श्रीकृष्णः वदति । हे पापरहित अर्जुन - मया पूर्वाध्याये अस्मिन् लोके मुक्तिरूपा सिद्धिः साङ्ख्यानां ज्ञानयोगेन योगिनां कर्मयोगेन भवति इति उक्ता आसीत् इति ।।3.3।।
श्रीकृष्ण कहते है - हे पापरहित अर्जुन, मैने पूर्वाध्याय मे इस लोक मे मुक्ति की सिद्धि साङ्ख्योको ज्ञानयोग से और् योगियों को कर्मयोग से होती है ऐसा कहा था । ।।3.3।।
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ಪಾಪರಹಿತನಾದ ಅರ್ಜುನನೇ, ಪೂರ್ವಾಧ್ಯಾಯದಲ್ಲಿ ನಾನು ಈ ಲೋಕದಲ್ಲಿ ಮುಕ್ತಿರೂಪ ಸಿದ್ಧಿಯು ಸಾಂಖ್ಯರಿಗ ಜ್ಞಾನಯೋಗದಿಂದಲೂ ಯೋಗಿಗಳಿಗೆ ಕರ್ಮಯೋಗದಿಂದಲೂ ಆಗುವುದೆಂದು ಹೇಳಿರುವೆನು.
శ్రీకృష్ణుండిట్లనె - ఓ పాపరహితుడవైన అర్జునుడ - ఈ లోకములో సాంఖ్యులకు జ్ఞానయోగమువలన యోగులకు కర్మయోగమువలననూ సిద్ధి కలుగగలదని పూర్వాధ్యాయములో నాచే చెప్పడమైనది.
Tamil
Sri Krishna replied - O sinless Arjuna, It was told by me in the previous chapter that the Sankhyas attain liberation by Jnana Yoga and the Yogis by Karma Yoga - thus.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । एवं चेत् प्रश्नः, तर्हि कथं परिहारवाक्यं सङ्गच्छते? तत्र निष्ठाद्वैविध्यकथनाद् इत्यतस्तदभिप्रायं वदन्नवतारयति - ज्यायस्त्वेsपीति ।। 'बुद्धिः काम्यकर्मभ्यो ज्यायसी ' इति यदुक्तं तत् तथैवेत्यर्थः । तथाsपि त्वां तत्रैव वैकल्पिके युद्धादिकर्मणि प्रेरयामि । कुतः? आधिकारिकत्वात् । त्वं कर्मण्यपि विक्षेपकारिण्यपि वैकल्पिकेsधिकृत इति कृत्वा । अयमत्रोत्तरक्रमः। आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च न शुद्धकाम्यानि । किन्तु कर्तुरिच्छया स्वर्गाद्यर्थानि ज्ञानाद्यर्थानि च भवन्ति। अतो बुद्धेः काम्यकर्मणो ज्यायस्त्वेsपि युद्धस्य बुद्ध्यर्थत्वसम्भवात् तत्र नियोगो नानुपपन्नः। यतिधर्मान् विना किमेतेन नियोगेन ? इति चेद् अनाधिकारिकाणामेव यत्याश्रमस्वीकारो नाधिकारिकाणाम् । तैर्गृहस्थाद्याश्रमम् अपरित्यज्यैव तद्विहितानि कर्माणि निष्कामतयाsनुष्ठेयानीतीश्वरनियमात् तव चारिकाधिकत्वादिति ।।
‘स्वराद्यन्तोपसृष्टाच्च ‘ इति कात्यायनवचनमनित्यम् । अत एव न पाणिनिरभाणीत् । अयमाशयः श्लोकात् कथं लभ्यते ? इत्यतो व्याचष्टे – द्विविधा अपीति ।। ‘निष्ठा द्विविधा‘ इति व्याख्याने क्रमेणैकस्यैव पुरुषस्य तत्सम्भवान्नोक्ताभिप्रायो लभ्यत इत्येवं व्याख्यानम्। न केवलमेकविधाः साङ्ख्या एवेत्यपेरर्थः। द्वैविध्यमेव सोदाहरणमाह – गृहस्थादीति ।। यत्याश्रमपरिग्रहेणेत्यपि ग्राह्यम् । ज्ञाननिष्ठा यत्याश्रमविहितैरेव कर्मभिर्ज्ञानसाधनेsभियुक्ताः। सनकादिभिस्तुल्यं वर्तन्त इति सनकादिवत् । एवं ‘जनकादिवत्‘ इत्यपि । तत्स्था एव गृहस्थाद्याश्रमस्था एव । तद्धर्मैर्युद्धादिभिर्ज्ञानसाधनेsभियुक्ताः। द्विविधा अपि जनाः सन्तीत्युक्ते कर्ममार्गस्था ज्ञानमार्गस्थाश्चेति द्वैविध्यं प्रतीयते । तन्निवृत्त्यर्थमाह – मद्धर्मेति ।। ज्ञानमार्गस्था एव । ततश्च मद्धर्मस्था एव जनाः द्विविधा अपि सन्तीत्यन्वयः । तत् कथम् ? इत्याकाङ्क्षायाम् उत्तरं वाक्यद्वयम् । ‘साङ्ख्यानाम्’ ‘योगिनाम्’ इति पदद्वयम् अन्यथाप्रतीतिनिरासाय व्याचष्टे – साङ्ख्यानामिति ।।
