अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
’प्रकृतेर्गुणसम्मूढाः ’ इत्यत्र गुणशब्दस्य विवक्षितमर्थं वदन् विग्रहं दर्शयति -प्रकृतेरिति। नित्यसापेक्षत्वाद् गुणशब्दस्य नासामर्थ्यमिति प्रदर्शनाय ’प्रकृतेः ’ इत्यनुवादः, देवदत्तस्य गुरुकुलमिति यथा। प्रकृतेर्गुणसम्मूढत्वात् सज्जन्ते गुणकर्मसु इति हेतुहेतुमद्भावोऽत्र विवक्षितः। अन्यथा वैयर्थ्यापत्तेः। तमुपपादयति - इन्द्रियादीति। अभिमानः ममैवैतानि स्वातन्त्र्येण करणानीति भ्रमः। ’विषयादि ’ इत्युक्त्या गुणशब्दोऽत्र विषयार्थ इति दर्शयति। आदिशब्देन कर्मग्रहणम्। विषयेषु सङ्गः स्नेहादिः। कर्मसु स्वातन्त्र्यभ्रमः।’गुणानां कर्मसु ’ इति केनचित् व्याख्यातम्। तदसदिति भावेन द्वन्द्वोऽयमिति दर्शयति -गुणेति। द्वन्द्वपरिग्रहेऽधिकार्थलाभात्। अनेन ’विषयादि’ इत्येतदपि समर्थितं भवति।
गुणशब्दस्योक्तानेकार्थत्वं कुतः? इत्यत आह- शब्दाद्या इति। निरुच्यत इति निरुक्तिः शब्दार्थः। निरुक्तिं गच्छन्त्यवगच्छन्तीति निरुक्तिगाः। अस्तु गुणशब्दस्यानेकेष्वर्थेषु शक्तिः तथापि विवक्षाऽत्रैकस्यैवार्थस्य युक्ता। अन्यथा ’न ह्येकशब्देन’ (3.15) इत्युक्तविरोधात्। शब्दो हि यमर्थमादौ स्मारितवान् स एवार्थो बुद्धौ सन्निहितः पुनरुच्चारितेन स्मारयितुं युक्तः। तथा चात्र सर्वत्र सत्त्वादय एव ग्राह्याः। तद्ग्रहणे शब्दादीनामपि तदात्मकानां ग्रहणसम्भवादित्यत आह- सत्त्वादीति। कर्तृत्वाधारत्वयोरेकत्र विरोधादिति भावः। तदात्मकानाम् (इन्द्रियादीनाम्) उपलक्षणे सति वृथा प्रयासः। अनयैवानुपपत्त्याऽनेकार्थग्रहणोपपत्तेः।
गीताभाष्यम्
हरिः ओम् ।
प्रकृतेः गुणेषु इन्द्रियादिषु सम्मूढाः। इन्द्रियाद्यभिमानाद्धि विषयादिषु सङ्गः। गुणकर्मसु विषयेषु कर्मसु च।
’शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च।
अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः।’ इत्यभिधानात्। सत्त्वाद्यङ्गीकारे ’गुणा गुणेषु ’ (3.28) इत्ययुक्तं स्यात्।
गीतातात्पर्यम्
हरिः ओम् ।
Notes