अर्जुनः श्रीकृष्णं पृच्छति । हे कृष्ण - संदेहोत्पादकेन वाक्येन मम मनः चञ्चलं विदधासि । येन अहं श्रेयः प्राप्तुं शक्नोमि तदेकं मार्गं निश्चित्य मे ब्रूहि इति ।।3.2।।
अर्जुन् पूछते है - हे कृष्ण, संशय जगानेवाले इस बात से मेरे मन को चञ्चल कररहे हो । जिस से मेरा अत्यन्त कल्याण हो उस एक मार्ग को निश्चय करके बतावो ।।3.2।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣ! ಸಂಶಯವನ್ನು ಉಂಟುಮಾಡುವ ವಚನದಿಂದ ನನ್ನ ಮನಸ್ಸನ್ನು ಚಂಚಲವಾಗಿಸುತ್ತಿರುವಿ. ನಾನು ಶ್ರೇಯಸ್ಸನ್ನು ಹೊಂದುವ ಒಂದು ಹಾದಿಯನ್ನು ನಿಶ್ಚಯಿಸಿ ನನಗೆ ಹೇಳು. 3.2
అర్జునుడిట్లనె - ఓ కృష్ణ, సంశయము కలిగింపజేయు వచనముచే నా మనస్సును చంచలము చేయుచున్నావు. నాకు శ్సేయస్సు కలుగజేయు ఒక్క మార్గమును నిశ్చయించి నాకు తెలుపగలవు. 3.2
Tamil
Arjuna asked - O Krishna, You are creating a state of confusion in my mind by such words of conflicting conclusions. Hence, kindly ascertain and reveal to me that one path by which I can surely obtain the greatest benefit. 3.2
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । पूर्वोत्तराध्यायेभ्यो अस्य भेदं, स्वस्मिन्नेकवाक्यतां च दर्शयन् एतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायसङ्गतत्वेन विवक्षुः तत्प्रतिपाद्यं तावदाह - आत्मेति ।। जीवेश्वरस्वरूपं साङ्ख्याख्यं इत्यर्थः । ज्ञानसाधनम् ।। आत्मज्ञानसाधनं योगाख्यम् । पूर्वत्र पूर्वस्मिन्नध्याये । न चैवं द्वितीयाध्यायस्यैक्यानुपपत्तिः । साधनस्यैव प्राचुर्यात् । प्रचुरेण च व्यपदेशात् । तथा च सप्तमादौ वक्ष्यति । साधनं प्राधान्येनोक्तम् अतीतैरध्यायैः इति । आत्मस्वरूपम् इत्यादि तु प्रकरणभेदप्रदर्शनायोक्तमिति ।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह - ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाsपि कर्मविध्यर्था इत्येकार्थता । तथाsपि प्रकरणभेदार्थं एवमुक्तम् । ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञात एव ।। बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह - कर्मण इति ।। आदिपदेन कृपणाः फलहेतवः (2-49) इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्पुपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् , यत्याश्रमविहितान् शमदमादीन् । अत्र कर्मणि किमिति नियोजयसि इत्येकः प्रश्नः । घोरे इति द्वितीयः इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् सर्व एते पुण्यलोका भवन्ति (छा. 2.2.16) इत्यादि । तथाsत्रापि हतो वा प्राप्स्यसि स्वर्गम् (2-27) इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्येत् (बृ. 6.4.24) इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्णणोsत्युत्तमम् इत्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे युध्यस्व भारत (2-18) इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इति नियोक्तव्यम् । ननु यद्धमपि कर्मबन्धं प्रहास्यसि (2-39) इत्युक्तत्वाद् ज्ञानार्थं भवतीति मतम्, तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यान्यकाम्यानि च । तत्र यः सकामः तं प्रति हतो वा (2-37) इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य कर्मण्येवाधिकारः (2-47) इत्युक्तम् । तत्र का व्यामिश्रता इति । तथाsपि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोsवर्जनीयाः । ततोsपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं सुखदुःखे समे कृत्वा (2-38) इत्युक्तम् । सत्यम् । तथाsपि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वाद् अन्वयं दर्शयन् किञ्चिद् व्याचष्टे - कर्मण इति ।। षष्ठीभ्रान्तिनिरासाय सकाशाद् इत्युक्तम् । बुद्धिः आत्मज्ञानम् । ज्यायसी प्रशस्ततरा ।
गीताभाष्यम्
हरिः ओम् । आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयते उत्तराध्याये । कर्मणो त्रानम् अत्युत्तमम् इत्यभिहितं भगवता दूरेण ह्यवरं कर्म (2-49) इत्यादौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह - ज्यायसीति । कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत् ते तव मता तत् तर्हि ।।
गीतातात्पर्यम्
हरिः ओम् ।
Notes