सम्यक् ख्यातिर्ज्ञानं सङ्ख्या। तत्र भवाः साङ्ख्याः। तेषां , ज्ञानिनाम् ज्ञाननिष्ठानामित्यर्थः । ननु जनकादयोsपि ज्ञाननिष्ठाः । तत् कथं ‘योगिनः‘ इत्यत आह – ज्ञाननिष्ठा अपीति ।। कर्मयोग्याः गृहस्तादिकर्मयोग्याः । साङ्ख्ययोगशब्दौ प्रसिद्धार्थो किं न स्यात् ? इत्यतो मुक्तिवचनादिति भावेनाह - निष्ठेति ।। स्थितिः ‘स्वरूपेण‘ इति शेषः । अस्त्वेवं श्लोकार्थः । तथाsप्याधिकारिकत्वादिकम् अत्र न श्रूयत इत्यतोsध्याहृत्याह – त्वं त्विति ।। सकर्मा गृहस्तादिकर्मवान् । भवेदिदं व्याख्यानं यदि ते जनाः प्रमिताः स्युर्येषां ज्ञाननिष्ठानामपि गृहस्तादिकर्मस्वेवाधिकारो न यत्याश्रमकर्मसु । जनकादयस्तु यत्याश्रमं नानुष्ठितवन्त इत्येवं प्रमितम्, न तु तत्रानधिकार इति तत्राह – सन्ति हीति ।। विनिवेशितः कर्माधिकारो गृहस्तकर्माधिकारो यस्मिन् स तथोक्तः । प्रियव्रतो हि यत्याश्रमं स्वीचिकीर्षुराधिकारिकत्वयुक्त्या हिरण्यगर्भेण निवारित इत्यनेनोच्यते ।।3।।
गीताभाष्यम्
हरिः ओम् । 'ज्यायस्त्वेsपि बुद्धेः, आधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामि' इत्याशयवान् भगवानाह- लोक इति || द्विविधा अपि जनास्सन्ति। गृहस्तादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योगिनाम् उपायिनां जनकादीनाम्। ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्त्वाच्च ये कर्मयोग्या भवन्ति तेsपि योगिनः । निष्ठा स्थितिः। त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यो, न तु सनकादिवत् तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोsपि ज्ञानिन एव । तथा ह्युक्तम् 'ईश्वरेच्छया विनिवेशितकर्माधिकारः' इति (भाग. 5-1-23) ।।3।।
गीतातात्पर्यम्
हरिः ओम् ।
ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः ।
'साङ्ख्या ज्ञानप्रधानत्वाद् देवाश्च यतयस्तथा ।
मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद् यतः ।
बहुकर्मकृतोप्येते ततोपि बहुवेदनात् ।
मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ।
ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः ।
नोभयं तद् विना कश्चित् पुमान् हि पुरुषार्थभाक् ।
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत्'' ॥ इति ब्रह्मवैवर्ते ।
निष्ठा पर्यवसितिर्मुक्तिः ।
'ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा ।
आनन्दवृदि्धरन्येन ह्रासो ज्ञानं तु कर्मणा'' ॥ इति परमश्रुतेः ।
'न कर्मणा न प्रजया धनेन'' इत्यादिविरोधो न । अन्यथा 'न कर्मणामनारम्भात्'' इत्याद्युभयसमवाक्यशेषविरोधश्च । समत्वं च 'न हि कश्चित्'' इत्यादेः । 'नान्यः पन्थाः'' इत्यपि ज्ञानमृते न मोक्ष इत्येवाह ॥ ३,४ ॥
Notes