेन भगवतैव दर्शितत्वादित्याह -मानव इति।
‘मानवः‘ इति कथं ज्ञानिनो वाचकम्? इत्यत आह- मन्विति। धातोर्व्याख्यानादिति शेषः। अस्माद्धातोर्भावे उप्रत्ययः। ततो मनुरवबोधोऽस्यास्तीत्यस्मिन्नर्थे मनोरयमाश्रय इत्यर्थे वाऽण्प्रत्ययः। यद्वा धातोरेव वाण्प्रत्ययः। ‘मनुष्यः‘ इतिव्याख्यायामृष्यादिव्यावृत्तिर्वैयर्थ्यं चापद्येत।
आत्मशब्दस्याप्यन्यथाव्याख्यां निराकरोति- परमात्मेति।चशब्दोऽवधारणे। न स्वात्मरतिरित्यर्थः। तस्यैव इत्यवधारणादिति।
गीताभाष्यम्
तर्ह्यतीव मनस्समाधानमपि न कार्यमित्यत आह - यस्त्विति। रमणं परदर्शनादिनिमित्तं सुखम्। तृप्तिरन्यत्रालम्बुद्धिः। सन्तोषस्तज्जनकं सुखम्।
‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानात्।
परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः। अन्यत्र सर्वात्मनाऽलम्बुद्धिः।
महच्च तत्सुखं च। तेनैवान्यत्रालम्बुद्धिरिति दर्शयति। आत्मन्येव च सन्तुष्ट इति। तत्स्थ एव सन् सन्तुष्ट इत्यर्थः। नान्यत्किमपि सन्तोषकारणमित्यवधारणम्।
आत्मना तृप्तः। न ह्यात्मन्यलम्बुद्धिर्युक्ता।
तद्वाचित्वं च – ‘वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः’ (भाग.1.1.19) इति प्रयोगात्सिद्धम्। अध्याहारस्त्वगतिका गतिः।
आत्मरतिरेव इत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते।
‘स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते । यद्वास्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता’ इति वचनाच्च पञ्चरात्रे।
अन्यदाऽन्यरतिरपीषत्सर्वस्य भवति।
न च तत्रालम्बुद्धिमात्रमुक्तम्। आत्मतृप्त इति पृथगभिधानात्। कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धः-‘यो भुङ्क्ते स तु न ब्रूयात्’ इत्यादौ
अतोऽसम्प्रज्ञातसमाधावेवैतत्।
‘मानवः’ इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति। ‘मनु अवबोधने’ (पा.धा.1471) इति धातोः। परमात्मरतिश्चात्र विवक्षिता। ‘विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि’ इति वचनात्।
गीतातात्पर्यम्
हरिः ओम् ।
तृप्तिसन्तोषशब्दयोः पर्यायत्वेपि परमात्मना तृप्तः परमात्मनि तृप्त इति विशेषः ।
'विष्णुप्रसादाद्रतिमांस्तृप्तो विष्णुप्रसादतः ।
विष्णावेवातितृप्तश्च मुक्तोसौ विध्यगोचरः'' ॥ इत्याग्नेये ।
'रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता ।
प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च'' ॥ इति शब्दनिर्णये ।
'सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः'' । इत्यभिधानम् ॥१७ ॥
Notes