अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
सन्न्यासमिति प्रश्नवाक्ये सन्न्यास इति परिहारवाक्ये च सन्न्यासयोगशब्दौ यतिगृहस्थाश्रमविषयावेव। तयोः सर्वकर्मत्यागात्तदनुष्ठानरूपत्वात्। ज्ञेय इति वचनं तु न सन्न्यासशब्दव्याख्यानपरम्। किन्तु यो द्वेषादिवर्जितो गृही सोऽपि सन्न्यासी ज्ञातव्य इति स्तुतिपरमेव इत्यत आह- नायमिति। अयं परिहारवाक्यस्थः। प्रश्नवाक्यस्थस्य तात्पर्यनिर्णये तथाऽभ्युपगमात्। योगश्च न गृहस्थाश्रम इत्यपि द्रष्टव्यम्। कुतो न? इति चेत् -अत्र तयोस्त्विति सन्न्यासात्कर्मयोगस्य विशिष्टत्ववचनात्। तस्य चास्मत्पक्ष एव सम्भवात्। अन्यत्रासम्भवादिति भावः। कुतो भवत्पक्षे सम्भवः? इत्यत आह- द्वन्द्वेति। मत्पूजा मदर्पणबुद्ध्या कर्मानुष्ठानम्।
आश्रमार्थत्वे कुतोऽसम्भवः? इत्यत आह- तानीति। तान्याधानादीनि। अत्यरेचयत् अत्यरिच्यत। इति च वचनादिति वर्तते।
‘न्यस्यतेऽस्मिन्सर्वमिति ब्रह्मैव न्यासः‘ इति कश्चित्। तदसत्। तपोऽपेक्षयोत्तमत्वाभिधानस्यासङ्गतत्वात्। उपायोपेयभावेन सङ्गतिरिति चेत्- तर्हि तत्सिद्धौ लोकत एवोत्तमत्वसिद्धेरभिधानवैयर्थ्यात्।
‘गृहस्थाश्रमाद्यत्याश्रमस्योत्तमत्वमयुक्तम्। गृहस्थाश्रमो हि सर्वधर्मोपपन्नः। तत्समर्थे मध्यमे वयसि अनुष्ठेयो महाफलश्च। यत्याश्रमस्तु निष्क्रियश्चरमे वयसि गृहस्थधर्मानधिकृतैरन्धपङ्गवादिभिरनुष्ठेयोऽल्पफलश्चेति केचित्। तन्निरासार्थमाह सन्न्यासस्त्विति। काम्यकर्मरहितत्वात् निष्क्रियाख्योऽपि सधर्मकः। न केवलं सधर्मकः; किन्तु न तस्माद्यत्याश्रमानुष्ठेयाद्यतिभक्त्यापि यत्फलं प्राप्नुयान्न तत्सर्वैर्गृहस्थधर्मैरित्यर्थः। ब्रह्मचर्यादेव ब्रह्मचर्यं विसृज्यैव। विरजेत् विरक्तो भवेत्। ‘तदहरेव प्रव्रजेत्‘ इति श्रुतिशेषः। कर्मेत्याश्रमान्तरम्। यदुक्तं नायं (4.40) इत्यादि तदुपसंहरति अत इति। अत्र परिहारवाक्ये।
गीताभाष्यम्
हरिः ओम् ।
नायं सन्न्यासो यत्याश्रमः।
‘द्वन्द्वत्यागात्तु सन्न्यासान्मत्पूजैव गरीयसी इति वचनात्।
तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् इति च।
‘सन्न्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः।
न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते।
तद्भक्तोऽपि हि यद्गच्छेतद्गृहस्थो न धार्मिकः।
मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते।
यदाधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत्।‘ इति नारदीये।
‘ब्रह्मचर्यादेव प्रव्रजेत् यदहरेव विरजेत्’ (ना.प.उ.3.78) इति च।
‘सन्न्यासे तु तुरीये वै प्रीतिर्मम महीयसी। येषामत्राधिकारो न तेषां कर्मेति निश्चयः‘ इत्यादेश्च ब्राह्मे।
अतो नात्राश्रमः सन्न्यास उक्तः।
गीतातात्पर्यम्
हरिः ओम् ।
एकपुंयोग्यावेतौ तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत'' इति वक्ष्यमाणत्वात् ॥ २ ॥
Notes