यः कर्मेन्द्रियाणि उपलक्षणतया ज्ञानेन्द्रियाणि च निगृह्य इन्द्रियविषयान् मनसा स्मरन् वर्तते सः मूर्खः डाम्भिकः इत्युच्यते ।।3.6।।
यः मनसा ज्ञानेन्द्रियाणि मनसा नियम्य फलेच्छाविहीनः सन् कर्मेन्द्रियैः स्ववर्णाश्रमोचितकर्मरूपज्ञानोपायं करोति सः पूर्वतनादधिको भवति ।। 3.7
जो कर्मेन्द्रियोंको तथा ज्ञानेन्द्रियोंको वश मे करके मन से विषयोंकी ध्यान करते है वे मूर्ख लोग डाम्भिक् कहलाते है ।।3.6।।
जो मन से ज्ञानोन्द्रियोंको वश मे करके फलेच्छाके बिना स्ववर्णाश्रमोचित कर्मानुष्ठान करता है वः पूर्वसाधक से अधिक कहलाया जाता है ।।3.7।।
ಯಾವನು ತನ್ನ ಕರ್ಮೇಂದ್ರಿಯಗಳನ್ನು ಜ್ಞಾನೇಂದ್ರಿಯಗಳನ್ನು ನಿಗ್ರಹಿಸಿ ಮನಸ್ಸಿನಿಂದ ವಿಷಯಗಳನ್ನು ಧ್ಯಾನಿಸುತ್ತಿರುವನೋ ಅನು ಡಾಂಭಿಕನೆನಿಸುವನು.
ಯಾವನು ಮನಸ್ಸಿನಿಂದ ಜ್ಞಾನೇಂದ್ರಿಯಗಳನ್ನು ನಿಗ್ರಹಿಸಿ ಫಲೇಚ್ಛೆ ಇಲ್ಲದೆ ಸ್ವವರ್ಣಾಶ್ರಮೋಚಿತವಾದ ಕರ್ಮಾನುಷ್ಟಾನರೂಪ ಕರ್ಮಯೋಗವನ್ನು ಆಚರಿಸುತ್ತಾನೆಯೋ ಅವನು ಹಿಂದೆ ಹೇಳಿದೆ ಪುರುಷನಿಗಿಂದ ಉತ್ತಮನೆನಿಸುತ್ತಾನೆ.
ఎవడైతే తన కర్మేంద్రియములను జ్ఞానేంద్రియములను నిగ్రహించి మనస్సుచే విషయములను ధ్యానించునో అంతటి మూర్ఖుడు డాంభికుడని పిలువబడును.
ఎవడైతే మనస్సుచే జ్ఞానేంద్రియములను నిగ్రహించి ఫలము యొక్క ఇచ్ఛ లేకనే స్వవర్ణాశ్రమోచితమైన కర్మయోగమును తలపెట్టునో అతడు పూర్వము తెలిపిన వానికన్న ఉత్తముడనిపించికొనును.
Tamil
One who controls his organs but keeps thinking about the material joys is a fool and is termed as a fraudster.
One who controls his sense organs through his mind and performs actions without expecting mundane results is considered to be far superior than the former.
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
तथाSपि ‘कर्मेन्द्रियाणि’ इत्यसङ्गतम्। तृतीयपक्षस्थेन मनसेन्द्रियार्थस्मरणस्यानुक्तत्वादित्यत आह - तथापीति।। यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुमशक्यानि। तथापि शक्तितः शक्यत्वाद् यज्ञादिकर्मणां त्यागः कार्यः।। एतदुक्तं भवति। नाशक्यविषये शास्त्रप्रवृत्तिः इत्यतस्तद्व्यतिरिक्तकर्मार्थः स्मृतौ कर्मशब्दो भविष्यतीति। एतच्छङ्कापरिहारः श्लोके न दृश्यते। द्वितीयश्लोकश्च व्यर्थ इत्यत आह- मन एवेति।। मन एव बन्धमोक्षयोः प्रयोजकम्। न कर्मकरणाकरणे। अतस्तन्निग्रह एव कार्यः न कर्मत्याग इति ज्ञापयितुमित्यर्थः। अनिगृहीतत्वे मनसो बन्धापेक्षयाऽऽद्योऽन्वयः। द्वितीयो व्यतिरेकः। मोक्षापेक्षया तु व्यत्यास इति।
एतेन स्मरणस्य मानसत्वव्यभिचारात् ‘मनसा’ इति व्यर्थमित्यपि परास्तम्। कर्मयोगेन योगिनां (3.3) इत्यत्र कर्मयोगशब्दस्य गृहस्थादिकर्मविषयत्वेन प्रकृतत्वादत्रापि तद्विषयत्वप्रतीतिः स्यात् । तन्निरासार्थमाह- कर्मयोगमिति।। गृहस्थकर्मैव वनस्थकर्मैव ब्रह्मचारिकर्मैव इति नियमो न विवक्षित इत्यर्थः। ‘सन्न्यासादि’ इत्यादिपदेन यो नियम्यते तद्व्यतिरिक्तग्रहणम्।।
कर्मयोगशब्दस्य सामान्यवाचित्वाच्च। पूर्वं ‘ज्ञानयोगेन साङ्ख्यानां’ (3.3) इति यत्याश्रमकर्मणः पृथगुक्तत्वात् सामान्यशब्दोऽपि विशेषो व्यवस्थापितः। न चात्र तथाविधं किञ्चिदस्तीति भावः।।6-7।।
गीताभाष्यम्
हरिः ओम् । तथापि शक्तितः त्यागः कार्य इत्याह- कर्मेन्द्रियाणीति।। मन एव प्रयोजकमिति दर्शयितुम् अन्वयव्यतिरेकावाह - मनसा स्मरन् मनसा नियम्येति।। कर्मयोगं स्ववर्णाश्रमोचितम्। न तु गृहस्थकर्मैवेति नियमः। सन्न्यासादिविधानात्। सामान्यवचनाच्च।
गीतातात्पर्यम्
हरिः ओम् ।
Notes